________________
254 उत्चराध्ययन कायुक्तपूरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागसवमूचिरे ॥ १३७ ॥ इहाऽऽरूढोऽनलगिरि, प्रथोतो नूनमापयौ ॥ श्रूयते न हि गन्धेम-स्तं विनाऽन्यस्य कस्यचित् ॥ १३८ ॥ जाजुलीश्रवणानागा, इय नागा समेऽप्यमी ॥ तद्वन्धान्मदमत्याधु-मक्षु क्षोणीदिवस्पते ! ॥ १३९ ॥ "ततच"-स राजाऽऽगात्कुतोऽत्रेति , भ्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कक्षुकी ॥ १४० ॥ भूपस्ततोऽवदन्नून-मुपेत्य स नृपः खयम् ॥ तो घेटीमहरत्तर्हि, किं तया गतयाऽपि मे! ॥ १४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा १॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ॥ १४२ ॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्धाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥ १४३ ॥ पूजाकालेऽथ भूपालः, खयं चैत्यालयं गतः ॥ वीक्ष्याऽर्थी म्लानपुष्पां तां, विषण्णो ध्यातवानिति । ॥ १४४ ॥हता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेमिरे तस्या, पुष्पाणि न हि कर्हि चित् ! ॥ १४५ ॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमागतोऽवन्ती-मवन्तीपतिमित्यवक् ॥ १४६ ॥ खवीर्यवह्निविध्वस्त-वैरिवर्गतृणवजः॥श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेयुक्त-मेबादचेष्टितं तव ! ॥१४८॥ तत्र दासाऽनया कार्य, कार्याकार्यविदो न मे ॥ खमूर्तेः कुशलं कांक्ष-मूति तु प्रेषयेद्धतम् ॥ १४९ ॥ तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ॥ १५० ॥ तन्निशम्यावदचण्डप्रद्योतचण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदनेऽपीत्थमात्थ यत् ! ॥ १५१॥ अर्थाचेट्यौ रत्नभूते, हरतः का प्रपा मम ? ॥ कार्य यथा तथा रत्न-मात्मसादिति न श्रुतम् ॥ १५२॥ न दास्ये प्रतिमां चेमां, न हि दातुः मिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुःप्रतिमा स तु ! ॥१५३ ॥ तन्माऽऽयासीवृथायासी, जेता मां नागतोऽपि सः॥ दन्ताबैलो बलिष्ठोऽपि, नाचलं चलयत्यहो!॥ १५४॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेदयत् ॥ तन्निशम्य नृपोप्युथैर्यात्रा कमवीवदत् ॥ १५५ ॥ ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥ १५६ ॥ सैन्यैर्भुवं तदूत, रजोभिश्च दिशोऽखिलाः॥छादयन्मरुदेशो/-मम्बुदुःस्था क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम्॥आसन्नमृत्युवदभू-नष्टवाग्मीलितेक्षणम् ॥१५॥ ततःप्रभावतीदेव-मुदायननृपोऽस्मरत्॥आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम्॥१५९॥ पुष्कलैः पुष्करावतेंपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणिस निर्जरः॥१६०॥शीतलं सलिलं तेषु, पीत्वा खस्थमभूबलम् ।। विनाऽन्नं जीव्यते जातु, न पुनर्जीवनं विना ॥१६१॥ सुरोऽय भूपमापृछय, जगाम निजधाम सः॥क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥ १६२ ॥ दूतेनाचीकथचैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमा. वयोः! ॥१६३॥रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा धक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥
१ निर्लजः ॥ २ मरणतां गमिष्यतीत्यर्थः ॥ ३ वृथाप्रयासी ॥ ४ गजः॥ ५ यात्रापटहम् ॥ रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच्च दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ॥ १६५ ॥ रथिना न मया जय्यो, राजायमिति चिन्तयन् ॥ सजितेनानलगिरि-द्विपेनागादवन्तिराट् ॥ १६६ ॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते 1॥१६७॥ इत्युदीर्य नृपो धीमा-मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥ १६८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥ १६९ ॥.विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपाअपात्य बवा च, जग्राहोदायनो बली ॥ १७ ॥ अङ्गं तस्सालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामों ता-मानेतुमगमन्मुदा ॥ १७१ ॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्यागीरिति चाभवत् ॥ १७२ ॥ पांशुवृश्या स्थलं मावि, स्थाने वीतभयस्य यत् ॥ तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥ १७३ ॥ न्यवर्त्तताशु तच्छुत्वा, खदेशं प्रति भूपतिः॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥ १७४ ॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधावृपः ॥ धूलिवप्रान्विधाप्यास्यु-स्तद्रक्षायै नृपा दश ॥ १७५ ॥ तत्र च न्यवसनेके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ॥ १७६ ॥ प्रद्योतं चात्मवद्भपो-ऽचिन्तपदोजनादिना ॥ प्राप्से पर्युषणापर्व-ण्युपवासं चकार च ॥ १७७॥ किमद्य मोक्ष्यसे राज-निति सूदो नृपाज्ञया । तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ॥ १७८॥ नूनं विपादिदानान्मा- मद्यासौ मारयिष्यति ॥ नोचेद