________________
॥२२॥
उत्तराप्ययनसूत्रम् खात्र सम्बन्धात् , संग्रामशिरसि रणमस्तके शूरः पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः- यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रु जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ॥ १० ॥ कथं पुनर्भावरिपुं जयेदित्याहमूलम्–ण संतसे ण वारिजा, मणंपि ण पओसए॥उवेह ण हणे पाणे, भुंजते मंससोणिअं॥ ११ ॥
व्याख्या-न संत्रसेन्नोद्विजेइंशादिभ्य इति शेषः, न वारयेन्न निषेधयेइंशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेन्न प्रदुष्टं कुर्यात् , किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत्, अत एव न हन्यात् प्राणिनो जीवान् भुआनान् भक्षयतो मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहुसाधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ ११ ॥ उदाहरणश्चात्र, तथाहि__ अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् ॥ तस्यां सान्वर्थनामासी-जितशत्रुर्महीपतिः ॥ १॥ तस्य श्रमणभद्राह्वः, सूनुः सात्विकपुङ्गवः ॥ युवराजोऽजनि जग-जनाहादनचन्द्रमाः ॥२॥ धर्मघोषगुरोः पार्थे, धर्म श्रुत्वा जिनोदितम् ॥ विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्रतम् ॥ ३॥ श्रुताम्भोनिधिपारीणः, स प्रसादाद्गुरोरभूत् ॥ एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥ ४ ॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ॥ ५॥ सूचीसमानवदना-स्तत्र दंशा सहस्रशः॥ विलग्य कोमले तस्य, शरीरे शोणितं पपुः ॥ ६॥ निरन्तरं विलमैस्तै-दशैर्दशनतत्परैः॥ स मुनिः वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥ ७॥ दशत्सु तेषु तस्योचै-वेदनाऽऽसीत्तथापि सः ॥ तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥८॥ अचिन्तयञ्च दंशोत्था, व्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥ ९॥ यतः- “परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्रजास्तथा ॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ! ॥ १० ॥" किञ्च-अन्यद्वपुरिदं जीवाजीवश्चान्यः शरीरतः ॥ जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥ ११॥ किश्चानेन शरीरेण, स्वल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्रासं? तदा मया ॥ १२॥भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम्॥ रामायेव जहौ प्राणान् , दंशैः शोषितशोणितः ॥ १३ ॥ इति विषय स दंशपरीपह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् ॥ तदपरैरपि साधुवरैरयं, जिनयचोनिपुणैः परिषयताम् ॥ १४ ॥ इति दंशमशकपरीषहे श्रमणभद्रश्रमणकथा ॥ ५॥
अथ दंशाधैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाहमूलम्-परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए॥अदुवा सचेलए होक्खं, इइ भिक्खूण चिंतए॥१२॥
व्याख्या-परिसमन्तात् जीर्णैर्दुलैर्वस्त्रैः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चेलहीनोऽल्पदिनमावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य भिन्नक्रमस्येह सम्बन्धात् इत्येतद्भिक्षुर्न चिन्तयेदिति योगः, 'अदुवत्ति' अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, अयं भावः- न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः ॥ १२ ॥ यतःमूलम्-एगया अचेलओ होइ, सचेलेआवि एगया॥ एअंधम्महिअंणच्चा, णाणी णो परिदेवए ॥१३॥
व्याख्या-एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मोपकारकं ज्ञात्वाऽवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमम्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत् , अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानी शरणमिति न दैन्यमालम्बेतेति सूत्रार्थः ॥ १३ ॥ उदाहरणम् सम्प्रदायश्चायमत्र, तथाहि___ अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवद्रुद्र--सोमाहा परमाईती ॥ १ ॥ तयोरभूतां द्वौ पुत्री, गुणरत्नमहोदधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ॥२॥ तत्राऽधीत्य पितुः पार्थे, तद्विद्यामार्यरक्षितः ॥ जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ॥३॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ ४ ॥ तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ॥ अभिगम्य गजस्कन्धे-ऽध्यारोप्यावीविशत्पुरे ॥ ५॥ कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ॥ ६ ॥ सम्पूज्यमानः