________________
उत्तराप्ययनसूत्रम्
॥ २१॥ खं, करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोदासी, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहूतः सोऽपि तस्याः, मनसीच गृहेऽविशत् ॥ सापि हर्षभरोदश्च-त्कुचकुम्भा तमभ्यगात् ॥ १७ ॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा ॥ समग्रसुभगोत्तंस!, किं याचति भवानिति ॥ १८ ॥ अधारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे । त्स्मेर-स्मरापस्मारविह्वला ॥ १९ ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ खादुभोज्यं हि सर्वेषां, वशीकरणमुचमम् ॥ २० ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ॥ २१ ॥ पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः ॥ युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ॥ २२ ॥ मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३॥ यद्येवं तन्मया सार्द्ध, मुख वैषयिकं सुखम् ॥ पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ॥ २४ ॥ कुरूपदुःस्थस्थविर- कर्कशाङ्गजनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा खं वञ्चयख मा ॥ २५ ॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः ॥ सर्वमेतत्त.वायत्तं, यदि त्वं खीकरोषि माम् ॥ २६ ॥ लावण्याब्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः ॥ भुक्तभोगस्तदा भूयो, वार्द्धके तां समाचरेः ॥ २८ ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः ॥ भमचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ॥२९॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः ! ॥ किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥ ३०॥" ततः खीकृत्य तद्वाच-मवतस्थे स तदहे॥ तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥३१॥ अथ गोचरचर्यायां. वसतौ चाऽरहन्नकम् ॥ अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि क्वापि, नालभन्त तथापि ते ॥ ततस्तन्मातुरार्याया-स्तं तदृत्तान्तमूचिरे ॥ ३३ ॥ वार्ता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणष्टचित्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य- वृत्ता चेटकपेटकैः ॥ ३५ ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः ॥ तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६ ॥ उष्टोऽरहन्नकः क्वापि, पुत्रो मे प्राणवल्लभः ? ॥ यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः ॥ ३७ ॥ कृतानुकम्पा सुजनै-हस्यमाना च दुर्जनैः ॥ दृष्टाऽरहन्नकेनोचै- र्गवाक्षस्थेन साऽन्यदा ॥ ३८॥ [त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् ॥ स समुत्पन्ननिर्वेदः, वहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्वमहो ! दुष्कर्मकारिता ॥ यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥ ४०॥ दुस्सहे व्यसने माता, पातितेयमपीदृशे ॥ खात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा ! ॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् ॥ ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ॥ ४२ ॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः ॥ नमतीति ब्रुवन् बाष्प-प्लुताक्षस्तां ननाम च॥४३॥ तं वीक्ष्य खस्थचित्ता सा, सप्रमोदेवमब्रवीत् ॥ एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ॥ ४४ ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ॥ तं श्रुत्वा साऽवदद्वत्स !, भूयः खीकुरु संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन् ! ॥अनन्तदुःखदा मा स्म-स्वीकार्नरकव्यथाः॥४६॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! ॥ ततो वदसि चेन्मातः !, करोम्यनशनं तदा ॥ ४७ ॥ तुष्टा भद्राऽभ्यधाद्र !, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभअनम् ॥ ४८ ॥ यदाहुः-“वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं ॥ मा गहिअधयभंगो, मा जी खलिअसीलस्स ॥ ४९ ॥” ततः स योगं सावर्ष, प्रत्याख्याय महाशयः ॥ क्षमयित्वाऽखिलान् जन्तू-निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणान्यादायाऽनशनं तथा ॥ गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ ५१ ॥ [ युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ॥ तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः॥ व्यलीयत मुहूर्तेन, तत्र म्रक्षणपिण्डवत् ॥ ५३॥ [युग्मम् ] इत्थमुष्णमधिसस स पश्चा-इत्तनन्दनमुनिखिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमः ॥५४॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥४॥
__ अप ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाहमूलम्-पुट्ठो अ दंसमसएहिं, समरेव महामुणी॥णागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥
न्याख्या-स्पृष्टोऽभिद्रुतः, चः पूर्ती, दंशमशकैरुपलक्षणत्वाचूकामत्कुणादिमिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस रेफः, महामुनिः ‘णागो सझामसीसे वत्ति' नाग इव करीव, वाशब्दस्सेवार्थ