________________
उत्तराध्ययन
296 जीवन्मुक्तोऽसि दूतत्वा-दन्छ त्वमपि रे ! द्रुतम् ॥ २२५ ॥ पुनरप्यवदतः, कृपालुर्मम नायकः ॥ कुशस्थलाधिपमिव, त्वामपि त्रातुमीहते ! ॥ २२६ ॥ अत एव स मां प्रैषी-त्त्वां बुवोधयिपुर्जड ! ॥ तद्रुध्यस्खाऽवबुध्यखा-5जय्यं तं वज्रिणामपि ! ॥ २२७ ॥ हरिणो हरिणा ध्वान्तं, भाखता शलभोऽमिना ॥ पिपीलिकाब्धिना नाग-स्तायेण पविना गिरिः॥ २२८ ॥ कुञ्जरेणोरणथैव, यथा योद्धमनीश्वरः ॥ तथा त्वमपि पार्थेण, तत्तदाज्ञा प्रतीच्छ भोः ! ॥ २२९ ॥ [युग्मम् ] ब्रुवन्तमिति तं दूतं, विझुवन्तो जिघांसवः ॥ यावदुत्तस्थिरे सैन्या-स्तायन्यंत्रीत्युवाच तान् ॥ २३० ॥ अरे ! पार्थप्रभोर्दूतं, मूढा यूयं जिघांसवः ॥ अनर्थान्धौ क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! २३१ पस्याज्ञां मौलिवन्मौलौ, दधते वासवा अपि ॥ तहतस्याभिहनन-मास्सां हीलापि दुःखदा! ॥ २३२ ॥ निवार्येति भटान्मंत्री, साम्ना तं दूतमित्यवक् ॥ सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवीः प्रभोः ॥ २३३॥ नन्तुं श्रीपार्श्वपा. शब्जान् , समेष्यामोऽधुना वयम् ॥ इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ॥ २३४ ॥ हितेच्छुः खप्रभुं चैवमूचे देवाऽविमृश्य किम् ॥ दुरुदर्कमिदं सिंह-सटाकर्षणवत्कृतम् ? ॥ २३५ ॥ यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव सङ्गरः १ ॥ तदद्यापि न्यस्य कण्ठे, कुठारं पार्थमाश्रय ॥ २३६ ॥ क्षमयन्स खापराधं, तच्छासनमुरीकुरु ॥ अत्रा. मुत्र च चेत्सौख्यैः, कार्य कार्य तदा खदः ॥ २३७ ॥ साध्वहं बोधितो मंत्रि-नित्याख्याधवनस्ततः ॥ सतंत्रोऽपादुपखामि, ग्रीवान्यस्तपरश्वधः॥ २३८ ॥ वेत्रिणा वेदितश्चान्तः-समं गत्वाऽनमत्प्रभुम् ॥ तन्मोचितकुठारश्च भूयो नत्वैवमब्रवीत् ॥ २३९ ॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमख मे ॥ अभयं देहि भीतस्य, प्रसीदादत्व मे रमाम् ! ॥ २४० ॥ ऊचे श्रीपार्श्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! ॥ भुंव राज्यं निजं माल-भैषीमैवं कृथाः पुनः ! ॥ २४१ ॥ तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् ॥ कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ॥ २४२॥ अथाज्ञया प्रभोगत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वात्ती प्रीतचेतसे ॥ २४३ ॥ ततः प्रभावती कन्या-मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ॥ २४४ ॥ यथा स्खयमिहागल्या-स्वनहीर्मा जगत्पते ! ॥ परिणीय तथा पुत्री-मिमामनुगृहाण मे ॥ २४५॥ चिरकालीनरागासौ, त्वयि नान्यं समीहते ॥ तन्निसर्गकृपालोऽस्यां, विशेपासकृपो भव ॥ २४६ ॥ खाम्यूचेऽहं नृप ! त्रातुं, त्यामागां पितुराज्ञया ॥ मतूद्वोढुं तव सुता, तदलं वार्तयाऽनया ॥ २४७ ॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्राि ॥ अश्वसेनोपरोधात-न्मानयिष्याम्यदोऽमुना ॥ २४८ ॥ तेनेति ध्यायता साकं, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा खामी, व्यसृजयवनं नृपम् ॥ २४९ ॥ विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअश्वसेनं, नन्तुमेष्याम्यहं विभो !॥ २५०॥ तत ओमित्युक्तवता, श्रीपार्थस्वामिना समम् ॥ वाराणसी नृपः सोऽगा-सहादाय प्रभावतीम् ॥ २५१॥ तातं नत्वा निजं साधं, गते पार्थ प्रसेनजित् ॥ प्रभावत्या समं गत्याऽ-वसेननृपमानमत् ॥ २५२ ॥ तं चाश्वसेनोऽभ्युत्थाय, समालिंग्य च निर्भरम् ॥ कुशलं ते खयं चेह, किमागा इति पृष्टवान् ? ॥ २५३ ॥ सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ॥ इह त्वामां महाराज , त्यां प्रार्थयितुमात्मना ॥ २५४ ॥ नाना प्रभावती मेऽसौ, सुता श्रीपार्थहेतये ॥ गृह्मतां देव ! याचा मे, मा भून्मोघा त्वयि प्रभो ॥ २५५ ॥ राजा जगी कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयियामि, बलात्तं तव तुष्टये ॥ २५६ ॥ इत्युदित्वा समं तेन, गत्वा पार्शन्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ २५७ ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे ! त्वया ॥ २५८ ॥ इत्यश्वसेनो/शेन, पार्थः साग्रहमीरितः ॥ भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ २५९ ॥ क्रीडागिरिसरिद्वापी-चनादिषु तया समम् ॥ रममाणो विभुर्नित्य-मतिचक्राम वासरान् ॥२६०॥ गवाक्षस्थोऽन्यदा खामी, पुरीं पश्यन्ददर्श सः ॥ बहिर्यातो बहू. पुष्प-पटलीपाणिकान् जनान् ॥२६१॥ इत्यपृच्छच्च पार्थस्थान् , पार्थः कोऽय महो महान् ? ॥ पुर्या निर्याति यदसौ,
कलो जनः ॥ २६२ ॥ ततः कोऽपि जगौ स्वामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽ. स्तीह, कठाइस्तापसाग्रणीः ॥ २६३ ॥ तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्विरम् ॥ द्रष्टुं तत्कौतुकं खामी, तत्रागात्सपरिच्छदः । ॥ २६४॥ पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः ॥ यतिकुण्डक्षिप्तकाष्ठे, दसमानाहिमैक्षत ॥ २६५॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-ऽप्यस्याऽज्ञानं यन्न दयागुणः । ॥ २६६ ॥ बिना चक्षुर्मुखमिष, धर्मः कीरकृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ! ॥ २६७ ॥ तदाकर्ण्य