________________
297 उत्तराध्ययन कठोऽशंस-द्राजपुत्र ! भवादृशाः ॥ दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् ! ॥ २६८ ॥ ततोऽमिकुण्डान्निकास्य, तत्काष्ठं सेवकैर्विभुः ॥ यत्नेनाभेदयत्तस्मा-निरगाचोरगो गुरुः ॥ २६९ ॥ द्विजिह्वः सोऽपि हि ज्वाला-जिहज्वालार्त्तिविह्वलः ॥ प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ॥ २७० ॥ परलोकाध्वपान्थस्य, तस्याहेः खनरैः प्रभुः ॥ प्रत्याख्याननमस्कारा-दिकं शम्बलमार्पयत् ! ॥ २७१ ॥ सर्पः सोऽपि प्रतीयेष, तत्समग्रं समाहितः॥ कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽहंता स्वयम् ॥ २७२ ॥ विपद्य सोऽथ नागोऽभू-नागेन्द्रो धरणाभिधः॥ जिननिध्यानसुध्यान-नमस्कारप्रभावतः ! ॥ २७३ ॥ अहो ! अस्य कुमारस्य, विज्ञानमिति वादिमिः ॥ स्तूयमानो जनैः खामी, निजं धामागमत्ततः ॥ २७४ ॥ तद्वीक्ष्याकर्ण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः ॥ बालं तपोऽतनोद्वाद, सन्मार्गाप्तिः क तादृशाम् ! ॥ २७५ ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेषकुमारेषु, देवो मिथ्यात्वमोहितः ॥ २७६ ॥ ___ अथान्यदा वसन्तत्तौं, क्रीडोधानं गतो जिनः ॥ प्रासादमित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ २७७ ॥ दध्यौ च धन्योऽर्हन्नेमि-र्यः कुमारोऽग्रहीदतम् ॥ हित्वा राजीमतीं गाढा-नुरागामपि कन्यकाम् ॥ २७८ ॥ तन्निस्सनोहमपि हि, भवामीतिमतिर्विभुः ॥ तीर्थ प्रवर्तयेत्यूचे-ऽभ्येत्य लोकान्तिकैः सुरैः ॥ २७९ ॥ ततो दत्वाब्दिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ॥ २८० ॥ नरेन्द्ररथसेनाद्यै-रिन्द्रः शक्रादिकैस्ततः ॥ दीक्षामिषेकः श्रीपार्श्व-प्रमोश्चके महामहैः ॥ २८१ ॥ अथारूढः सुरैरूढां, विशालां शिविकां विभुः ॥ देवदुन्दुमिनिर्घोषापूर्णधावाक्षमान्तरः ॥२८२॥ श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी-न्ममत्वादिव तन्मनः ॥ २८३ ॥ [युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदूष्यं, दधन्यस्तं विडोजसा ॥ २८४ ॥ त्रिंशद्वर्पवयाः स्वामी, सह नृणां शतैत्रिभिः ॥ कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ॥२८५॥ [युग्मम्] लेभे मनःपर्यया, तुर्यज्ञानं जिनस्तदा ॥ भुवि भारुण्डपक्षीवा-ऽप्रमत्तो विजहार च ॥ २८६ ॥ वासवा अपि शक्राद्याः, कृतखामिव्रतोत्सवाः ॥ गत्वा नन्दीश्वरे कृत्वा-ऽष्टाहिकां खाश्रयं ययुः ॥ २८७ ॥ अन्यदा नगराभ्यर्णदेशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन् , मार्तण्डश्चास्तपर्वतम् ॥ २८८ ॥ ततोऽवटतटस्थस्य, वटस्य निकटे निशि ॥ तस्थौ प्रतिमया स्वामी, नासानन्यस्तलोचनः ॥ २८९ ॥
इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं, स्मृत्वा तद्वैरकारणम् ॥ २९० ॥ क्रोधेन प्रज्वलन्नन्त-र्षियोगीव मनोभुवा ॥ पार्श्वनाथमुपद्रोतुं, तं प्रदेशमुपाययौ ॥ २९१ ॥ [युग्मम् ] विचक्रे चाङ्कुशाका. र-नखरान्नखरायुधान् ॥ घोररूपधराम्पुच्छा-छोटकम्पितभूधरान् ॥ २९२ ॥ आप्ते तैर्भीतिमप्राप्ते, भीपणेभ्योऽपि भीपणान् ॥ विदधे सोऽसुरः शैल-प्रायकायान्मतङ्गजान् ॥ २९३ ॥ तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः॥
१सिंहान् ॥ यमदोईण्डयञ्चण्डा-कान्नेत्रविषानहीन् ॥ २९४ ॥ उत्कटः कण्टकैः स्वास्थ्य-प्रश्वकान् धृश्चिकांस्तथा ॥ भल्लुकशूकरादींश्च, श्वापदानापदां विधीन् ॥ २९५ ॥ ज्वालामालाकरालास्या-मुण्डमालाढयकन्धरान् ॥ प्रेतान् विश्वानभि
चकार सः ॥२९६॥ [विभिर्विशेषकम् ] प्रभोध्यानं चलयितुं, तेऽपि न प्रभवोऽभवन् ॥ वर्ज भेत्तुमियोइंश-कीटिकामत्कुणादयः!॥२९७॥ ततः कुद्धोऽधिकं गजों-विद्युबासदिगन्तराम् ॥ मेघमाली मेघमाला, विचक्रे व्योम्मि भीपणाम् ! ॥ २९८ ॥ नीरैरेनं प्लावयित्वा, हन्म्यहं पूर्वविद्विषम् ॥ ध्यायन्निति ससंरम्भः, प्रारेभे सोऽय वर्पितम् ॥ २९९ ॥ धाराभिर्मुष्टिमुशल-यूपाकाराभिरुच्चकैः ॥ वर्षे वर्ष व्यधादेकार्णवामिव वसुन्धराम् ॥ ३० ॥ अभूदाकण्ठमुदकं, तदा पार्थप्रभोः क्षणात् ॥ तदा तदास्यं तत्रामा-त्पमं पद्महदे यथा ॥ ३०१ ॥ नासापाच पार्श्वभर्तुः, पयो यावदुपाययौ ॥ चचाल विष्टरस्ताव-द्धरणस्योरगप्रमोः ॥ ३०२ ॥ सोऽथ ज्ञात्वाऽवधेः खामी-वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्नाम तम् ॥ ३०३ ॥ उमालं नलिनं न्यस्य, खामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्थादिकं प्यधात् ॥ ३०४ ॥ तन्मौलौ तु व्यधाञ्छत्रं, फणीन्द्रः सप्तभिः फणैः॥ ध्यानलीनमनाः खामी, तत्र तस्थौ सुखं ततः ॥ ३०५ ॥ नागराजमहिष्योऽपि, नृतं चकु: प्रभोः पुरः॥ वेणुवीणामृदंगादि-ध्वनिव्यासदिगन्तरम् ॥ ३०६ ॥ भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि पासुरे ॥ निर्विशेषमना
१ छेदकान् ॥