________________
॥१८॥
उत्सराप्ययनसूत्रम् ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् !॥१८॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः ॥ स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥ १९ ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् ॥ प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ॥ २०॥ अद्राक्षीच्च वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खांङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१ ॥ भिक्षायै वत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् ॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् ॥ तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोचैः, प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् ॥ कृताहारञ्च तं स्नेहा-द्वार्तयामास सर्वदा ॥२५॥ देशे भोजकटस्थाथ, जज्ञे दुर्भिक्षमुल्वणम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति माल वम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ॥ २७ ॥ अटव्यांचाययुस्तस्यां,क्षल्लकं ददृशुश्च तम् ॥ क तिष्ठसि ? कथं मुझे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके ॥ वृक्षनिर्गतहस्ताच, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्कमद्राक्षुस्तकलेवरम् ॥ ३०॥ ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥३१॥ अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ॥ ३२ ॥ अन्ये त्याहुः सुतेनापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्रोक्तं फलादिकम् ॥३३॥ हस्तिभतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ ३४ ॥ परीपहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सधस्तथाऽसौ मनसाप्यदीनैः ॥ ३५ ॥ इति क्षुधापरीषहे हस्तिमित्रकथा ॥३॥ __उक्तः क्षुत्परीषहः, क्षुधार्तस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाहमूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए ॥ सीओदगं ण सेविजा, विअडस्सेसणं चरे॥४॥
व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लज्जायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत नपानादिना भजेत् , किन्तु 'वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ॥४॥ तथामूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥५॥
व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽनादें मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुलंघयेत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ॥ ५॥ कथासम्प्रदायश्चात्र । तथाहि
अभूदुजयिनीपुर्य्या, धनमित्राभिधो वणिक् ॥ धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥१॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान् धनः ॥ पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥२॥ खस्मिन् परे च सहितौ, सहितौ तौ व्रतिवजैः॥प्रस्थितावेलगपुरा-ऽध्वनि मध्यंदिनेऽन्यदा ॥ ३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः ॥ पिपासापीडितो बालः, स चचाल शनैः शनैः ॥ ४ ॥ मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः ॥ पश्चाञ्चचाल सूनोस्तत्-प्रेमपाशनियत्रितः॥ ५॥ मार्गे तत्राययौ रंग-त्तरंगाथ तरङ्गिणी ॥ ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाव ॥६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ॥ मदभ्यर्णे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ॥७॥ तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् ॥ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ८॥ यदुक्तं'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽति पिच्छिले, क्वचिदुधैरप्यपथेन गम्यते ॥९॥" मृत्युदामापदमिमां, तदुलंघ्य कथंचन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥ १० ॥ त्युिदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११ ॥ हीमान् कुर्वन्न