________________
256
उत्तराध्ययन
पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धानीत्युक्तं जडैरपि ! ॥ २२२ ॥ हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी- दुर्निमित्तमभून्न किम् ? ॥ २२३ ॥ प्रभुः पिता मे यदि वा, यथाकामं प्रवर्त्तताम् ॥ न तुदायनसूनोर्मे, युज्यते केशिसेवनम् ! ॥ २२४ ॥ इति दुःखाभिभूतोऽसौ निर्गत्य स्वराहुतम् ॥ चम्पायां कूणिकं मातृ - वसुः पुत्रमुपागमत् ॥ २२५ ॥ तत्रापि विपुलां लक्ष्मीं, प्रापोदायननन्दनः ॥ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥ २२६ ॥ श्राद्धधर्म च सुचिरं यथावत्पर्यपालयत् ॥ न्यक्कारं तं खरंखाते, वैरं तत्तु जहाँ न सः ! ॥ २२७ ॥ प्रपाल्याग्दानि भूयांसि श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या - ऽनशनं पाक्षिकं व्यधात् ॥ २२८ ॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः ॥ ततश्युतस्त्वेष महाविदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ॥ २२९ ॥ इति श्रीउदायनराजर्षिकथा ॥ ४८ ॥
मूलम् — तहेव कासीराया, सेओसञ्चपरकमे । कामभोगे परिञ्चज, पहणे कम्ममहावणं ॥ ४९ ॥ व्याख्या - तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्यं यस्यासौ श्रेयः सत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान्, कर्मैव महावनमिवातिगहनतया कर्ममहावनम् ॥ ४९ ॥
मूलम् - तव विजयो राया, आणहाकित्ति पवए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ५० ॥
व्याख्या - तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्त्तिरश्लाघा यस्य सः आनष्टाकीर्त्तिः, प्राकृतत्वात्सिलोपः 'पवएत्ति' प्रात्राजीत्, राज्यं गुणैः समृद्धं सम्पन्नं गुणसमृद्धं, प्राच्य' तु' शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्तौ काशिराजो नंदनाह्नः सप्तमबलदेवो विजयश्च द्वितीबलदेव इति व्याख्यातमस्ति, तत एतौ तावन्यौ वा यथागमं वाच्यौ, निर्णयाभावाचात्र नानयोः कथा लिखितेति ५० मूलम् — तहेवुग्गं तवं किच्चा, अवक्खित्तेण चेअसा । महब्बलो रायरिसी, आदाय सिरसा सिरीं ॥५१॥
व्याख्या— तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिर:प्रदानेनेत्र जीवितनिरपेक्षमित्यर्थः श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम्
अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे ॥ बलो नामाऽतुलवलो, वसुधाखण्डलोऽभवत् ॥ १ ॥ दीप्रप्रभावती तस्य, जज्ञे राज्ञी प्रभावती ॥ अन्यदा तु सुखं सुप्ता, सिंहं खप्ने ददर्श सा ॥२॥ तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः ॥ प्रोचे भावी तव सुतो - स्मत्कुलाम्भोधिचन्द्रमाः ॥ ३ ॥ तन्निशम्य सुदं प्राप्ता, दधौ गर्भ प्रभावती ॥ काले च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥ ४ ॥ प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् ॥ महाबल इति क्ष्मापः, प्रमोदाद्वैतमाश्रितः ॥ ५ ॥ लाल्यमानोऽथ धात्रीभिर्वर्द्धमानः क्रमेण सः ॥ कलाकलायमापन्नः, पुण्यं तारुण्यमासदत् ॥ ६ ॥ अष्टौ राजाङ्गजाः श्रेष्टा, दिशां श्रिय इवाऽऽहृताः ॥ एकेनाहा पितृभ्यां स पर्यणायि महामहैः ॥ ७ ॥ वधूवराणां तेषां च यौतकं तद्ददौ नृपः ॥ वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥ ८ ॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं, सोऽमुक्त सततं ततः ॥ ९ ॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाईतः ॥ आचार्यो धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥ १० ॥ तं च श्रुत्वाऽऽगतं तुष्ट - मनाः श्रीमान्महाबलः ॥ गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥ ११ ॥ ततोऽवासः स वैराग्यं मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्रं, प्रणम्येति व्यजिज्ञपत् ॥ १२ ॥ धर्मोऽसौ रोचते महां, जीवातुरिव रोगिणे ॥ तत्पृष्ट्वा पितरौ याव - दायामि व्रतहेतवे ॥ १३ ॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेतत्प्रतिबन्धं तु मा कृथाः ! ॥ १४ ॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत । धर्मघोषगुरोर्धर्म, श्रुत्वाऽषापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया दीक्षा - मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मनस्तिष्ठति कोऽम्बुधौ १ ॥ १६ ॥ मूच्छिता न्यपतत्पृय, तच्च श्रुत्वा प्रभावती ॥ कथंचिलब्धसंज्ञा तु, रुदतीति जगाद तम् ॥ १७ ॥ विश्लेषं नेश्महे सोढुं,
! प्राणप्रियस्यते ॥ तद्यावत्स्मो वयं ताव - तिष्ठ पश्चात्परित्रजेः ॥ १८ ॥ कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसन्निभाः ॥ नृणामायुश्व वातास्त - कुशाग्रजलचञ्चलम् ॥ १९ ॥ तन्न जानामि कः पूर्व, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रत्रज्याग्रहणाय माम् ॥ २० ॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि गृह्णीया वार्द्धके व्रतम् ॥ २१ ॥ कुमारः स्माह रोगाच्ये ऽशुचिपूर्णे मलाविले || कारागार इवाऽसारे,