________________
338
उत्तराध्ययन
लंबणस्स य आययट्ठिआ जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तकेइ, नो पीहेई, नो पत्थेइ, नो अभिलसइ।परस्स लाभं अणासाएमाणे अतक्के
माणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दोच्चं सुहसिजं उपसंपजित्ताणं विहरइ ॥ व्याख्या-सम्भोग एकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानं गीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्धादिकारणेप्यन्यदत्तमाहारादिकं गृह्णाति असौ तु कारणेऽपि न तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येपामित्यायतार्थिका योगा व्यापारा भवन्ति, सालम्बनस्य हि योगाः केचन तादृशा न भवन्त्यपीति । तथा खकेन खकीयेन लाभेन सन्तुष्यति, परस्य लाभं नो आखादयति न भुक्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलपति । तत्र तर्कणं यदीदं मह्यमसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत्श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं याचा मसमिदं देहीति याचनं, अभिलपणं तल्लालसतया वाञ्छनं । एकार्थिकानि या एतानि नानादेशोत्पन्नपिनेयानुग्रहाय गृहीतानि । परस्य लाभमनाखादयन्नऽभुजानोऽतर्कयन्नऽस्पृहयन्नऽप्रार्थयमानोऽनभिलपन् 'दोचंति' द्वितीयां सुखशय्यामुपसम्पद्य विहरति, एवंविधरूपत्वात् तस्याः । यदुक्तं स्थानाङ्गे-"अहावरा दोथा सुहमेजा, से णं मुंडेभवित्ता अगाराओ अणगारियं पचइए समाणे सएणं लाभणं मंतुस्मइ, परस्स लाभं न आसाएइ" इत्यादि ॥३३॥ ॥ ३५ ॥ प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाहमूलम्-उवहिपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपञ्चकवाणेणं अपलिमंथं जणयइ,
निरुवहिए णं जीवे निकंखे उवहिमंतरेण य न संकिलिस्सइ ॥ ३४ ॥ ३६ ॥ व्याख्या--उपधेरुपकरणस्य रजोहरणमुखवम्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थः स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्धस्तं जनयति, तथा निरुपधिको निकांक्षो वखाद्यभिलापरहित उपधिमन्तरेण च न संक्लिश्यते, शारीरं मानसं वा संकेशं नानभवति । उक्तं हि-"तम्स णं भिक्खुम्स णो एवं : वत्थे सूई जाइस्सामि, संधिस्यामि" इत्यादि ॥ ३४ ॥ ३६॥ उपधिप्रत्याख्यातुर्जिनकल्पिकाग्यिाहाराघलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाहमूलम्-आहारपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहारपञ्चक्खाणेणं जीविआसंसप्पओगं
वोच्छिदइ, जीविआसंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ३५॥३७ व्याख्या-आहारप्रत्याख्यानेन जीविते आशंसा अभिलापो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाजीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न वाधामनुभवति ॥ ३५ ॥ ३७॥ एतत्प्रत्याख्यानत्रयं कपायाभाव एव सफलमिति तत्प्रत्याख्यानमाहमूलम्-कसायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपच्चकवाणेणं वीयरागभावं जणयइ,
__वीअरागभावं पडिवण्णे अ णं जीवे समसुहदुक्खे भवइ ॥३६ ॥ ३८॥ व्याख्या-कपायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपन्नो जीवः समे रागद्वेपाभावात्तुल्ये मुखदुःखे यस्य स समसुखदुःखो भवति ॥ ३६ ॥ ३८ ॥ निष्कपायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाहमूलम्-जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपञ्चक्खाणेणं अजोगित्तं जणयइ, अजोगी
णं जीवे नवं कम्मं न बंधइ, पुववद्धं च निजरेइ ॥ ३७ ॥ ३९॥ व्याख्या-योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न