________________
उत्तराध्ययन
301 व्याख्या-'पुरिमत्ति' पूर्व प्रथमजिनमुनयः ऋजवश्व प्राञ्जलतया जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः । वक्राश्च तक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वावक्रजडाः, चः समुच्चये, पश्चिमाः पश्चिमजिनयतयः। मध्यमास्तु मध्यमार्हता साधवः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः । एककार्यप्रपनत्वेऽपि इतिप्रक्रमः ॥ २६ ॥ यदि नाम पूर्वादिमुनीनामीशत्वं, तथापि कथमेतद्वैविध्यमित्याह
मूलम्-पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालओ।
कप्पो मज्झिमगाणं तु, सुविसोझो सुपालओ ॥ २७ ॥ व्याख्या-पूर्वेषां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तवाक्यं सम्यगयबोद्धं प्रभवन्तीति तुः पूर्ती । चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः । ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पाल
बतुयोमोक्तावपि पञ्चममपि या ज्ञातुं पालयितुं च क्षमाः।यदुक्तं-"नो अपरिग्गहिआए, इत्थीए जेण होइ परिभोगो । ता तविरईए चिअ, अवमविरइत्ति पण्णाणं ॥१॥” इति तदपेक्षया श्रीपार्श्वस्वामिना चतुयामो धर्म उक्तः । पूर्वपश्चिमास्तु नेशा इति श्रीमश्रीवीरखामिभ्यां पश्चप्रतः। तदेवं विचित्रप्रज्ञाविनेयानुग्रहाव धर्मस्य द्वैविध्यं, न तु तात्त्विकं । आद्यजिनकथनं चेह प्रसंगादिति सूत्रपंचकार्थः ॥ २७ ॥ ततः केशी आह
मूलम्-साहु गोअम! पण्णा ते, छिण्णो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ २८॥ व्याख्या-साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैत्रमभिधानं, अन्यथा तु न तस्य ज्ञानत्रयान्वितस्येदृशसंशयसम्भवः ॥ २८ ॥ मूलम्-अचेलगो अजो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महायसा ॥ २९ ॥
व्याख्या-'महायसत्ति' महायशसा ॥ २९॥ . मूलम्--एगकजप्पवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पञ्चओ न ते? ॥३०॥ ___ व्याख्या-'लिंगे दुविहेत्ति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ॥ ३० ॥ ततश्च
मूलम् केसिमेवं बुवंतं तु, गोअमं इणमब्बवी ।
विण्णाण समागम्म, धम्मसाहणमिच्छिअं॥३१॥ व्याख्या-'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा, धर्मसाधनं धर्मोपकरणं वर्पाकल्पादिकं, 'इच्छिति' इष्टमनुमतं श्रीपार्थश्रीवीराहयामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररजनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्थशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ॥ ३१ ॥ किञ्चमूलम्-पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ॥३२॥ ___ व्याख्या-प्रत्ययार्थ चामी जतिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं हि रजोहरणाधुपकरणं प्रतिनियनं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्यात् ? अन्यथा तु यथेटं वेषमादाय पूजाद्यर्थमन्येपि केचिद्वयं अतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति) तथा 'जनत्थंति' यात्रा संयमनिर्वाहतदर्थ, विना हि वर्णकल्पादिकं वृष्टयादौ संयमबाधैव स्यात् । 'गहणत्यंति' ग्रहणं खस्य ज्ञानं तदर्थं च, कथंचिचित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थ च, लोके लिङ्गस्य वेषस्य प्रयोजनम् ॥ ३२ ॥