SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 259 उराराध्ययन मूलम् - साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे। मोहं गयस्स संतस्स, जाईसरणं समुप्पण्णं॥७॥ व्याख्या – 'अज्झवसाणंमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्त्तिनि, भोई केदं मया दृष्टमिति चिन्तात्मकं गतस्य सतः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ७ ॥ मूलम् — जाईसरणे समुप्पण्णे, मिआपुत्ते महिडिए । सरह पोराणिअं जाई, सामण्णं च पुराकडं ॥ ८ ॥ व्याख्या -- 'पोराणिअंति' पौराणिकीं प्राक्तनीं जातिं जन्मेति सूत्रचतुष्कार्थः ॥ ८ ॥ ततोऽसौ यचक्रे तदाहमूलम् - विसेएसु अरजंतो, रजंतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बत्री ॥९॥ व्याख्या- विषयेष्वरज्यन् रागमकुर्वन्, रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमत्रवीत् ॥९॥ यदब्रवीत्तद्दर्शयति- मूलम् — सुआणि मे पंच महवयाणि, नरएसु वुक्खं च तिरिक्खजोणिसु । निविण्णकामोम्हि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो ! ॥ १० ॥ व्याख्या - श्रुतानि प्राग्भवे इति शेषः, मे मया पंच महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च उपलक्षणत्वाद्देवमनुष्ययोश्च यद्दुःखं तदपि श्रुतं । ततः किमित्याह - निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो १ महार्णव इव महार्णवः संसारस्तस्मात्, यतश्चैवमतोऽनुजानीत मा, प्रत्रजिष्यामि सकलदुःखापनोदाय व्रतं महीष्यामि, 'अम्मोत्ति' मातुरामंत्रणम् ॥ १० ॥ अथ कदाचित्पितरौ भोगैर्निमंत्रयत इति तन्निषेधार्थमाह मूलम् — अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंध दुहावहा ! ॥११॥ व्याख्या- 'विसफलोवमत्ति' विपमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किञ्च - मूलम् - इमं सरीरं अणिचं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ॥१२॥ व्याख्या- 'असुइत्ति' अशुचि खभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाज्जीवस्यावस्थानं यस्मिंस्तत्तथा, 'इति' इदं दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोगास्तेषां भाजनम् ॥ १२ ॥ यतश्चैवमतः मूलम् -- असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअबे, फेणबुब्बुअसन्निभे ! ॥ १३ ॥ व्याख्या - अशाश्वते शरीरे रतिं नोपलभेऽहं पञ्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुडुदसन्निभे ॥ १३ ॥ मूलम् - माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणघत्थम्मि, खणं पिन रमामहं ! ॥ १४ ॥ व्याख्या - वाहीत्यादि याधयोऽगाधवाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणमस्ते ॥ १४ ॥ मूलम् -- जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ की संति जंतुणो ११५ व्याख्या - अहो ! इति संबोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः । १५ मूलम् — खित्तं वत्थं हिरण्णं च पुत्तदारं च बंधवे । चहत्ता ण इमं देहं गंतव्वमवसस्स मे ! ॥ १६ ॥ व्याख्या- 'वत्युंति' वास्तु गृहाट्टादि ॥ १६ ॥ मूलम् - जहा किंपाग फलाणं, परिणामो न सुंदरी । एवं भुचाण भोगाणं, परिणामो न सुंदरी ! ॥१७॥ ब्याख्या - [ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन खाशयं प्रकाशयन्नाह ॥ १७ ॥ मूलम् - अद्धाणं जो महंतं तु, अपाहिजो पवज्जई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए १८ व्याख्या – 'अपाहिज्जोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते खीकरोति ॥ १८ ॥ मूलम् - एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए १९ व्याख्या - [ स्पष्टा ] उक्तव्यतिरेकमाह ॥ १९ ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy