________________
उत्तराध्ययन
267 क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ॥२॥ तदुद्यानं कीदृशमित्याह-- मूलम्-नाणादुमलयाइण्णं, नाणापक्खिनिसेविअं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहुं, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ॥४॥ ___ व्याख्या-साधुः सर्वोऽपि शिष्ट उच्यते, ततः संयतमित्युक्तं । सोऽपि बहिःसंयमवान्निवादिरपि सादिति सुसमाहितमित्युक्तम् ॥ ३॥४॥ मूलम्--तस्स रूवं तु पासित्ता, राइणो तंमि संजए। अचंतं परमो आसि, अउलो रूवविम्हओ ॥५॥ ____ व्याख्या-'अचंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान् , रूपविषयो विस्मयो रूपविस्मयः ॥५॥ तमेव दर्शयतिमूलम्-अहो वण्णो अहो रूवं, अहो अजस्स सोमया।अहो खंती अहो मुत्ती, अहो भोगे असंगया!६ ___ व्याख्या-अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य, मुनेः सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असता निःस्पृहता ॥६॥ मूलम्---तस्प्त पाए उ वंदित्ता, काऊण य पयाहिणं। नाइदृरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥
व्याख्या-अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थ, 'नाइदूरमणासनेत्ति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेषः ॥ ७॥ मूलम्--तरुणोऽसि अजो पवइओ,भोगकालंमि संजया। उवडिओऽसि सामण्णे, एअमटुं सुणामिता ८
व्याख्या-तरुणोऽसि आर्य ! अत एव भोगकाले प्रवजित इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामण्ये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्ययस्थायां प्रव्रजितः शृणोमि 'ताइति' तावत् पूर्व, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रससकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥८॥ इत्यं राज्ञोक्ते मुनिराहमूलम्-अणाहोमि महाराय !, नाहो मज्झ न विजइ।अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥९॥ ___ व्याख्या-अनाथोऽस्म्यहं महाराज ! किमिति १ यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्रजित इति भावः ॥९॥ एवं मुनिनोक्तेमूलम्-तओ सो पहसिओराया,सेणिओ मगहाहिवो। एवं ते इडिमंतस्स,कहं नाहो न विजइ ? ॥१०॥ ___व्याख्या-एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥ १०॥ यदि चानाथतैव व्रताङ्गीकारहेतुस्तर्हिमूलम्--होमि नाहो भयंताणं, भोगे भुंजाहि संजया! मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ॥११॥
व्याख्या-भवामि नाथो भदंताना, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाहभोगे इत्यादीति ॥ ११ ॥ मुनिराह
मूलम्-अप्पणावि अणाहोऽसि, सेणिआ ! मगहाहिवा !।
अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ १२ ॥ __ व्याख्या-[ सुगमैव ] ॥ १२ ॥ एवं मुनिनोक्तेमूलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुवं, साहुणा विम्हयन्निओ ॥१३॥
व्याख्या--इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्निओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनित्या वचनमश्रुतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ॥ १३ ॥