________________
275 उत्तराध्ययन म्याख्या-'मेरुष' इत्यादि-मेरुर्वातेनेव परीपहादिनाऽकम्पमानः, 'आयगुत्तेत्ति' गुप्तात्मा, अनेन सूत्रेण परीपहसहनोपाय उक्तः ॥ १९ ॥ किञ्च
मूलम्-अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च संजए ।
___ से उजुभावं पडिवज्ज संजये, निवाणमग्गं विरए उवेइ ॥ २० ॥ व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहीं च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुन्नतः पूजां प्रति, अनवनतश्च गहाँ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं विरतः सन्नुपैति प्राप्नोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ २० ॥ ततः स कीदृशः सन् किं करोति १ इत्याह___ मूलम्-अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं ।
परमहपएहिं चिटुई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ प्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्परिचयरूपो पस्य सः तथा, विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् , परमार्थो मोक्षस्तस्स पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' 'अकिञ्चनः' इमानि श्रीणि पदानि मिथो हेतुतया व्याख्येयानि ॥ २१॥
मूलम्-विवित्तलयणाणि भइज ताई, निरूवलेवाइं असंथडाई।
इसीहिं चिण्णाई महायसेहिं, कायेण फासेज परीसहाई ॥ २२ ॥ व्याख्या-विविक्तलयनानि रूयादिरहितोपाश्रयान् ‘भइजत्ति' भजति, त्रायी, विविक्तत्वादेव निरुपलेपानि भाषतोऽभिष्वङ्गरहितानि द्रव्यतस्तदर्थ नोपलिप्लानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋपिभिश्चीनि सवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीपहान् ॥ २२ ॥ ततः स कीशोऽभूदित्याह__ मूलम् स नाणनाणोवगए महेसी, अणुत्तरं चरिउ धम्मसंचयं ।।
अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-स समुद्रपालर्षिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयं क्षात्यादिधर्मसंचयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनुतरज्ञानं केवलाद्वं तद्धरो यशस्वी अवभासते जगति प्रकाशते सूर्य इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ॥ २३ ॥ उपसंहारपूर्व तस्यैव फलमाहमूलम्-दुविहं खवेऊण य पुण्णपावं, निरंगणे सवओ विप्पमुक्के ।
तरित्ता समुदं व महाभवोहं, समुद्दपालो अपुणागमं गएत्ति बेमि ॥ २४ ॥ व्याख्या-द्विविधं घातिभवोपग्राहिभेदेन द्विभेदं पुण्यपापं शुभाशुभप्रकृतिरूपमर्थात्कर्म क्षित्वा, निरङ्गतःप्रस्तावासंयम प्रति निश्चलः शैलेश्यवस्थां प्राप्त इत्यर्थः, सर्वतो वाह्यादाभ्यन्तराचाभिष्वंगहेतोर्विप्रमुक्तः, ती, समुद्रमिव महाभवौघं देवादिजन्मसन्तानं, समुद्रपालोऽपुनरागमां गतिं मुक्तिं गत इति सूत्रार्थः ॥२४॥ इति ब्रवीमीति प्राग्वत् ॥२१॥
CONTACORRACREASOMARACIAAMARINCOME " इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-दि 21 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकविंशमध्ययनं सम्पूर्णम् ॥२१॥