________________
उत्तराप्ययनसूत्रम् "अथद्वितीयमध्ययनम्"
॥ अहम् ॥ व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्थावस्थैः परीषहातैश्च विधेय एथ. अथ के नामैते परीषहाः १ इति जिज्ञासायां तत्खरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परीपहाध्ययनस्येदमादिसूत्रम्
मूलम्-सुअंमे आउसं तेणं भगवया एवमस्कायं,इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ,जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआ परिवयंतो पुट्ठोण विहणेजा।
व्याख्या-श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामंत्रणं, इदश्च सुधर्मखामी जम्बूस्खामिनं प्रत्याह, तेन जगप्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमग्रैश्चर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं, किमाख्यातमित्याह, 'इह खलुत्ति' अत्र खलुशब्दम्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीपहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं कार्य, ततश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावजीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च“णाणस्स होइ भागी, थिरयरओ देसणे चरित्ते अ॥ धण्णा आवकहा जे, गुरुकुलवासं ण मुंचंति॥१॥"अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्तुमाह,श्रमणेन तपखिना भगवता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षण उत्पन्नकवलज्ञानतया खयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः, ते च कीदृशा इत्याह-'जे भिक्खू' इत्यादि- यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्थे समाकर्ण्य, ज्ञात्वा यथावदवबुध, जित्वा पुनः पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परीपहैरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीपहा इति तद्हणं, उक्तञ्च-"भिक्खायरिआए बावीसं परीसहा उईरिजंतित्ति" इत्युक्त उद्देशः । पृच्छामाह___ मूलम्- कयरे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेजा ॥ व्याख्या-कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालंकारे शेषं प्राग्वत् । निर्देशमाह
मूलम्- इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेज्जा ॥ व्याख्या-इमे हृदि वर्त्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ॥
मूलम्- तंजहा-दिगिंछापरीसहे ( १ ), पिवासापरीसहे (२), सीअपरीसहे ( ३ ), उसिणपरीसहे (४), दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिजापरीसहे (११), अक्कोसपरीसहे (१२), वहपरीसहे (१३), जायणापरीसहे ( १४ ), अलाभपरीसहे (१५), रोगपरीसहे (१६), तणफासपरीसहे ( १७ ), जल्लपरीसहे ( १८), सकारपुरकारपरीसहे (१९), पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे ( २२)॥ ___ व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरुत्वेन आहारपचनाप्रासुकानेषणीयभोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सद्यते इति परीषहो दिगिंछापरीषहः (१) पिपासा तृषा, सैव परीषहः पिपासापरिषहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् ( ४ ) दंशमशकाः प्रतीताः, यूकाद्युपलक्षणञ्चैते (५) अचेल चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया धृतिस्तद्विपरीता चारतिः (७)