________________
उत्तराप्ययनसूत्रम्।
॥२५॥ स गुर, तं गुरुस्तु निषिद्धवान् ॥ ९३ ॥ अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, मामाहातुमिहाययौ ॥ ९४ ॥ तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः॥रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुमुत्सहते? मुहुः ॥ ९५.॥ विचिन्तयन्निति श्रीमान्, वज्रखामी गुणोदधिः ॥ श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः॥९६ ॥ नाऽऽगन्ताऽसौ गतः सथः, खल्पमायुर्ममाऽपि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ ९७ ॥ ज्ञात्वेत्सनुमतो गन्तुं, श्रीवप्रेणार्यरक्षितः ॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥९८ ॥ श्रुत्वा तमागत रुद्र-सोमासोमो नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः ॥ ९९ ॥ तेषां हिताय सोप्युबै-विदधे धर्मदेशनाम् ॥ ताश्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ॥ १००॥ ततो भ्रातृव्यदौहित्र-सुषापुत्रादिभिः समम् ॥ रुद्रसोमाउददे दीक्षा, सम्यक्त्वं पार्थिवः पुनः ॥ १.१॥ कथं पुत्रीस्नुषादीनां, पुरो नम इवाऽन्यहम् ॥ तिष्ठामीति हिया सोम-देवो न प्रावजत्पुनः ॥ १०२ ॥ किन्तु खजनपुत्रादि-स्नेहपाशनियत्रितः ॥ शश्वत्तत्पार्थ एवास्था-न त्वन्यत्र जगाम सः॥ १०३ ॥ तश्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥१०४॥ यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः ॥ चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ॥ १०५ ॥ यथाकथञ्चिद्धखोऽयं, तार्य एवेति चिन्तयन् ॥ सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ॥ १०६ ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ पाहणीयो मयो तातो. ध्यात्वेति स्माह तं गुरुः ॥ १०७॥ सर्वेऽमी मुनयश्चोल-पढें परिदधत्यमी ॥ स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ॥ १०८ ॥ छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! ॥ निशम्येति वचः सूरेः, सोमदेवमुनिर्जगौ ॥ १०९ ॥ गन्तुं शक्नोम्यहं नैव, पुत्र! छत्रं विनाऽऽतपे ॥ विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करके विना ? ॥ ११० ॥ त्यजामि यज्ञसूत्रं च, विप्रत्यावेदकं कथम् ॥ पीडा च स्यात्कण्टकैर्मे, विनोपानहमध्वनि ॥१११॥ सूरिःस्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् ॥ भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः॥११२॥ ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः ॥ बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ॥ ११३ ॥ ततस्तच्छिक्षिता बालाः, सोमदेवतपखिनम् ॥ हित्वा क्षलकपर्यन्तान.सर्वसाधन ववन्दिरे ॥ ११४॥ दर्शदर्श सोम ते चैवं प्रोचिरे मिथः ॥ नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ॥ ११५ ॥ तच्छुत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति ॥ अरे ! मत्पुत्रपौत्रादीन् , वन्दध्वे बालकानपि ॥ ११६ ॥ मां तु वृद्धं गुरोस्तात-मपि नो नमथाऽर्भकाः! ॥ तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ॥ ११७ ॥ बालाःप्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु !॥ ११८ ॥ सोमोऽथ व्यमृशच्छायाः, अप्येवं शिक्षयन्ति माम् ॥ साध्याचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ॥ ११९ ॥ विचिन्त्येति जिनान्नत्वा-ऽऽगतान्सूरीनुवाच सः ॥ उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ १२०॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ॥ प्रबले त्वातपे धार्यः, कल्पको मस्तकोपरि ॥ १२१ ।। गुरौ गतेऽन्यदा कापि, बालास्तच्छिक्षिताः पुनः ॥ तं विहायापरान्नेमु- स्तत्पृष्टाश्चैवमूचिरे ॥१२२॥ कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् ॥ यत्कदापि यतेः पार्थे, नाऽपश्याम कमण्डलुम् ॥ १२३ ॥ तच्छुत्वा सूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ ॥ पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ १२४ ॥ पुनस्तथैव तं बाला, नाऽनमन् सूरिशिक्षिताः॥ अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः ॥ १२५ ॥ यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम् ॥ ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ॥१२६ ॥ तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः ॥ एतन्मुञ्चत कोपस्मान्, विप्रानो वेत्त्यदो विना ? ॥ १२७ ॥ इत्यं छत्रादिके तेन, त्यक्ते बालाः पुनर्जगुः ॥ न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ॥ १२८ ॥ सोमदेवस्तदाफर्ण्य, जजल्पाऽनल्पकोपभाक् ॥रे ! मा नमत मां यूयं, समं पितृपितामहैः ॥ १२९ ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिम भविष्यति !॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि ! भवद्राि ॥१३०॥ तदाकये ययुर्वालाः, अन्यदा च महामुनिः॥ विहिताऽनशनः कोऽपि.तत्र गच्छे व्यपद्यत ॥१३॥ तक पितुः कटीपट्ट-त्याजनाय जगौ गुरुः॥ अस्य देह वहति य-स्तस्य लाभो भवेन्महान्॥१३२॥ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः परे। उदतिष्ठस्तमुद्दोढुं, तदा चेत्यऽब्रवीद्गुरुः ॥ १३३॥ यूयं यदुत्थिताः सर्वे-ऽप्यमुं लाभं जिघृक्षवः ॥ तदस्मद्वन्धुवर्गोऽयं, निर्जरां लप्स्यते कथम् ?॥१३४ ॥ तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र!, निजरा भूयसीतरा ? ॥ १३५ ॥ उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् ॥ सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहपिभिः ॥ १३६ ॥ गुरुर्जगी बालकृतः, उपसर्गोऽत्र जायते ॥ तं चेत्सहितुमीशिध्वे, वहनीयस्तदा अयम् ॥ १३७ ॥