________________
265 उत्तराध्ययन मूलम्-एवं समुहिते भिक्खू , एवमेव अणेगगो। मिगचारिअं चरित्ता णं, उई पक्कमई दिसिं ॥८॥ __व्याख्या-एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातकोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्या निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य अपगताशेषकर्माश ऊर्दू प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ॥ ८२ ॥ मृगचर्यामेव स्पष्टयति--
मूलम्--जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ ।
एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अ खिंसइज्जा ॥ ८३ ॥ व्याख्या-यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचयाँ प्रविष्टो नो हीलयेदवजानीयात्कदन्नादीति गम्यं, नापि च 'खिसएजत्ति' निन्देदाहाराप्राप्तौ खं परं चेति सूत्राष्टकार्थः ॥ ८३ ॥ एवं मृगचर्याखरूपं निरुप्य यत्तेनोक्तं यच्च पितृभ्यां यश्चायं चक्रे तदाहमूलम्-मिगचारिअं चरिस्सामि, एवं पुत्ता! जहासुहं। अम्मापिईहिंऽणुण्णाओ,जहाइ उवहिं तओ ८४ ___ व्याख्या-मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिका चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथारुचितं तथा सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति सजति उपधि परिग्रहं ततः ॥ ८४ ॥ उक्तमेव अर्थ सविस्तरमाहमूलम्-मिअचारिअंचरिस्सामि,सबदुक्खविमोक्खणीं। तुब्भेहिं समणुण्णाओ,गच्छ पुत्त ! जहासुहं८५
व्याख्या-'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रमः, यथासुखं सुखस्थानतिक्रमेणेति पित्रोर्वचः ॥ ८५ ॥ मूलम्-एवं स अम्मापिअरो, अणुमाणित्ता ण बहुविहं। ममत्तं छिंदई ताहे, महानायुव कंचुअं ॥८६॥
व्याख्या एवं स मातापितरौ अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कक्षुकं, यथाऽसौ चिरप्ररूढतयाऽतिजरठमपि कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥ ८६ ॥ अनेनान्तरोपधिसाग उक्तो, बहिरुपधित्यागमाहमूलम् इड्डी वित्तं च मित्ते अ, पुत्त दारं च नायओ। रेणुअंव पडे लग्गं, निझुणित्ताण निग्गओ ८७
व्याख्या-ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् खजनान् 'निढुणित्तत्ति' 'निर्दूय त्यक्त्वा निर्गतो गृहानिष्क्रान्तः प्रवजित इति सूत्रचतुष्कार्थः ॥ ८७ ॥ ततोऽसौ कीदृक् जातः, किञ्च तस्य फलमभूदित्याहमूलम्--पंचमहवयजुत्तो,पंचहिं समिओतियुत्तिगुत्तो।सभितरवाहिरए,तवोवहाणंमि उजुत्तो
व्याख्या-पंचहिति' पंचभिः समितिभिरिति शेषः, 'सभितरेत्यादि' साभ्यन्तरे वाह्ये तपसि, उपधाने च श्रुतोपचाररूपे उद्युक्त उद्यमवान् ॥ ८८॥ मूलम्--निम्ममो निरहंकारो, निस्संगो चत्तगारवो ।समोअ सवभूएसु, तसेसु थावरेसु अ॥ ८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ॥९॥ गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥ ९१ ॥
व्याख्या-गौरवादीनि पदानि सुव्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिवन्धनरहितः॥ ८९॥९०॥ ९१॥ मूलम्-अणिस्सिओइहं लोए,परलोए अणिस्सिओ।वासीचंदणकप्पो अ, असणे अणसणे तहा॥९२॥
व्याख्या-अनिश्रित इह लोके परलोके च, नेह लोकार्थ परलोकार्थ वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य वासीचन्दनव्यापारकपुरुपयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभाये, कल्प इत्यत्रापि योज्यम् ॥ ९२ ॥