________________
271
उतराध्ययन
राणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपलक्षिते काले समये ॥ ४५ ॥ अमुमेवार्थ विशेषादाह
मूलम् - तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ । संघाइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ॥ ४६ ॥
व्याख्या – 'तमंतमेणेव उत्ति' अतिमिध्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूत, स द्रव्यमुनिः अशीलः सदा दुःखी विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनीः, मौनं चारित्रं विराध्यासाधुरूपस्तत्वतोऽयतिखभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ॥ ४६ ॥ कथं मौनं विराधयति, कथं वा नरकतिर्यग्गतीः सन्धावतीत्याह
मूलम् - - उद्देसिअं की अगडं निआगं, न मुंबई किंचि अणेसणिज्जं ।
अग्गी विवाहभक्खी भवित्ता, इओ चुओ गच्छइ कट्टु पावं ॥ ४७ ॥
व्याख्या – 'निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो भवाच्युतो गच्छति, कुगतिमिति शेषः ॥ ४७ ॥ कुत एतदेवमित्याह
मूलम् न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा | से नाहि मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥ ४८ ॥
व्याख्या - न नैव तमिति प्रक्रमादनर्थ, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न चेमामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुनः प्राप्तः । पश्चादनुतापेन हा ! दुष्टु मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासी त्याज्येत्यर्थः ॥ ४८ ॥ यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह
मूलम् — निरद्विआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ ।
इमेवि से नत्थि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ॥ ४९ ॥ व्याख्या - निरर्थिका 'तु' शब्द स्यैवकारार्थस्येह सम्वन्धान्निरर्थिकैव निष्फलैव नाकये श्रामण्ये रुचिस्तस्य यः 'उत्तिमदृंति' सुपूव्यत्ययादपेश्च गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्व, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोद्य दुरात्मतां तथात्वेन जानाति, तस्य तु स्वनिन्दादिना स्यादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योगः, से तस्य नास्ति । न केवलमयमेष, किन्तु परोऽपि भवान्तररूपः । तत्रेहलोकाभावः कायक्लेशहेतु लोचादिसेवनात् परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपारत्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभय भ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति लोके जगति ॥ ४९ ॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयति-
मूलम् - एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं ।
कुररी विवा भोगरसाणुगिद्धा, निरट्ठसोआ परितावमेइ ॥ ५० ॥
व्याख्या - एवमेवोक्तरूपेणैव महात्रता स्पर्शनादिना प्रकारेण यथाछन्दाः स्वरुचिकल्पिताचाराः, कुशीलाश्च कुत्सि तशीलास्तद्रूपास्तत्स्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापमेति प्राप्नोति । यथा साऽऽमिपगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, एवमूयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य स्वान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ॥ ५० ॥ इदं च श्रुत्वा यत्कार्य तदाह
मूलम् -- सोच्चाण मेहावि सुभासिअं इमं, अणुसासणं नाणगुणोववेअं ।
ari कुसीला जहाय सवं, महानिअंठाण व पणं ॥ ५१ ॥