________________
295
उत्तराध्ययन
शक्रेण विहिता - मङ्गुष्ठे नित्यमापिवनू ॥ ववृधे स जगन्नाथो, जगत्पाथोऽधिचन्द्रमाः ॥ १८२ ॥ [ युग्मम् ] क्रमाच यौवनं प्राप्तः, कामिनीजनकार्मणम् ॥ नवहस्तप्रमाणाङ्गः, प्रभुः प्रामुमुदजगत् ॥ १८३ ॥ अन्येद्युरश्वसेनोff - नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि, पुमान्नत्वैवमब्रवीत् ॥ १८४ ॥ खामिन्निहास्ति भरते, कुशस्थलपुरं पुरम् || राजा प्रसेनजि-तत्र, विद्यते हृद्यकीर्त्तिभूः ॥ १८५ ॥ तस्य प्रभावतीसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुच्चित्य, रचितेव विरश्चिना ॥ ९८६ ॥ याति दास्यं तदास्यस्य शशी तन्नेत्रयोर्मृगः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥ १८७ ॥ आदर्शो दर्शनीयत्वं नाभुते तत्कपोलयोः ॥ धुरां तदधरस्यापि, न धत्ते हेमकन्दलः ! ॥ १८८ ॥ कुण्ठो बैकुण्ठकम्बुस्त- त्कण्ठसौन्दर्यशिक्षणे ॥ खर्णकुम्भोऽपि नो दक्ष - स्तद्वक्षोजरमाग्रहे ! ॥ १८९ ॥ नालमालिंगितुं पद्म - नालं तदोर्लताश्रियम् ॥ न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि ! ॥ १९० ॥ तन्मध्यलीलामध्येतुं, बालिशः कुलिशोऽपि हि ॥ न तन्नाभिसनाभित्व - मावर्त्तः शिक्षितुं क्षमः ! ॥ १९९ ॥ तदारोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भं तद्रुसुषमार्जने ॥ १९२॥ नैणिजंघापि तजंघा - श्री संघातनसोद्यमा ॥ नारविन्दानि विन्दन्ति, पद्मां तत्पादपद्मयोः ! ॥ १९३॥ कलां नाश्चति तत्काय- कान्तेः काञ्चन काञ्चनम् ॥ तल्लावण्यगुणं वीक्ष्या - ऽप्सरसः सरसा न हि ! ॥ १९४ ॥ तां वीक्ष्य तादृशीं योग्य- जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास कुमारान्नाप तं पुनः ॥ १९५ ॥ सा सखीभिः सहान्येद्यु-तोद्यानं प्रभावती ॥ गीतं स्फीतं किन्नरीभिर्गीयमानमदोऽशृणोत् ॥ १९६ ॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताचिरम् ।। रूपलावण्यतेजोभि र्निर्जयन्निर्जरानपि ! ॥ १९७ ॥ तदाकयभवत्पार्श्वे, सानुरागा प्रभावती ॥ क्रीडां क्रीडां च संत्यज्य, तद्गीतमशृणोमुहुः ॥ १९८ ॥ ततोऽनुरक्ता सा पार्श्वे, वयस्याभिरलक्ष्यत ॥ रागो रागिषु न छन्न- स्तिष्ठत्यम्भसि तैलवत् ॥ १९९ ॥ चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, कापि नाधिगता सुखम् ॥ २०० ॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पार्श्वमेवान्तः, परब्रह्मेव योगिनी ॥ २०१ ॥ ज्ञात्वा पार्श्वेऽनुरक्तां तां पितरौ तत्सखीमुखात् ॥ मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ २०२ ॥ इत्यूचतुश्च प्रेष्यैना-मधिपार्श्व स्वयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ २०३ ॥ तन्निशम्य चरैर्नैक - देशाधीशो महाबलः ॥ इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः ॥ २०४ ॥ कथं पार्थाय हित्वा मां सुतां दाता प्रसेनजित् ? ॥ प्रसह्मापि ग्रहीष्ये तां, स्वयं दास्यति चेन्न मे ॥ २०५ ॥ इत्युदीर्याशु पवन - जवनो यवनो नृपः ॥ एत्यारुणस्पुरं विष्वग्, बलैः प्राज्यैः कुशस्थलम् ॥ २०६ ॥ प्रवेशनिर्गमौ तत्रा- भूतां कस्यापि नो तदा ॥ रोलम्बस्येव रजनीमुखमुद्रितनीरजे ॥ २०७ ॥ पुरुषोत्तमनामाहं, प्रहितो भूभूम ततः ॥ वार्त्ता वक्तुमिमां रात्रौ निर्गत्यात्रागमं प्रभो ! ॥ २०८ ॥ परंतपातः परं तु यत्कर्त्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ॥ २०९ ॥ तन्निशम्याश्वसेनो-कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥ २९० ॥ तं भम्भाध्वनिमाकर्ण्य, किमेतदिति चिन्तयन् ॥ पितुः पार्श्वमगात्पार्थो, नत्वा चैवमवोचत ॥ २१९ ॥ तरखी कतरो देवा - सुराणां चाऽपराध्यति ? ॥ स्वयं श्रीतातपादानां यदर्थोयमुपक्रमः ॥ २१२ ॥ अश्वसेननृपोङ्गुल्या, दर्शयन्नागतं नरम् ॥ कुशस्थलपतिं त्रातुं यवनं जेयमब्रवीत् ॥ २१३ ॥ पार्श्वः प्रोचे तृणे पर्शो-रिव तस्मिन्नृकीटके ॥ सुरासुरजितां तात - पादानां नोद्यमोऽर्हति ! ॥ २१४ ॥ तदादिशत मां पूज्याः, सौधं भूषयत स्वयम् ॥ मत्तोऽपि भावि मत्तस्य, तस्य दर्पापसर्पणम् ! ॥ २१५ ॥ ततो राजा बलं सूनो - र्विदन् विश्वश्रयाऽधिकम् ॥ प्रत्यपद्यत तद्वाक्यं, ससैन्यं यसृजच तम् ॥ २१६ ॥ आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः ॥ एत्य नत्वा जगन्नाथं रथोत्तीर्णो व्यजिज्ञपत् ॥ २१७ ॥ प्रभो ! विज्ञाय शक्रस्त्वां क्रीडयापि रणोद्यतम् ॥ भक्त्या रथममुं प्रैषी-त्प्रसद्य तमलङ्कुरु ॥२१८॥ नानाशस्त्राढ्यमस्पृष्ट-भूपृष्ठं तं रथं ततः ॥ आरुष तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ॥ २१९ ॥ अन्वायान्या भूमिगायाः, सेनायाः कृपया प्रभुः ॥ प्रयाणैर्लघुकैर्गच्छन्, क्रमात्प्राप कुशस्थलम् ॥ २२० ॥ तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् ॥ खामिना प्रहितो दूतो, गत्वा यवनमित्यवक् ॥ २२१ ॥ राजन् ! श्रीपार्श्वनाथस्त्व, मदास्पेनादिशत्यदः ॥ शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ॥ २२२ ॥ अहं हि तातमायान्तं निषिध्यानेन हेतुना ॥ इहायातोऽस्मि तद्याहि, स्वस्थानं चेत्सुखस्पृहा ! ॥ २२३ ॥ अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् १ ॥ अश्वसेनश्च पार्श्वश्व, कियन्मानं ममाग्रतः ! ॥ २२४ ॥ तत्पार्श्व एव खं धाम, यातु पातु वपुर्निजम् ॥