________________
264
उतराध्ययन
मूलम् -निच्चं भीएण तत्थेणं, दुहिएणं वहिएण य । परमा दुहसंबद्धा, वेअणा वेइआ मए ॥ ७१ ॥
व्याख्या - भीतेनोत्पन्नभयेन त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमान सर्वाङ्गेन ॥ ७१ ॥ मूलम् - तिबचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुं वेइआ मए ॥७२॥
व्याख्या -- तीव्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एव घोरा रौद्रा अतिदुस्सहाः, तत एव महाभयाः भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वा एतानि, इह च वेदना इति प्रक्रमः ॥७२॥ arei पुनस्तासां तीव्रादिरूपत्वमित्याह
मूलम् --जारिसा माणुसे लोए, ताया ! दीसंति वेअणा । एत्तो अनंतगुणिआ, नरपसुं दुक्खवेअणा ७३
व्याख्या - [ सुगमा ] ॥ ७३ ॥ न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाह - मूलम् -- सवभवेसु असाया - वेअणा वेइआ मए । निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ॥ ७४ ॥
व्याख्या--सर्वभवेष्त्रसातवेदना वेदिता मया निमेषस्यान्तरं व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीर्ष्याद्यनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्यायमाशयो येन मयैवं दुःखान्यनुभूतानि सोऽहं तत्स्वतः कथं सुखोचितः सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राह्येवेत्येकत्रिंशत्सूत्रार्थः ॥ ७४ ॥ तत्रेत्थमुक्त्वा स्थिते
मूलम् - तं बिंतऽम्मापिअरो, छंदेणं पुत्त ! पवया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥७५॥
व्याख्या—'छंदेणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहेतुर्निःप्रतिकर्मता रोगाद्युत्पत्तौ प्रतिकाराकरणमिति सूत्रार्थः ॥ ७५ ॥ इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माहमूलम् — सो बिंतऽम्मापिअरो !, एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरण्णे मिअपक्खिणं ? ॥७६॥
व्याख्या—स ब्रूते हे अम्बापितरौ ! एवमेतन्निः प्रतिकर्मताया यदुःखरूपत्वमुक्तं यथा स्फुटं सत्यं परं परिभाव्यतामिदं, परिकर्म चिकित्सां कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च ततः किमस्या दुःखरूपत्वमिति भावः ॥ ७६ ॥ ततश्च
मूलम् - एगभूओ अरण्णे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७৷৷
व्याख्या -- एकभूत एकत्वम्प्राप्तः 'अरण्णेवत्ति' अरण्येऽटव्यां वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं धर्मे चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ ७७ ॥
मूलम् - जया मिअस्स आयंको महारण्णंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई ? ७८
व्याख्या– 'अञ्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाद्युपदेशेन नीरोगं करोति ? न कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ॥ ७८ ॥ मूलम् -- कोवा से ओसहं देइ, को वा से पुच्छई सुहं । को वा से भत्तपाणं वा, आहरित्तू पणामए ? ७९ व्याख्या- 'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहत्य प्रणामयेदयेत् ? ॥ ७९ ॥ कथं तर्हि तस्य नि
र्वाह: १ इत्याह
मूलम् - जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि अ ॥८०॥
व्याख्या - यदा च स सुखी भवति खत एव रोगाभावात् तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वलराणि गहनानि सरांसि च ॥ ८० ॥
"
मूलम् -- खाइत्ता पाणिअं पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ॥ ८१ ॥
व्याख्या - खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु सरस्सु च मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातंत्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ॥ ८१ ॥ इत्थं दृष्टान्तमुक्त्वा गाथाद्वयेनोपसंहारमाह