________________
॥ १९ ॥
उतराध्ययनसूत्रम् काहि, स्वच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या - पसरामि शनैः शनैः ॥ १२ ॥ ध्यात्वेति स पुरोऽचालीत्, लोsथ प्राप निम्नगाम् ॥ तृषार्त्तोऽपि न तत्तोय-मपिवच्च दृढव्रतः ॥ १३ ॥ अन्ये त्वाद्दुरुदन्यानि, बाधितः म शिशुर्भृशम् ॥ शुष्यत्तालुमुखोरस्क - श्वेतसीति व्यचिन्तयत् ॥ १४ ॥ पिवाम्यऽनादेयमपि, नाऽऽदेयं वारि साम्प्रतम् ॥ प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ १५ ॥ विमृश्येति समुत्पाट्य, पातुमअलिना जलम् ॥ निन्ये यावन्मुखस्वाग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिबामीमान् कथं जीवा - नहं विज्ञातजैनगीः ॥ उदबिन्दौ यदेकत्राऽसङ्खधजन्तून् जिना जगुः ॥ १७ ॥ त्रसाः पूतर मत्स्याद्याः, स्थावराः पनकादयः ॥ नीरे स्युरिति तदुद्घाती, सर्वेषां हिंसको भवेत् ॥ १८ ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणान्निइन्ति कः १ ॥ १९ ॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैर्नद्यां स मुमोचाअलेर्जलम् ॥२०॥ बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनीं ततः ॥ तत्तीर एव सोऽपत - तृष्णया गन्तुमक्षमः ॥ २१ ॥ धर्मस्थैर्य दधचित्ते, पिपासाविवशोऽपि सः ॥ स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य खाङ्गे प्रविश्य च ॥ २३ ॥ अन्वगाद्धनमित्रषि, ततश्चलयितुं सुरः ॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४ ॥ [ युग्मम् ] अथोदन्या व्यथार्त्तानां मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि- गोकुलान्यध्वनि व्यधात् ॥ २५ ॥ तेम्योऽधिगत्य तत्रादि, साधवः स्वास्थ्यमासदन् ॥ सुधाकुण्डे - भ्य आसाद्य, पीयूषमिव निर्जराः ॥ २६ ॥ विहरन्तः सुखेनैवं, तत्कृते ब्रजिका त्रजे ॥ उल्लंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ तत्र व्यस्मरयत्सुरः ॥ २८ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकां तत्रा - ऽपश्यत्खां न तु गोकुलम् ॥ २९ ॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः ॥ अवदद्विष्टिकालाभं, गोकुलादर्शनं च सः ॥ ३० ॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत्, ससुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान्, मुनीनऽन्यान्ननाम च ॥ ३२ ॥ एनं कुतो न नमसी - त्युक्तः स प्रतिभिस्ततः ॥ स्वीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३ ॥ सजीवाम्भोऽपि पातुं य - सदासौ मे मतिं ददौ, तत्पूर्वभववसापि, साधु रेषन वन्द्यते ॥ ३४ ॥ स्नेहादपि रिपोरेव, कार्य विहितवानसौ ॥ यहुर्गतिनिमित्तं मे, तदा तदुपदिष्टबान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्बु, तदेतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा- दभ्रमिष्यं तदा भवे ॥ ३६ ॥ स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ॥ ३७ ॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥ साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ॥ ३८ ॥ क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः ॥ एवं समत्रैरपि संयतैः सा, सथा महानन्दपदानुरक्तैः ॥ ३९ ॥ इति तृपरीषहे धनशर्ममुनि कथा ॥ २ ॥ उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह -
मूलम् — चरंतं विरयं लूहं, सीअं फुसइ एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ ६ ॥
व्याख्या - चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा व्रजन्तं विरतं सावद्ययोगान्निवृत्तं 'लहंति' तैलाभ्यंगस्नानस्निग्धाहारादिपरिहारेण रूक्षं, मुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह - न नैव अतिवेलं वेलां खाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसर्पेत् श्रुत्वा 'मिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम्' इतिसूत्रार्थः ॥ ६ ॥ किञ्च -
मूलम् - ण मे णिवारणं अत्थि, छवित्ताणं ण विज्जइ ॥ अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंतए ॥ ७॥
व्याख्या - न मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्निं सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ दृष्टान्तश्चात्र । तथाहि
पूरे राजगृहेऽभूवं- श्धत्वारश्चतुरोत्तमाः ॥ सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः ॥ १ ॥ भद्रबाहुखामि - पार्श्वे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सञ्जात- संवेगाः प्राब्रजन् मुदा ॥ २ ॥ गुरुश्रुश्रूषणात्पार- दृश्वामस्ते श्रुतोदधेः ॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ ३ ॥ कल्पश्वायमभूत्तेषां यद्विहाराशनादिकम् ॥