SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 261 मूलम्-सुहोइओ तुम पुत्ता!, सुकुमालो असुमजिओ।नहुसि पहु तुम पुत्ता!,सामण्णमणुपालिआ ३४ व्याख्या-सुखोचितः सुखयोग्यः, सुकुमारः, सुमजितः सुष्टु अभ्यंगनादिपूर्व मजितः सपितः, सकलालहारोपलक्षणमेतत् । इह च सुमजितत्वं सुकुमारत्वे हेतुः, द्वयश्चैतत् सुखोचितत्वे, ततो 'नासित्ति' नैवासि प्रभुः समा, प्रामण्यमनुपालयितुम् ॥ ३४ ॥ असमर्थतामेव दृष्टान्तः समर्थयनाहमूलम्-जावजीवमविस्सामो, गुणाणं तु महन्भरो। गरुओ लोहमारुव, जो पुत्तो ! होइ दुबहो ॥३५॥ व्याख्या-अविश्रामो निरन्तरः गुणानां मुनिगुणानां, तुः पूरणे, महामरो गुरुको लोहमार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥ ३५ ॥ मूलम्-आगासे गंगसोओब, पडिसोओब दुत्तरो। चाहाहि सागरो चेव, तरिअबो गुणोदही ॥३६॥ ___ व्याख्या-आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तं । तथा प्रतिश्रोतोवत् , कोऽर्थः । यथा प्रतीपजलप्रवाहः शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवच दुस्तरो यः, स तरितव्यो गुणा ज्ञानाधास्त एवोदधिर्गुणोदधिः ॥ ३६ ॥ मूलम्-वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥३७॥ व्याख्या-'वालुआकवले चेयत्ति' चः पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निराखादो नीरसः विषयगृद्धानां वैरस्यहेतुत्वात् ॥ ३७॥ मूलम्-अहिवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअबा सुदुक्करं ! ॥ ३८॥ व्याख्या-अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे शाs. न्यत्र तु बुद्ध्योपलक्षितं चरित्रं, हेपुत्र ! दुष्करं । अयं भावा-यथा नागोनन्याक्षितया दृष्टयोपलक्षितं स्यात्तथाऽनन्यव्याक्षिसया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवहुष्करं चारित्रमिति भावः ॥ ३८॥ मूलम्-जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ॥३९॥ व्याख्या-'अग्गिसिहत्ति' सुबूव्यत्ययादमिशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूतों, सर्वत्र ॥ ३९ ॥ मूलम्-जहा दुःखं भरेउं जे, होइ वायस्स कुत्थलो। तहा दुक्करं करेउं जे, कीवेणं समणतणं ॥४०॥ व्याख्या-कोत्थल हह वस्त्रादिमयो ग्राह्यः, चर्मभयो हि सुखेनैव नियते इति, क्लीबेन निःसत्वेन ॥ ४०॥ मूलम्-जहा तुलाए तोलेउं, दुकरं मंदरो गिरी। तहा निहुअनीसंकं, दुक्करं समणतणं ॥ ११॥ __ व्याख्या-'निहुअनीसंकेति' निभृतं निश्चलं निश्शकं शरीरनिरपेक्षं यथा स्यात्तथा ॥४१॥ मूलम्-जहा भुआहिं तरिउं, दुक्करं रयणायरो। तहा अणुवसंतेणं, दुकरं दमसायरो ॥ ४२ ॥ व्याख्या-'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलखोपशमस्य प्राधान्यासमुद्रोपमा, पूर्वं तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ यतश्चैवं ततःमूलम्-भुज माणुस्सए भोए,पंचलक्खणए तुम।भुत्तभोगी तओ जाया!,पच्छा धम्मं चरिस्ससि ॥४३॥ व्याख्या-'पंचलक्षणएत्ति' पञ्चलक्षणकान् पञ्चखरूपान् , पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विशतिसूत्राथैः ॥ ४३ ॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराहमूलम्-सो वितम्मापिअरो ! एवमेअं जहाफुडं। इह लोए निप्पिवासस्स,नस्थि किंचि विदुक्करं ॥४४॥ व्याख्या--स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवन्द्यां तथैव, एतत् प्रव्रज्यादुष्करत्वं, यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस निःस्पृहस नास्ति किश्चिदतिकष्टमप्यनुष्ठानं, अपिः सम्भावने, दुष्करम् ॥ ४४ ॥ निःस्पृहताहेतुमाहमूलम्-सारीरमाणसाचेव,वेअणाओ अणंतसो।मए सोढाओ भीमाओ,असइंदुक्खभयाणि अ॥४५॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy