________________
262
उत्तराध्ययन
ब्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि दुःखोत्पादकानि भयानि राजविरादिजनितानि दुःखभयानि चः समुच्चये ॥ ४५ ॥
मूलम् — जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ॥४६॥
व्याख्या - जरामरणाभ्यामतिगहनतया कान्तारमिष जरामरणकान्तारं तस्मिन् चतुरन्ते देवादिगतिचतुष्काववे भाकरे भवे इति शेषः ॥ ४६ ॥ शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाह
मूलम् - जहा इहं अगणी उन्हो, एत्तोऽणंतगुणा तहिं । नरएस वेअणा उण्हा, अस्साया वेइआ मए ४७
व्याख्या- यथा इह मनुष्यलोकेऽग्निरुष्ण इतोऽस्मादमेरनन्तगुणाः 'तहिं ' तेषु नरकेषु येष्वहमुत्पन्न इति भाषः, तत्र च बादराप्रेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयं । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ॥ ४७ ॥
मूलम् - जहा इहं इमं सीअं, एत्तोऽणंतगुणा तर्हि । नरएसु वेअणा सीआ, अस्साया देइआ मए ॥४८॥ व्याख्या- — यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ॥ ४८ ॥
मूलम् -- कंदतो कंदुकुंभीसु, उड्डपाओ अहोसिरो। हुआसिणे जलंतम्मि, पक्कपुवो अनंतसो ॥ ४९ ॥ व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ॥ ४९ ॥ मूलम् — महादवग्गिसंकासे, मरुम्मि वइवालुए । कलंबवालुआए अ, दडपुवो अनंतसो ॥ ५० ॥
व्याख्या – महादवाग्निसंकाशे, अत्रान्यस्य ताहगुदाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्याग्नेरनंतगुण एव तत्रोष्णः पृथिव्यनुभाव इति । 'मरुंमित्ति' तास्थ्यात्तद्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच मरौ मरुवालुकानिकरकल्पे, 'वहरवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदी पुलिने च ॥ ५० ॥ मूलम् -- रसंतो कंदुकुंभीसु, उडुं वद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुवो अनंतसो ॥ ५१ ॥
व्याख्या - रसन्नाक्रंदन् कंदुकुंभीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनंक्षीदिति नियंत्रितः । क्रकचं करपत्र विशेष एव ॥ ५१ ॥
मूलम् -- अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअं पासबद्धेणं, कड्डो कड्डाहिं दुक्करं ॥ ५२ ॥
व्याख्या- 'खेविअंति' खिन्नं खेदोऽनुभूतः मयेति गम्यते, 'कडोकहाहिंति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥
मूलम् — महाजंतेसु उच्छू वा, आरसंतो सुभेवं । पीलिओम्मि सकम्मेहिं, पावकम्मो अनंतसो ॥५३॥
व्याख्या – 'उच्छ्रवत्ति' इक्षव इव, आरसन्नाक्रंदन् ॥ ५३ ॥
मूलम् — कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ५४
व्याख्या -- कूजन्नाक्रंदन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलैश्च परमाधार्मिकविशेषैः पातितो मुवि, पाटितो जीर्णवस्त्रवत्, छिन्नो वृक्षवत्, विस्फुरन्नितस्ततश्चलन् ॥ ५४ ॥
मूलम् - असीहिं अयसीवण्णाहिं, भल्लीहिं पट्टिसेहि या छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मणा५५
व्याख्या -- असिभिः कृपाणैः 'अयसिवण्णार्हिति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेपैः छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ५५ मूलम् — अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तोतजोत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥
व्याख्या - लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याहमिलाते युगकीलिकायोक्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्रयोः प्राजनकबन्धनविशेषैः 'रोज्झोवत्ति' रोज्झः पशुविशेषः, या समुचये भिन्नक्रमश्च यथेत्यौपम्ये, ततो रोशवत्पातितथ लकुटादिपिद्वनेनेति शेषः ॥ ५६ ॥
मूलम् — हुआसणे जलंतंमि, चिआसु महिसो विष। दडो पक्को अ अवसो, पावकम्मेहिं पाविओ ॥५७॥