________________
॥२०॥
उत्तराप्ययनसूत्रम् तृतीय एव प्रहरे, कार्य कार्य समाहितैः ॥ ४ ॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं प्रहरसप्तकम् ॥ ५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले ॥ परेचवि पुरं राज-गृहं पुनरुपाययुः ॥ ६ ॥ तदा च तुहिनव्यूहैः, पीडयन् जगतीजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून् कुर्वन् महीरुहान् ॥ ७ ॥ तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवनिशि ॥ निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ ८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् ॥ कृशानुसेविनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् ॥ हेमन्त ः प्रववृते, विश्वं हेममयं सृजन् ॥ १० ॥ [ चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे ॥ आहारार्थ समाजग्मुः, प्रहरेऽहस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथक् पृथग् न्यवर्त्तन्त, पुरमध्यान्महर्षयः ॥ १२ ॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ ॥ द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३ ॥ तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोभवत् ॥ कायोत्सर्ग ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ १४ ॥ [ युग्मम् ] तेष्वद्रिकंदराद्वार-संस्थितस्य तपखिनः ॥ उच्चैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ॥१५॥ पतत्तुहिनसम्पर्क-शीतलैः शैलमारुतैः ॥ कायश्चकम्पे तस्योचै-न किञ्चिदपि मानसम् !॥ १६ ॥ स शीतवेदनां सम्यक्, सहमानो महामुनिः॥ यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत् ॥ ततो रजन्याः प्रहेर, द्वितीये स व्यपद्यत ॥ १८ ॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ॥ शीतमल्पं ततो यामे, स विपन्नस्तृतीयके ॥ १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा ॥ ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ॥२०॥ चत्वारोऽपि प्राज्यधैर्या मुनींद्राः, स्वर्ग प्रापुस्ते विपोति शीतम् ॥ इत्थं सर्वैः साधुभिस्त्यक्तकामै-स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ॥ २१ ॥ इति शीतपरीषहे साधुचतुष्ककथा ॥३॥
इदानीं शीतविपक्षमष्णमिति, यद्वा शीतकाले शीतं तदन ग्रीष्मे उष्णमिति तत्परीषहमाहमूलम्-उसिणप्परिआवेणं, परिदाहेण तजिए ॥ प्रिंसु वा परिआवेणं, सायं णो परिदेवए ॥८॥
व्याख्या-उष्णं उष्णस्पर्शयुक्त भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः खेदमलाभ्यां वहिना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'चिंसुवत्ति' ग्रीष्मे, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम् , सातं सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझंझानिलादयः सुखहेतवो मम संपत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ॥८॥ मूलम्-उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए ॥ गायं णो परिसिंचेजा,ण वीएज्जा य अप्पयं ॥९॥
व्याख्या-उष्णाभितप्तो मेधावी मर्यादावर्ती लानं जलाभिषेकं ‘णोवि पत्थएत्ति' अपेभिन्नक्रमत्वात् नो नैव प्रार्थयेदपि, अभिलषेदपि, कथं पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चेत् न सूक्ष्माम्बुबिन्दुभिरार्दीकुर्यात् , न वीजयेच्च तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, किम्पुनर्बहुरिति सूत्रार्थः ॥९॥ उदाहरणश्चात्र, तथाहि__ अभूलक्ष्मीकुलागारं, नगरी तगराभिधा॥ दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ॥१॥ स भद्राभार्यग साकं, मुजानः सुखमुत्तमम् ॥ अरहन्नकनामानं, पुत्ररत्नमजीजनत्॥२॥ धर्ममार्हतमाका -ऽर्हन्मित्राचार्यसन्निधौ ॥ विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ॥३॥ दत्तोऽरहन्नकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ,प्रेषयामास तं न तु ॥ ४ ॥ उत्तमर्ण इवानेन, किगयं पोष्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥५॥ ध्यायन्तोऽपीति निग्रंथा, वक्तुं किमपि नाशकन् ॥ पुत्रं वा पालयन् वप्ता, निषेधुं केन शक्यते ? ॥ ६ ॥ [युग्मम् ] निदाघसमयेऽन्येधु-दत्तः साधुळपद्यत ॥ तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७॥ ततोऽन्ये संयतास्तात-विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ॥ ८॥ अथ तं यतयोऽयोचन् , मिक्षार्थं पर्यट खयम् ॥ नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९॥ दग्धोपरिष्ठात् पिटको- पमां वाचं निशम्य ताम् ॥ चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११॥ ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः ॥ अदह्यत पदो ढं, मौलौ च तपनांशुभिः ॥ १२ ॥ पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां, विश्रमाय स शिश्रिये ॥ १३ ॥ सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी॥धनाढ्यवणिजोभार्या-ऽपश्यत्प्रोषितभर्तृका ॥१४॥ अचिंतयच सा रूप- महो ! अस्य मनोहरम् ॥ यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥ १५ ॥ तदमुं रमयित्वा