________________
337 उत्तराध्ययन
__मूलम्-तवेणं भंते किं जणयइ ? तवेणं वोदाणं जणयइ ॥ २७ ॥ २९ ॥ व्याख्या-'योदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ॥ २७ ॥ २९ ॥ व्यवदानस्यैव फलमाहमूलम्-वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअं जणयइ, अकिरिआए भविता
तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सबदुक्खाणमंतं करेइ ॥ २८ ॥३०॥ व्याख्या--व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत् ॥ २८ ॥ ३० ॥ व्यवदानं च सुखशातेनैव स्यादिति तमाहमूलम्-सुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अणं
जीवे अणुकंपए अणुब्भडे विगयसोए चरित्तमोहणिज्जं कम्मं खवेइ ॥ २९ ॥ ३१ ॥ व्याख्या-सुखस्य वैपयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि नियमाणमपि प्राणिनं पश्यन् खसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुटोऽनुल्वणः, विगतशोको नैहिकार्थदंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभभाववशाचारित्रमोहनीयं कर्म क्षपयति ॥ २९ ॥ ३१ ॥ सुखशातश्चाप्रतिबद्धतया स्यादिति तामाहमुलम्-अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगतं जणयइ,
निस्संगत्तगए अ णं जीवे एगे एगग्गचित्ते दिआ य राओ अ असज्जमाणे अप्पडिबद्धे
आवि विहरइ ॥३०॥ ३२ ॥ व्याख्या--अप्रतिवद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव एको रागादिविकलः, एकाग्रचित्तो धमकतानचेतास्ततश्च दिवा च रात्री चाऽसजन, कोऽर्थः? सदा बहिःसङ्ग सजन् अप्रतिवद्धश्चापि विहरति, मासकल्पादिना उद्यतविहारेण पर्यटति ॥३०॥ ३२ ॥ अप्रतिबद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाहमूलम्-विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासणयाए णं चरित्तत्र्ति
जणयइ, चरित्तगुत्ते अणं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठ
विहं कम्मगंठिं निजरेइ ॥ ३१ ॥ ३३॥ व्याख्या--विविक्तानि स्यादिरहितानि शयनासनानि उपलक्षणत्वादपाश्रयश्च यस्यासौ विविक्तशयनासनः तडावस्तत्ता तया चरित्रगुप्तिं चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिवृहकवस्तुरहित आहारो यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत एकान्तरतः संयम इति गम्यते, मोक्षभावप्रतिपन्नो मोक्ष एव मया साधनीय इत्यभिप्रायवान् , अष्टविधकर्म ग्रन्थि निर्जरयति, क्षपकश्रेणिप्रतिपत्या क्षपयति ॥ ३१ ॥ ३३ ॥ विविक्तशयनामनतायां सत्यां विनिवर्त्तना सादिति तामाहमूलम्-विणिवट्टणयाए णं भंते ! जीवे किं जणयइ ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए
अब्भुट्टेइ, पूववद्धाण य निजरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं
विईवयइ ॥ ३२ ॥ ३४ ॥ व्याख्या-विनिवर्त्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पाप कर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आपत्वादकरणेन अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्ववद्धानां निर्जरणया तदिति पापकर्म निवर्त्तयति विनाशयति ॥ ३२ ॥ ३४ ॥ विपयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाहमूलम्-संभोगपच्चरवाणेणं भंते ! जीवे किंजणयइ ? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ, निरा