________________
298 उत्तराध्ययन स्तस्थौ, खामी तु समतानिधिः॥३०७॥ तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् ॥जातकोपो नागनाथः, साक्षेपमि. दमभ्यधात् ॥३०८॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? ॥ दयालोरपि दासोऽहं, सहिष्ये न यतः परम् । ॥ ३०९ ॥ ज्वलन्महोरगः पापा-निषेधुं खामिनाऽमुना ॥ तदाऽदयत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१ ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोविना द्विषन्नध, न भविष्यसि पाप रे ! ॥ ३११ ॥ तदाफर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ॥ ३१२ ॥ दध्यौ च चकितः शक्तिरियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३ ॥ किं चायं भगवान्मुष्ट्या, पेष्टुं धनमपि क्षमः ॥ क्षमया क्षमते सर्व, भोगीन्द्राद्भीस्तथापि मे ॥ ३१४ ॥ न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः ॥ तदे. नमेव शरणी-करोमि करुणाकरम् ॥ ३१५ ॥ ध्यात्वेति मेघ संहत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदः क्षमखेति, प्रोन्यागाच स्वमास्पदम् ॥ ३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा-ऽनुपसर्गप्रणम्य च ॥ निजं स्थानं ययौ प्रात-र्जिमोऽपि व्यहरत्ततः॥३१७ ॥ छमस्थत्वेन चतुर-शीतिमहां विहत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययौ प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राधोपेत्य समव-सरणं चक्रिरेऽखिलाः ॥ ३१९ ॥ पूर्वसिंहासने तत्रा-सीने श्रीपाचपारगे ॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ॥ ३२॥ यथास्थानं निषण्णेषु, सुरासुरनरेनथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥ ३२१ ॥ ज्ञात्वा ज्ञानोदयं पार्थ-प्रभोद्यानपालकात् ॥ तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ॥ ३२२ ॥ श्रीअनसेनभूपोऽपि, यामादेव्या समन्वितः ॥ गत्वा कृतस्तुतिनति-र्द्धम शुश्राप शुद्धधीः ॥ ३२३ ॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः ॥ बुद्धाः पर्यप्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ॥ ३२४ ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामिदत्तपदत्रयात् ॥ ३२५॥राज्ये न्यस्यानसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ यामादेव्या प्रभावत्या, चान्वितः प्रात्रजत्तदा ।। ३२६ ॥ पद्मावती-पार्धयक्ष-पैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्थः, श्रीपार्थो व्यहरत्ततः ॥ ३२७॥ सहस्राः पोडशी, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साल्वीनां तु महात्मनाम् ॥ ३२८ ॥ श्रावकाणां लक्षमेकं, चतुष्पष्टिसहस्रयुक् ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२९ ॥ दिनैश्चतुरशीयोनामाईन्ये वर्षसप्ततिम् ॥ विभोर्विहरतः संघो-ऽभवदेवं चतुर्विधः ॥ ३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्रो व्यधाद्विभुः ॥ त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ॥ ३३१ ॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः सुंयुतो, मासेनाप ततः शिवं कृतभयोपग्राहिकर्मक्षयः ॥ शक्राद्यैश्च सुरासुरेवरवरैः श्रीपार्थविधेशितु-चक्रेऽभ्येत्य महोदया. प्तिमहिमा माहात्म्यवारांनिधेः ॥ ३३२ ॥ इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायते
१ सदाधिष्ठितपार्थः श्री-पार्थोपि व्यहरत्ततः ।। इति "घ" पुस्तके । मूलम्-तस्स लोगप्पईवस्स, आसिसीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥
व्याख्या-'केसित्ति' केशिनामा, कुमारश्चासायपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयो. झोनचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यख हि श्रीवीरतीर्थप्रवृत्ति कालं यावदवस्थानानुपपत्तेः ॥२॥ मूलम्-ओहिनाणसुए बुद्धे, सीससंघसमाउले। गामाणुगाम रीयंते, सावत्थिं नगरिमागए ॥३॥
व्याख्या-ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, प्रामानुग्रामं रीयमाणो बिहरन् ॥ ३॥ मूलम्-तिंदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ४॥
व्याख्या-तम्मित्ति' तस्याः श्रावस्त्याः, नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके खाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् , तत्र तिन्दुकोधाने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाह
१ शिष्यसंघसमाकुल: ' नास्त्ययं पाठः “घ” संज्ञकपुस्तके ॥