________________
257
उतराध्ययन
कायेऽस्मिन् किं सुखं नृणाम् १ ॥ २२ ॥ किञ्च सत्यसामर्थ्ये, प्रतं युक्तं न वार्द्धके ॥ वार्द्धके क्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ॥ २३ ॥ प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः ॥ भोगान्सहाष्टभिः स्त्रीभि- भुंक्ष्व किं साम्प्रतं श्रतम् । ॥ २४ ॥ महाबलोऽब्रवीत्क्लेश-साध्यैर्बालिशसेवितैः ॥ दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः १ ॥ २५ ॥ किञ्च मोक्षप्रदं मर्त्य - जन्मभोगकृते कृती ॥ वराटिकाकृते रन-मित्र को हारयत्यहो ! ॥ २६ ॥ अम्बाऽवादीदिदं जात !, द्रव्यजातं क्रमागतम् ॥ खैरं विलस पुण्यद्रोः फलं शेतदुपस्थितम् । ॥ २७ ॥ अभ्यधाद्भूपभूर्मात - गश्रिचोराभिराजसात् ॥ क्षणाद्भषति यद्वित्तं, प्रलोभयसि तेन किम् १ ॥ २८ ॥ किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं तत्समतामभुवीत किम् १ ॥ २९ ॥ राज्ञी जगौ वह्निशिखा - पानवदुष्करं व्रतम् ॥ कुमार! सुकुमारस्त्वं, कथङ्कारं करिष्यसि १ ॥ ३० ॥ उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते १ ॥ नराणां कातराणी हि व्रतं भवति दुष्करम् ! ॥ ३१ ॥ पालयन्ति प्रतिज्ञां खां, वीराः प्राणव्ययेऽपि ये ॥ परलोकार्थिनां तेषां न हि तद्दुष्करं परम् ! ॥ ३२ ॥ विहाय मोहं तत्पूज्या, प्रताय विसृजन्तु माम् ॥ परोऽपि प्रेर्यते धर्म-चिकीः किं पुनरात्मजः १ ॥ ३३ ॥ तं तत्वविज्ञं वैराग्या-त्प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येतां कथंचित्पितरौ ततः ॥ ३४ ॥ सोऽथ मूर्द्धाभिषिक्तेना - ऽभिषिक्तस्तीर्थवारिभिः ॥ ज्योत्स्नासधर्मभिर्लिप्त - गात्रः श्रीचन्दनद्रवैः ॥ ३५ ॥ अदूष्ये देवदुष्ये द्वे, हलालोपमे दधत् ॥ आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ॥ ३६ ॥ विस्मेरपुण्डरीकाम - पुण्डरीकेण राजितः ॥ वेलत्कल्लोललोलाभ्यां, चामराभ्यां च वीजितः ॥ ३७ ॥ सहस्रेण नृणां वाह्या-मारूढः शिविकां शुभाम् ॥ चतुरङ्गबलाढ्येना - ऽनुयातो वलभूभुजा ॥ ३८ ॥ भेरीप्रभृतितूर्याणां नादैर्गर्जानुकारिभिः ॥ अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ॥ ३९ ॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः ॥ सोऽयं कृतार्थ इत्युचैः, स्तूयमानोऽखिलैर्जनैः ॥ ४० ॥ ददानो दानमर्थिभ्य- श्चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ॥ ४१ ॥ [ सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् ॥ गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥ ४२ ॥ प्रियः पुत्रोऽयमस्माकं विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य - भिक्षां वो दहे वयम् ! ॥ ४३ ॥ ओमित्युक्तेऽथ गुरुभि-रैशानीं दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा - न्विकारानिव भूपभूः ! ॥ ४४ ॥ छिन्नमुक्तावलिमुक्ता- कल्पान्यश्रूणि मुञ्चती ॥ गृहती तानलङ्कारां- स्तदेत्यूचे प्रभावती ॥ ४५ ॥ जात ! त्वं जातुचिन्माभू - धर्मकृत्ये प्रमद्वरः ॥ आराधयेर्गुरुवचः, सन्मंत्रमिव सर्वदा ! ॥ ४६ ॥ अथ नत्वा गुरून् राज्ञि राज्ञीयुक्ते ततो गते ॥ लोचं चकार भूपाल - नन्दनः पञ्चमुष्टिकम् ॥ ४७ ॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥
१ हलाला मृदू दधत् । इति 'घ' संज्ञकपुस्तके ॥ हयलाला अश्वफेनः ॥ २ श्वेतच्छत्रेण ॥ ३ स्वयं केशानुदखनत्, कुमारः पश्चमुष्टिभिः ॥ इति 'घ' पुस्तके पाठः ॥
दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैर्दीक्षितस्तीव्रं स वती पालयन्त्रतम् ॥ चतुर्द्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीवलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दीं विहृत्य सः ॥ मासिकानशनेनाभू-त्खर्लोके पञ्चमे सुरः ॥ ५० ॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्यूत्वाऽभूद्वाणिजामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ॥ ५१ ॥ सम्यग्दर्शन पूतात्मा, द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ॥ ५२ ॥ तत्र ग्रामयदा खामी, श्रीवीरः समवासरत् ॥ केकीवाच्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥ ५३ ॥ ततो नत्वा जिनं श्रुत्वा, धर्म स श्रेष्ठपुङ्गवः ॥ विरक्तो व्रतमादत्त, दत्तवित्तत्रजोऽर्थिषु ॥ ५४ ॥ तत्राऽपि स श्रेष्ठमुनिः सदन - पूर्वाणि पूर्वाखिलान्यधीत्य ॥ कर्मक्षयासादित केवलर्द्धि-भेंजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महाबलर्षिकथा || "अयं पञ्चमाङ्गभणितो महाबल इहोक्तो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति सप्तदशसूत्रार्थः ॥ ५१ ॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह
मूलम्
• कहं धीरे अहेऊहिं, उम्मत्तोव महिं चरे । एए विसेसमादाय, सूरा दढपरकमा ॥ ५२ ॥ व्याख्या - कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इष ग्रहगृहीत इव तत्वापलपनेनालजालभाषितया महीं भुवं चरेद्धमेन्नैव चरेदित्यर्थः । कुत इत्याह-यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या१ ज्ञात्वा - इति "घ" पुस्तके ॥