________________
॥२४॥
उचराप्ययनसूत्रम् अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोचैः, प्रसादः क्रियतां मयि ! ॥५१॥ तच्छुत्वा सूरयोऽप्यूचुयद्येवं तत्परिव्रज ॥ क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ ५२ ॥ सोमजन्माप्युवाचैवं, प्रव्राजयत मां द्रुतम् ॥ किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवः ॥ ५३ ॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ ५४ ॥ तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो प्रजन् ॥ अभूदाद्यमिदं शिष्यचौर्य ! श्रीवीरशासने ॥५५॥ ततः प्रव्राजयनार्य-रक्षितं मुनिपुङ्गवाः ॥ क्रमाञ्चैकादशाङ्गानि, गुरुपार्थे पपाठ सः ॥ ५६ ॥ यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ॥ तायन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः॥ ५७॥ श्रीवअखामिनो भूयान् , दृष्टिवादोऽस्ति सम्प्रति ॥ श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति पुरीपुरीम् ॥५८॥ मार्गायातामथावंती-मासदत् सोमदेवभूः ॥ तत्र श्रीभद्रगुप्ताह- सूरिशक्राननाम च ॥५९॥ ते सूरयोऽपि तं सर्व-गुणाढ्यं श्रुतपूर्विणः ॥ उपलक्ष्यालिलिङ्गुर्द्राक्, प्रमोदाचैवमूचिरे॥६०॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च ॥ यत्त्यक्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया !॥६१॥ किञ्चाधानशनं कर्तु-मिच्छामि खल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स !, भव निर्यामको मम ॥ ६२॥ ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः॥ ते सूरयोप्यनशनं, विधायेति तमूचिरे ॥६३॥ एकत्रोपाश्रये वज्र-खामिना सह मा बसेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ ६४ ॥ वसेदूजेण सार्द्ध हि, यः सोपक्रमजीवितः ॥ एकामपि निशां नून, तेन साकं म्रियेत सः ॥६५॥ तद्वचः प्रतिपद्याथ, तान्निाम्य च सोमभूः ॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ।। ६६ ॥ तस्याः क्षपायाः प्रान्ते च, वज्रोऽमुं खप्नमैक्षत ॥ मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ॥६७॥ प्रातस्तं खप्नमाचख्यौ, साधूनां साधुसिन्धुरः ॥ तेषामजानतां सम्यक्, तदर्थश्चैवमब्रवीत् ॥६८॥ आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् ॥ अस्मत्पार्थात्सुधीः सर्व, किञ्चिदूनं ग्रहीष्यति ॥ ६९॥ अथार्यरक्षितःप्रात-र्वज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति ? तं, वज्रखाम्यपि पृष्टवान् ! ॥ ७० ॥ सोऽवक् तोसलिपुत्राह्व-सूरिपार्थादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति वोऽपि तं जगौ ॥७१॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ॥ खागतं तव किन्तु त्वं, स्थितोऽसि क प्रतिश्रये ? ॥७२॥ सोऽवग् बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् ॥ बहिः स्थितं कथंकारं, त्वं पठिष्यसि ? सन्मते ! ॥७३॥ सोऽवादीत् भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात्॥खामिन्नहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥७४ ॥ दत्तोपयोगं वज्रोऽपि, तन्निमित्तं विभाव्य च ॥प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यानसागरैः ॥७५॥ अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः॥श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ॥७६॥ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम्॥दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक्॥७७॥पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् ॥ ततः पठितुमारेभे, विषमाण्यपि तानि सः॥७८॥
१ दशमं पूर्वमध्येतुं, यैरधीत : प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ॥ ग्रन्थान्तरे 'यविकानि" इति यमकस्थाने दृश्यते-इति गसंज्ञकपुस्तके ।
इतश्च पितरावार्य-रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनैः ॥ ७९ ॥ आगच्छ कुलभानो ! त्वं, वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ॥ ८० ॥ इति सन्देशवचन- र्यावदागान सोमभूः ॥ तावत्ताभ्यां तमाह्वानु, प्रेषितः फल्गुरक्षितः ॥ ८१ ॥ सोऽप्यागत्य प्रणम्यार्य-रक्षितर्षिमदोऽवदत् ॥ किमेवं खकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽदृतम् ? ॥ ८२ ॥ वैराग्याद्वा न ते रागो, यद्यपि खेषु विद्यते ॥ तथापि शोकममांस्तान् , कारुण्येन समुद्धर ॥ ८३ ॥ किश्चादातुं परिव्रज्या-मुत्सुकाः सन्ति बन्धवः ॥ तत्रागस ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ॥ ८४ ॥ अथेति व्याजहारार्य-रक्षितः फल्गुरक्षितम् ॥ यदि सूनृतमेतत्स्यात् , तदा त्वं खीकुरु व्रतम् ॥ ८५ ॥ इति तेनोदितः प्राज्ञः, सोऽवदद्देहि मे व्रतम् ॥ ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः॥८६॥ गन्तुं स्माह पुनः फल्गु- रक्षितोऽप्यार्यरक्षितम् ॥ गमनायोत्सुकः सोऽपि, श्रीवजं पृष्टवांस्ततः ॥ ८७ ॥ वज्रखामी ततोऽवादी-द्वत्स ! त्वं पठ मा ब्रज ॥ निर्विण्णः सोऽथ यमकै-रित्यपृच्छत्पुनर्गुरून् ॥ ८८॥ कियन्मात्रं मयाऽधीतं, कियच्छेषं च वर्त्तते ॥ खामिन् ! दशमपूर्वस्ये-त्याख्याहि मम साम्प्रतम् ॥ ८९ ॥ ततः स्मित्वाऽवदत्सरिः, पूर्वस्य दशमस्य हि ॥ बिन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ॥ ९० ॥ अथार्यरक्षितः स्माह, श्रान्तोऽस्मि ! पठनादहम् ॥ पारं प्राप्तुं तदेतस्य, न शक्ष्याम्यम्बुधेरिव ॥ ९१ ॥ गुरुर्जगाद वत्स! त्वं, सोद्यमोऽसि सुधीरसि ॥ तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि ? ॥ ९२ ॥ इत्थमुत्साहितोऽध्येतुं, प्रवृत्तोऽपि पुनः पुनः ॥ गन्तुं पप्रच्छ