________________
उत्तराप्ययनसूत्रम्
॥१७॥ स्त्री रामा, सैव तद्गतरागहतुगतिविलामहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलाषविनिवर्त्तनेन परिषसमाणत्वात् परीषहः (८) चर्या विहारामिका (९) नैषेधिकी खाध्यायभूः (१०) शय्या उपाश्रयः (११) आक्रोशोऽसभ्यभाषणरूपः (१२) वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना (१४) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः (१६ ) तृणस्पर्शो दर्भादिस्पर्शः ( १७ ) जलो मलः (१८) सत्कारो वस्त्रादिभिः पूजनम् , पुरस्कारोऽभ्युत्थानादिसम्पादनम् , तावेव परीषहः (१९) प्रज्ञा खयं विमर्शपूर्वको वस्तुपरिच्छेदः (२०) ज्ञानं मत्यादि, तदभावथाज्ञानम् ( २१ ) दर्शनं सम्यग्दर्शनम् , तदेव विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलतया धार्यमाणं परीषहो दर्शनपरीषहः (२२) इत्थं नामतः परीषहानुक्त्वा खरूपतो विवक्षुस्तानाहमूलम्-परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुद्धिं सुणेह मे ॥१॥ __ व्याख्या-परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्वरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं भत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः! ययमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः॥१॥ इह च "छहासमा वेअणा नत्थि" इति परीषहाणां मध्ये क्षुत्परीषह एव दुस्सह इत्यादितस्तमाहमूलम्-दिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं ॥ ण छिंदे ण छिंदावए, ण पए ण पयावए ॥२॥ ___ व्याख्या-दिगिंछापरिगते क्षुधाव्यासे देहे शरीरे सति तपखी पष्ठाप्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न छिन्द्यात् खयं, न छेदयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत, एवं न खयं क्रीणीयानापि कापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकुक्षिरपि नवकोटिशुद्धगेवाहारं स्वीकुर्यादिति सूत्रार्थः ॥ २॥ किञ्चमूलम्-कालीपवंगसंकासे, किसे धमणिसंतए ॥ मायण्णे असणपाणस्स, अदीणमणसो चरे ॥३॥
व्याख्या-काली काकजंघा, तस्याः पर्वाणि कालीपाणि, तत्संकाशानि तत्सदृशानि तपःशोषितमांसशोणिततयाऽङ्गानि बाहुजंघादीनि यस्य स कालीपर्वसंकाशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्ये. त्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधनवकोटीशद्धमप्याहारं प्राप्य न लौल्या तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥३॥ उदाहरणञ्चात्र, तथाहि
अस्त्यत्र भरते खर्ग-जयिन्युजयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्भरिभूतिमान् ॥१॥ सौभाग्यसेवधिदक्षा-वधिस्तस्य च वलभा । अकाण्ड एवानियत, खप्राणेभ्योऽपि वलभा ॥२॥ संसारासारतां ध्यायं-स्ततो वैराग्यवानसौ ॥ प्राब्राजीत् हस्तिभूत्याह-पुत्रयुक् साधुसन्निधौ ॥ ३ ॥ अन्यदा तावुजयिन्याः, प्रस्थितौ सह साधुमिः॥प्रति भोजकटं यान्ता-वरण्यानीमवापतुः ॥४॥ हस्तिमित्रमुनेस्तत्र, गर्माभित्कण्टको महान् ॥ ममः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ ५ ॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् ॥ खसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ ६ ॥ यूयं व्रजत कान्तार-पारश्च प्रामुत द्रुतम् ॥ अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः ॥७॥ तच्छ्रुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा ॥ त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ॥ ८॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः ॥ तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥९॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकर्ण्य जगौ हस्ति-मित्रर्षिः सत्वसेवधिः ॥ १० ॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाव्य मा यूयं, मुधा बाधामवाप्स्यथ ! ॥ ११॥ किश्चात्र थापदाकीर्णे, प्रचुरोपद्रवे वने ॥ सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ॥ १२ ॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् ॥ स सधः प्रेषयामास, सह सार्थेन साग्रहम् ॥ १३ ॥ स्थातुकाममपि स्नेहा-त्सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्तिमित्रस्त्वस्थाद्गुहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् ॥ पितुः समीपं स्नेहो हि, निर्मत्राकर्षणं मतम् ॥ १५ ॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ मुनीन् विमुच्य मत्पार्थ-मविमृश्य यदागमः ॥ १६ ॥ प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् ॥ क्षुत्तृषाविवशस्तस्मा-स्वमप्यत्र विपत्स्यसे ! ॥ १७ ॥