________________
उत्तराप्ययनसूत्रम्
॥२३॥ सर्वेण, पूर्जनेन नृपेण च ॥ जगाम खगृहं वाह्य-शालामध्यवसच सः॥ ७॥ पुरलोकेन राज्ञा चा-ऽय॑मानं तं धनादिना ॥ दृष्ट्वा तद्वन्धयो हृष्ट-मानसा बह्वमानयन् ॥ ८ ॥ आवद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा ॥ रूप्यखर्णमणिधेनु-प्रभृतिप्राभृतै तम्॥९॥ अथार्यरक्षितो दध्यो, प्रमादाजननीं निजाम् ॥ यन्नाद्राक्षमहं पूर्व, तद्विनीतस्य नोचितम् ॥ १०॥ मद्वियोगादशां माता, कामप्याता भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥११॥ ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूपितः ॥ अन्तर्गहमगात्खीयां, सवित्री प्रणनाम च ॥ १२ ॥ खागतं तव हे पुत्रे-त्युदित्या मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात् , प्रेमान्तबहु विभ्रती ॥ १३॥ स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः ॥ चिरादेतं भक्तिमन्तं, माता भाषसे न किम् ? ॥ १४ ॥ अथेत्थं रुद्रसोमाख्य-त्किमेभिः खान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्रै-रधीतैर्नरकप्रदैः ॥ १५॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे ॥ पतिप्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ॥ १६ ॥ महाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ खर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ ॥ १७ ॥ अथार्यरक्षितो दध्या- वपि लोकप्रमोदिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ १८ ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क पठ्यते ? ॥ साऽप्यवादीदृष्टिवादो-ऽधीयते साधुसन्निधौ ॥ १९ ॥ दर्शनानां विचारो यो, दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ॥ २० ॥ इत्यार्यरक्षितो ध्यायन् , जगाद जननीमिति ॥ अध्येष्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ॥ २१ ॥ [ युग्मम् ] सङ्गस्यन्ते क्क पुनर्मे, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं, स्माह हर्षोल्लसत्तनुः॥ २२ ॥ त्वया विनीतपुत्रेण, सुपुप्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता ॥ २३ ॥ तद्गच्छ वत्स ! त्वरित-मिक्षुवाटमितो मम ॥ सूरीस्तोसलिपुत्राख्यान् , स्थितांस्तत्र समाश्रय ॥२४॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते!॥सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ॥ २५ ॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽखपीत् ॥ आपृच्छ्याम्बां निशाशेष, तमध्येतुं चचाल सः॥ २६ ॥
इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः ॥ स चार्यरक्षितं श्रुत्वा-ऽऽयातं धाम्नीत्यचिन्तयत् ॥ २७ ॥ प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे ॥ पश्यामि तं तदद्यापि, मन्मनोम्भोजभास्करम् ॥ २८ ॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीनवोत्तमाः ॥ तत्खण्डं चैकमादायो- त्सुकस्तत्सदनं ययौ ॥ २९ ॥ निर्गच्छन्तं गृहादार्य- रक्षितं स निरक्षत ॥ किन्तूपालक्षयत् स्पष्ट-प्रकाशाभावतो न तम् ॥ ३० ॥ कोऽसि त्वमिति भूदेवः, सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाह-मस्मीति माह सोऽपि तम् ॥ ३१ ॥ अथावदविजो मित्र-पुत्र ! त्वां ह्यस्तने दिने ॥ नाद्राक्षमिति तजातं, दिनं मे वत्सरोपमम् ॥ ३२ ॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिंग्य द्विजो जगौ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ॥ ३३ ॥ सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् ॥ अहं तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ॥ ३४ ॥ मन्मातुश्चेति कथये- यद्गच्छन्नार्यरक्षितः ॥ मामेव पूर्वमद्राक्षी- कलितं ललितेक्षुभिः ॥ ३५ ॥ तेनेत्युक्तस्तदम्बायै, तत्सर्व स द्विजोऽवदत् ॥ तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ ३६ ॥ यत्सूनोः प्रस्थितस्याभू-निमित्तमिदमुत्तमम् ॥ तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ॥ ३७ ॥ दध्यौ विशुद्धधीरार्य
जन ॥ लप्स्येऽहं दृष्टिवादस्य. विभागानव साधिकान् ॥ ३८ ॥ अथेक्षसदनं प्राप्तः, सोमसूरित्यचिन्तयत् ॥ अज्ञातवन्दनविधि- मध्ये गच्छाम्यहं कथम् ? ॥ ३९ ॥ तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् ॥ साधूनां वन्दनाचारं, यथा तेभ्योऽवधारये ॥४०॥ विमृश्येति क्षणं याव-वार्यस्थादार्यरक्षितः ॥ तत्रागाद् ढहरश्राद्ध-स्तावद्वन्दनहेतवे॥४१॥ सोऽविशद्वसतिं बाढ-खरं नैषेधिकीं वदन् ॥ गर्जनिवेर्यापथिकी, प्रतिचक्राम चक्रमात् ॥ ४२ ॥ अभिवन्ध ततः सूरीन् , मुनींश्च विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत् , क्षितिं च प्रत्युपेक्ष्य सः ॥ ४३ ॥ अथार्यरक्षितस्तस्मा-दवधार्याखिलं विधिम् ॥ प्रविश्योपाश्रये सूरीन्, मुनींश्च विधिनाऽनमत् ॥ ४४ ॥ किन्त्वसौ
विशद्यतः ॥ नव्यश्राद्धोऽयमिति तं. गरवो विविदस्ततः॥४५॥ पप्रच्छुश्च तमाचार्या, धर्मासिस्ते कुतोऽभवत् ? ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे ॥ ४६ ॥ तं वीक्ष्य मुनयोऽप्युच्चै-गुरून् व्यज्ञपयनिति ॥ आर्यरक्षितभट्ठोऽयं-रुद्रसोमात्मजः प्रभो !॥४७॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥४८॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदस्मिन् श्रावकाचारं, प्रेक्ष्य चित्रीयते मनः । ॥ ४९ ॥ अथार्यरक्षितः सर्व, खवृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पनकोशीकृताअलिः ॥५०॥