________________
उत्तराध्ययन
255 कृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् १ ॥ १७९ ॥ ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् १ ॥ सरसा रसपत्याऽऽगा-नित्यं हि समये खयम् ॥ १८॥ सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः ॥ उपोपितोऽस्ति नः खामी, पृच्छामि तदिदं तव ॥ १८१ ॥ अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया ॥ तन्ममाप्युपवासोऽध, पितरी श्रावको हि मे ! ॥ १८२ ॥ तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः ॥राजाऽप्युवाच श्राद्धोऽसौ, यादृशो मि तादृशम् ॥ १८३ ॥ मायाश्राद्धेऽपि किन्त्वस्मिन् , बद्धे पर्युषणा मम ॥न शुख्यतीति प्रद्योत-मुदायननृपोऽमुचत् ॥ १८४ ॥ क्षमास्थाम्रोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः ॥ पट्टबन्धं च मालाई, तस्याऽऽच्छादयितुं ददौ॥ १८५॥ तदादिपट्टवन्धोऽपि, श्रीचिहं भूभुजामभूत् ॥ मौलिमेव हि ते मौली, पुरातु दधिरेऽखिलाः॥१८६ ॥ तस्मै देश च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ ॥ अतीतासु च वर्षासु, पुरं वीतभयं ययौ ॥ १८७ ॥ वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् ॥ पुरं दशपुराहत-तैरेव च ततोऽभवत् ॥१८८॥अन्यदोदायननृपः,पौषधौकसि पौषधी॥धर्मजागरिका जाग्र-द्रजन्यामित्यचिन्तयत् ॥ १८९॥ धन्यास्ते नगरपामा-करद्रोणमुखादयः॥ पवित्रयति यान् श्रीमान् , वर्द्धमानो जगद्गुरुः ! ॥ १९० ॥ श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये ॥ दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः! ॥ १९१ ॥ तचेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः ॥ तदा तदन्तिके दीक्षा-मादाय स्वामहं कृती! ॥ १९२ ॥ तच तचिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोधाने, समवासरदन्यदा ॥ १९३ ॥ श्रुत्वाऽथ नाथमायात-मुदायननृपो मुदा ॥ गत्वा नत्या देशनां च, निशम्येति व्यजिज्ञपत् ॥ १९४ ॥ राज्यमङ्गजसात्कृत्वा, प्रताये युष्मदन्तिके ॥ यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ॥ १९५॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः ॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ १९६ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् ॥ तदाऽसौ मूञ्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥ १९७ ॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्से विषफलोपमम् ! ॥ १९८ ॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः॥ जिनोपान्ते प्रवनाज, केशिराजकृतोत्सवः ॥ १९९ ॥ तपोभिरुपवासाद्यै-मासान्तैरतिदुष्करैः ॥ शोषयन्कर्म कायं च, राजर्षिर्विजहार सः ॥२०० ॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा ॥ भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥२०१॥ उदायनमुनिप्रष्ठो, गोप्ठेषु व्यहरत्ततः ॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥ २०२ ॥ पुरे वीतमयेऽन्येधुरुदायनमुनिर्ययौ ॥ केशिभूपसदामात्यै-रित्यूचेऽहेतुवैरिभिः ॥२०३॥ परिषहैर्जितो नूनं, मातुलस्तव भूपते ! ॥राज्यलिप्सुरिहायासी-ततो मा तस्य विश्वसीः !॥ २०४ ॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मम ॥धनेशे गृहति द्रव्य, वणिक्पुत्रस्य किं रुषा १ ॥२०५॥ अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्रसप रखते राज्यं, राजन्यैर्जनकादपि ! ॥ २०६ ॥ प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ? ॥२०७ ॥ दुष्टास्ते प्रोचुरेतस्मै, विपं दापय केनचित् ॥ व्युद्धाहितस्तैस्तदपि, प्रतिपेदे स मन्दधीः ! ॥२०८ ॥ ततः कयाचिदाभीर्या, स भूपः सविष दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ॥२०९ ॥ विपमिश्रदधिप्रासि-स्तव तन्मा ग्रहीततः ॥ इत्यूचे च मुनि देवी, ततः सोऽपि तदत्यजत् ! ॥ २१० ।। विना दधि व्याधिवृद्धी, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-जहार व्याजहार च ॥ २११ ॥ तृतीयवारमप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतच सा! ॥ २१२ ॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा ! ॥ २१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥ २१४ ॥ त्रिंशहिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥ २१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुने रन्त-मन्तः कोपं दधौ भृशम् ! ॥२१६ ॥ साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थल विपुलमुच्चकैः ! ॥ २१७ ॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग, निन्ये हत्या ततः पुरात् ॥२१८ ॥ तख नामा कुम्भकार-कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेने गोचरः १ ॥२१९॥
इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥ २२०॥ प्रभाव तीकुक्षिमवे, सनये भक्तिमत्यपि ॥ सुते मयि सति मापो, राज्यं यत्केशिने ददौ ॥ २२१ ॥ न हि चक्रे विवेकाई,