________________
270
उत्तराध्ययन
न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ ३८ ॥ तामेव दर्शयति-
मूलम् — जो पवइत्ता ण महवयाई, सम्मं च नो फासयई पमाया । अणिग्गहप्पा यरसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ व्याख्या - यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ॥ ३९ ॥
मूलम् - आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहसणाए । आयनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ॥ ४० ॥
व्याख्या - आयुक्तता सावधानता यस्य नास्ति काचिदतिखल्पापि । ' आयाणेत्यादि' लुप्तविभक्तिदर्शनादादाननिक्षेपयोरुप करणग्रहणन्यासयोः, तथा जुगुप्सनाय परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स मुनिर्वीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यक दर्शनादिकं मुक्तिपथम् ॥ ४० ॥ तथा च
मूलम् - चिरंपि से मुंडरुई भवित्ता, अथिरवए तवनिअमेहिं भट्टे | चिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ॥ ४१ ॥
व्याख्या - चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठान विमुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा, अस्थिरत्रतश्चञ्चलत्रतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, दुर्वाक्यालंकारे, 'संपराएत्ति' सम्परायस्य संसारस्य ॥ ४१ ॥
मूलम् - पोल्लेत्र मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा ।
ढाणी वेरुलअप गासे, अमहग्घए होइ हु जाणएसु ॥ ४२ ॥
व्याख्या -- पौलेव सुषिरैव न मनागपि निविडा मुष्टिर्यथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । अयंत्रितः कूटकार्षापण इव, यथाह्यसौ कूटत्वान्न केनापि नियंत्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिर्वैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहार्षकः अमहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेषु, मुग्धजनविप्रतारकत्वात्तस्य ॥ ४२ ॥
मूलम् - - कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता ।
असंजर संजयलप्पमाणे, विणिधायमागच्छइ से चिरंपि ॥ ४३ ॥
ब्याख्या -- कुशीललिङ्गं पार्श्वस्थादिवेपमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिह्नं रजोहरणादि 'जीविअत्ति' जीविकायै जठरभरणार्थ बृंहयित्वा इदमेव प्रधानमिति ख्यापनेनोपवृद्ध, अत एवासंयतः सन् 'संजयलप्पमात्ति' संवतमात्मानं लपन् भाषमाणः, विनिघातं विविधाभिघातरूपमागच्छति स चिरमप्यास्तां खल्पकालं नरकादाविति भावः ॥ ४३ ॥ इहैव हेतुमाह
मूलम् -- विसं पिवत्ता जह कालकूडं, हणाइ सत्थं जह कुंग्गहीअं ।
सेव धम्मो विसओववण्णो, हणाइ वेआल इवाविवण्णो ॥ ४४ ॥ व्याख्या – विषं 'पिवित्तत्ति' आर्पत्यात् पीतं यथा कालकूटं 'हणाइति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सि - तप्रकारेण गृहीतं, 'एसेवत्ति' एष एवं विषादिवत् धर्मः साधुधम्र्मो विषयोपपन्नः शब्दादिविषयलाम्पट्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्ना मंत्रादिभिरनियंत्रितः साधकमिति गम्यम् ॥ ४४ ॥ - जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहल संपगाढे ।
मूलम् —
कुडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ॥ ४५ ॥
व्याख्या -- यो लक्षणं स्वप्नं च प्रयुंजानो व्यापारयन्, निमित्तं भौमादि, कौतुकं चापत्याद्यर्थं स्नानादि, तयोः संप्रगाढः प्रसक्तो यः स तथा । कुहेटकविद्या अलिकाश्चर्यकारिमंत्र तंत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वादाश्रवद्वा