________________
274 उत्तराध्ययन व्याख्या-अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्य अपरिग्रहं च प्रतिपद्यैवं पञ्च महाव्रतानि चरेदासेयेत, न तु खीकारमात्रेणैव तिष्ठेदित्यर्थः । धर्म श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ॥ १२ ॥
मूलम्-सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयवंभयारी।
____सावजजोगं परिवजयंतो, चरेज भिक्खू सुसमाहि इंदिए ॥ १३ ॥ व्याख्या--सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वश. क्त्या क्षमते दुर्वचनादीति क्षान्तिक्षमः, संयतः सम्यगू यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञत्यै ॥ १३ ॥ मूलम्-कालेण कालं विहरिज रहे, बलाबलं जाणिअ अप्पणो अ।
सीहो व सद्देण न संतसिज्जा, वयजोग सुच्चा ण असब्भमाहु ॥१४॥ व्याख्या-कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं, कुर्वनिति शेषः । विहरेत् राहे मण्डले उपलक्षणत्वादामादौ च । बलावलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न साचया तथेति भावः । अन्यच सिंह इव शब्देन प्रक्रमाद्योत्पादकेन न संत्रस्येत् नैव सत्वाचलेत हे आत्मन् ! भवा. निति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं “आहुत्ति' आपत्वाद्र्यात् ॥ १४ ॥ तर्हि किं कुर्यादित्याह-- मूलम्-उवेहमाणो उ परिवएजा, पिअमप्पिअं सब तितिक्खएजा।
न सब सवत्थऽभिरोअइजा, न यावि पूअं गरहं च संजए ॥ १५ ॥ व्याख्या-उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत् , तथा प्रियमप्रियं सर्वं तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत् , यथादृष्टाभिलापुको माभूदिति भावः । न चापि पूजा, गीं च परनिन्दां, अभिरोचये. दिति योगः ॥ १५ ॥ ननु भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह
मूलम्-अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू ।
__ भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ व्याख्या-अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा भीपणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमारीद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं,दिव्या मानुष्यका अथवा तैरचा उपसर्गाः इति शेषः ॥१६॥ तथामूलम्-परीसहा दुविसहा अणेगे, सीदति जत्था बहुकायरा नरा ।
से तत्थ पत्ते न वहिज भिक्खू , संगामसीसे इव नागराया ॥ १७॥ व्याख्या-परीषहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयम प्रति शिथिलीभवन्ति 'जत्था'इति यत्र येषूपसर्गेषु परीपहेषु च सत्सु बहु भृशं कातराः नराः, से' इत्यथ तत्र तेषु प्राप्तो नव्यथेत न सत्वाचलेद्भवान् भिक्षुः सन् सङ्ग्रामशी इव नागराजः ॥१७॥
मूलम्-सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं ।
__ अकुक्कुओ तत्थऽहियासएज्जा, रयाई खेवेज पुरेकडाई ॥१८॥ व्याख्या-शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योक्ष्यते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्च विविधाः स्पृशन्ति उपतापयन्ति देहं भवत इति गम्यं । 'अकुकुओत्ति' कुत्सितं कूजति कुकूजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधिसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः स्पष्टतार्थमन्वयेनोक्तः । ईशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि 'खेवेजत्ति' क्षिपेत् पुराकृतानि ॥ १८॥ मूलम्-पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो।
मेरुव वाएण अकंपमाणो, परीसहे आयगुत्ते सहेजा ॥ १९ ॥