________________
258
दर्शनेभ्यो जिनशासनस्य विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः ॥ ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं चेतो विधेयमिति ॥ ५२ ॥ किञ्च
उतराध्ययन
मूलम् — अच्चंतनिआणखमा, सच्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥ ५३ ॥
व्याख्या - अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'इति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ॥ ५३ ॥ मतश्चैवमतः
मूलम् -- कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सवसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ॥५४॥
व्याख्या - कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं स्वं पर्यावासयेत् १ कथमात्मानं अहेत्वावासं कुर्यान्नैव कुर्यादित्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह- सर्वे सज्ञा द्रव्यतो द्रव्यस्वजनादनी भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तो विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजा निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं फलमुक्तमिति सूत्रत्रयार्थः ॥ ५४ ॥ इत्थमनुशास्त्र जिहे क्षत्रिययतिः, संजयोपि चिरं विहृत्य प्रातकेवलः सिद्ध इति ब्रवीमीति प्राग्वत् ॥
॥ अथ एकोनविंशमध्ययनम् ॥
Cop
॥ अर्हम् ॥ उक्तमष्टादशमध्ययनं, अथैकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगर्द्धित्याग उक्तः, स चाप्रतिकर्मतया प्रशस्यतरः स्यादितीहाऽप्रतिकर्मतोच्यते इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम् - सुग्गीवे नयरे रम्मे, काणणुजाणसोहिए । राया बलभद्दत्ति, मिआ तस्सग्गमाहिती ॥ १ ॥
व्याख्या - सुग्रीवे सुग्रीवाहे, काननानि बृहद्वृक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नाम्नी तस्याग्रमहिषी प्रधानपली ॥ १ ॥
मूलम् - तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए । अभ्मापिऊण दइए, जुवराया दमीसरे ॥ २ ॥
व्याख्या - तयोः पुत्रो बलश्रीरिति मातापितृकृतनाना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोर्दयितो वल्लभः, युवराजो, दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥ २ ॥
मूलम् - नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निचं मुहअमाणसो ॥३॥
व्याख्या - नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव १ दोगुन्दको देव इव, चःपूत । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः - " त्रयस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥ ३ ॥
मूलम् - मणिरयणकुट्टिमतले पासायालोअणे ठिओ । आलोएइ नयरस्स, चउक्कतिगचसरे ॥ ४ ॥
व्याख्या -- स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तखिनन्, प्रासादालोकने प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकंचत्वराणीति सूत्रचतुष्कार्थः ॥ ४॥ ततो यदभूत्तदाहमूलम्-- अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलडं गुणआगरं ॥ ५ ॥
व्याख्या - अथानन्तरं तत्र तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥ ५ ॥ मूलम् - तं देहइ मिआपुते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूयं दिट्ठपुत्रं भए पुरा ॥ ६ ॥
व्याख्या - तं मुनिं 'देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उचि' अनिमिषयैव, क मन्ये जाने रूपं दृष्टपूर्व, पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥ ६ ॥