________________
269
उत्तराध्ययन भारिआ मे महाराय !, अणुरत्ता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ॥ २८॥
व्याख्या--'अणुवयत्ति' अनुव्रता पतिव्रता ॥ २७ ॥ २८ ॥ मूलम्-अन्नं पाणं च ण्हाणं च, गंधमल्लविलेवणं।मए णायमणायं वा, सा बाला नोवभुंजइ ॥२९॥ खणंऽपि मे महाराय !, पासओवि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ॥३०॥
व्याख्या-'पासओवित्ति' पार्थतश्च, 'न फिट्टइत्ति' नापयाति ॥ २९ ॥ ३०॥ मूलम्-तओहं एवमाहंसु, दुक्खमा हु पुणो पुणो। वेअणा अणुभविउं जे, संसारम्मि अणंतए ॥३१॥
व्याख्या-ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंमुत्ति' उदाहृतवान् , यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे ॥ ३१ ॥ ततश्चमूलम्--सइं च जइ मुच्चिज्जा, वेअणा विउला इओ। खंतो दंतो निरारंभो, पवए अणगारिअं॥३२॥
व्याख्या-'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याहक्षान्तः क्षमावान् , दान्त इन्द्रियनोइन्द्रियदमवान् , निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मलत एव वेदना न स्वादिति भावः ॥ ३२ ॥ मूलम्-एवं च चिंतइत्ता णं, पसुत्तोमि नराहिवा!। परिअत्ततीए राईए, वेअणा मे खयं गया ॥३३॥
व्याख्या-न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप । परिवर्तमानायामतिकामत्यां रात्रौ वेदना मे क्षयं गता ॥३३॥ मूलम्-तओ कल्ले पभायंमि, आपुच्छित्ता ण बंधवे।खंतो तो निरारंभो, पवइओ अणगारियं ॥३४॥
व्याख्या-ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोगः सन् ॥ ३४ ॥ मूलम्-तओहं नाहो जाओ, अप्पणो अ परस्स य । सवेसिं चेव भूआणं, तसाणं थावराण य ॥३५॥
व्याख्या-ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स खस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु खस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ॥ ३५ ॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याहमूलम्-अप्पा नई वेअरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥३६॥
व्याख्या-आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदौपम्यं च तस्य खर्गापवर्गादिसमीहितावासिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ॥ ३६ ॥ मूलम्-अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य।अप्पा मित्तममित्तं च, दुप्पट्टिअ सुपटिओ॥३७॥
व्याख्या-आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीदृशः सन् ? दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् खस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ ३७॥ पुनरन्यथाऽनाथत्वमाह
मूलम्--इमा हु अन्नावि अणाहया निवा!, तमेगचित्तो निहुओ सुणाहि ।
निअंठधम्म लहिआण वी जहा, सीदति एगे बहु कायरा नरा ॥ ३८॥ व्याख्या-'इमत्ति' इयं, हुः पूत्तौं, अन्या अपरा, अपिः समुच्चये, अनाथता, यदभावादहं नाथो जात इति भावः। 'णिवत्ति' हेनृप ! तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसौ ? इत्याह-निर्ग्रन्थधर्म साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्तितदनुष्ठानं प्रति शिथलीभवन्ति । एके केचन, बहु प्रकामं यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः। यद्वा बहुकातरा इपन्निःसत्वाः, सर्वथा निःसत्वानां हि निम्रन्थमार्गाङ्गीकार एव मूलतोऽपि