________________
273
उत्तराध्ययन
॥ अथ एकविंशमध्ययनम् ॥
॥ॐ॥व्याख्यातं विंशतितममध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते। अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथ. त्वमुक्तं, तच परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तनाननोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम्-चंपाए पालिए नाम, सावए आसि वाणिए ।महावीरस्स भगवओ, सीसे सो उ महप्पणो॥१॥ व्याख्या-महावीरस्य भगवतः शिष्यः 'सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ॥१॥ मूलम्-निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरते, पिहुंडं नगरमागए ॥२॥ व्याख्या-नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेपेण कोविदो विकोविदः, पोतेन प्रवहणेन व्यवहरन् व्यापारं कुर्वन् , पिहुंडं पिहुंडसंज्ञम् ॥२॥ मूलम्-पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ ॥ ३॥ ___ व्याख्या-वाणिओ देइ धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्वां सगी प्रतिसादाय खदेशमथ प्रस्थितः ॥ ३॥ मूलम्-अह पालिअस्स धरणी, समुद्दमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥४॥ ___ व्याख्या-'तहिति' तत्र समुद्रे ॥४॥ मूलम्-खेमेण आगए चंपं, सावए वाणिए घरं । संवडए घरे तस्स, दारए से सुहोइए ॥५॥ बावत्तरि कलाओ अ, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पिअदंसणे ॥६॥ तस्स रूववई भजं, पिआ आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥७॥
व्याख्या-रूविणिति' रूपिणीसंज्ञा, प्रासादे क्रीडति, तया सहेति शेपः ॥५॥ ६ ॥७॥ मूलम्-अह अन्नया कयाइ, पासायालोअणे ठिओ। वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥८॥
व्याख्या--अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवी. रादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं, इहोपचाराध्यशब्देन वध्यभूरुक्ता ॥८॥ मूलम्-तं पासिऊण संवेगं, समुद्दपालो इणमब्बवी। अहो असुहाण कम्माणं, निजाणंपावगं इमं ॥९॥
व्याख्या-तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत् , अहो ! अशुभानां कर्मणां निर्याणमवसानं विपाक इत्यर्थः, पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ॥९॥ मूलम्-संबुद्धो सो तहिं भयवं, परमं संवेगमागओ।आपुच्छऽम्मापिअरो, पबए अणगारि॥ १० ॥ ___ व्याख्या--एवं ध्यायन् सम्बुद्धः समुद्रपालः 'तर्हि' तत्र प्रासादालोकने, आपृच्छय मातापितरौ 'पञ्चरत्ति' प्रावाजित् प्रतिपेदेऽनगारितामिति सूत्रदशकावयवार्थः, शेपं व्यक्तं, एवमपि ॥ १०॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाहमूलम्-जहित्तु संगं च महाकिलेस, महंतमोहं कसिणं भयावहं ।
परिआयधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ ॥ ११ ॥ व्याख्या-हित्वा त्यक्त्वा संङ्गं खजनादिसम्बन्धं, चः पूत्तौं, महाक्लेशं महादुःखं, महान्मोहः स्यादिविपयोऽज्ञानरूपो वा यस्मात् स महामोहस्तं, कृत्यं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावहं, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, चः पूत्तौं, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः । पर्यायधर्ममेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीपहानिति परीपहसहनानि चाभिरोचयेदिति योगः ॥ ११ ॥ तदनु यत्कार्य तदाहमूलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च ।
पडिवजिआ पंच महत्वयाई, चरिज धम्मं जिणदेसिअं विऊ ॥ १२॥