________________
266 उत्तराध्ययन मूलम्-अप्पसत्थेहिं दारेहिं, सबओपिहिआसवो । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणो ॥९॥
व्याख्या--अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रयो रुद्धकर्मागमः । कैरयमीशोऽभूदित्याह-'अन्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशमः शाशनं च जिनागमात्मकं यस्य स तथेति ॥ ९३ ॥ मूलम्-एवं नाणेण चरणेणं, दंसणेण तवेण य। भावणाहि अ सुखाहिं, सम्म भावित्तु अप्पयं ॥९॥
व्याख्या-'भावणाहित्ति' भावनाभित्रतविषयामिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानामिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ॥ ९४॥ मूलम्-बहुआणि उवासाणि, सामण्णमणुपालिआ। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥९५॥
व्याख्या--'मासिएण उत्ति' मासिकेन, तुः पूत्तौं, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति सूत्राष्टकार्थः ॥ ९५ ॥ अथोपसंहारपूर्वमुपदिशन्नाहमूलम्-एवं करंति संबुद्धा, पंडिआ पविअक्खणा। विणिअति भोगेसु, मिआपुत्ते जहामिसी ॥१६॥ व्याख्या--'जहामिसीत्ति' यथा ऋपिर्मकारोऽलाक्षणिकः ॥ ९६ ॥ पुनः प्रकारान्तरेणोपदेशमाहमूलम्-महापभावस्स महाजसस्स, मिआइपुत्तस्स निसम्म भासि।
तवप्पहाणं चरिअं च उत्तम, गइप्पहाणं च तिलोअविस्सुअं ॥९७ ॥ व्याख्या-भासिअंति' भाषितं संसारस असारत्वदुःखप्रचुरत्यावेदकं, 'गइप्पहाणं चत्ति' प्रधानगति च सिद्धिरूपां त्रिलोकविश्रुताम् ॥ ९७॥ मूलम्-विआणिआ दुक्ख विवडणं धणं, ममत्तबंधं च महब्भयावहं ।
सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महंति बेमि ॥ ९८ ॥ व्याख्या-धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च खजनादिममत्वपाशं च महाभयावह विज्ञाय, तत एव ऐहिकामुष्मिकभयावासेः। सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनायास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः ॥ ९८॥इति अवीमीति प्राग्वत् ॥ *
യറ്റുയായിയായി इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिभुजिष्यो-दि
A पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम्॥१९॥ காSைERSIASERSEASESSESSES * अस्मिन्नध्ययने “देवलोगचुओसंतो, माणुसं भवमागओ । सन्निनाणसमुप्पन्ने, जाई सरइ पुराणयं" इत्यष्टमसूत्रं कचिदृश्यते ॥
॥ अथ विंशतितममध्ययनम् ॥
-
-
॥ अर्हम् ॥ उक्तमकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्स चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्मतोक्ता, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्वेदमादिसूत्रम्मूलम्-सिद्धाण नमोकिच्चा, संजयाणं च भावओ। अत्थधम्मगई तच्चं, अणुसिहि सुणेह मे ॥ १॥
व्याख्या-सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्त्या । अर्यो. हितार्थिभिः प्रार्थ्यः स चासौ धर्मश्चार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां, 'तचंति' तथ्यामविपरीतार्थी, अनुशिष्टिं शिक्षां शृणुत, मे मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥ १॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाहमूलम्-पभुअरयणो राया, सेणिओ मगहाहिवो। विहारजत्तं निजाओ, मंडिकुञ्छिसि चेइए ॥२॥ ध्याख्या--प्रभूतानि रतानि वैडूर्यादीनि सारगजाधादिरूपाणि वा यस्य स तथा, 'विहारजत्तंति' विहारयात्रया