________________
253
उत्तराध्ययन
1
"
जानासि त्वं तदपि किं, स्वामिन् ! खार्थ निहंसि मे १ ॥ ९६ ॥ राजा जगाद देवत्वं प्राप्ता त्वं धर्ममाईतम् ॥ शेषयसि सम्यग्मा - मनुमन्ये तदा सदः । ॥ ९७ ॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ | आराद्धश्राद्धधर्माणां फलं प्रासङ्गिकं यदः ! ॥ ९८ ॥ कुना दासी देवदत्ता, तां जिनाच ततोऽभजत् ॥ खप्नादिना नृदेवं सं, देवदेवोऽप्यबुधत् ॥ ९९ ॥ जहाँ तापसभक्तत्वं, न तथाऽपि स पार्थिवः । दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥ १०० ॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्ये धुरसृत - फलानि सफलोद्यमः ॥ १०१ ॥ सन्तीशनि भगवन्, 1 फलानि केति भूपतिः १ ॥ जातानन्दस्तदाखादा- तं पप्रच्छ तपोधनम् ॥ १०२ ॥ सोऽवादीनगरान्नाति - दूरस्थेऽस्माकमाश्रमे ॥ दुर्लभानि विशां सन्ति, फलानीमानि भूषिभो ! ॥ १०३ ॥ ततोऽमूनि मनोहत्या -ऽऽखादयामीति चिन्तयन् ॥ विस्रग्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥ १०४ ॥ तं मायातापसास्तत्र, इन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना मुधा कुधा ॥ १०५ ॥ ततो दुष्टा अमी नाहः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावन्ध-स्तेभ्यो नश्यन् भयाकुलः ॥ १०६ ॥ स नृपः शरणीचक्रे, वीक्ष्य कापि बने मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः पूज्या ! मामीत्युदीरयन् ॥ १०७ ॥ [ युग्मम् ] मा भैषीरथ भूप ! त्व- मित्यूचुमुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ॥ १०८ ॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥ वाक्यैः वैअपपीयूष - जैनं धर्ममुपादिशन् ॥ १०९ ॥ प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे ॥ प्रगेऽब्दगर्जिबन्मोघो, नोपायः खलु नाकिनाम् ! ॥ ११० ॥ प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः ॥ खर्जगाम ततो भूमा-नाss - स्थानस्थं समैक्षत ॥ १११ ॥ एवं श्रावकतां प्राप्तः स महीधवपुङ्गवः ॥ अर्थाभिर्विविधाभिस्ता-मघमार्च यदन्वहम् ॥ ११२ ॥ इतश्च व्रतमादित्सु - गन्धारः श्रावकः कृती ॥ अवन्दत मुदा सर्वाः, सर्वकल्याणकावनीः ॥ ११३ ॥ पैताढ्ये शाश्वतीरचः सोऽथ श्राद्धो विवन्दिपुः ॥ आरराधोपवासस्थः, सम्यक्शाशनदेवताम् ॥ ११४ ॥ तुष्टा देवी ततस्तस्मै, तानि विम्बान्यदर्शयत् ॥ ददौ च सकलाभीष्ट - विधायि गुटिकाशतम् ॥ ११५ ॥ ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा ॥ तामर्था चान्दनीं नन्तु - मागाद्वीतभयं पुरम् ॥ ११६ ॥ तत्र तं श्रावकं जात- मान्द्यं दैवनि. योगतः ॥ खतातमिव सद्भक्त्या, कुजा प्रतिचचार सा ॥ ११७ ॥ ततः क्रमागतः स्वास्थ्यं स कृतज्ञशिरोमणिः ॥ तस्यैता गुलिकाः सर्वा, दत्वा दीक्षाभुपाददे ॥ ११८ ॥ भूयासमनया स्वर्ण - वर्णाऽहं सुन्दराकृतिः ॥ ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ॥ ११९ ॥ आर्यसीव कुशी सिद्ध-रसवेधेन सा द्रुतम् ॥ बभूव तत्प्रभावेण, चारुचामीकरच्छविः ॥ १२० ॥ सुवर्णगुलिकेत्याह्नां प्राप्ता सा व्यमृशत्ततः ॥ भोक्तारमन्तरा फेल्गु, रूपं मे वनपुष्पवत् ॥ १२१ ॥ न चाहं कामये जातु, तातकल्पममुं नृपम् ॥ तत्प्रद्योतोऽस्तु मे भर्त्ता, नृपः स हि महर्द्धिकः ॥ १२२ ॥
१ कर्णामृतैः ॥ २ जिनकल्याणकभूमीः ॥ ३ दासी ॥ ४ लोहमयी इव ॥ ५ निकृष्टं असारमित्यर्थः ॥
एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ॥ तत्स्वरूपं ततो गत्वा प्रद्योताय जगौ सुरी ॥ १२३ ॥ तामानेतुं ततो दूतं प्रैषीत्प्रद्योत भूधवः ॥ सुवर्णगुलिका तं च व्याजहारेति मानिनी ॥ १२४ ॥ मामाद्धातुमिहायातु, स राट्र पश्यामि तं यथा ॥ अदृष्टपूर्वमभ्येति कामिनं न हि कामिनी ! ॥ १२५ ॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुयानलगिरिं तत्र रात्रावुपागमत् ॥ १२६ ॥ तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि त्वया सह महीपते ! ॥ १२७ ॥ इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः ॥ तामानयामि त्वचेतो मानयामि मनखिनि ! ॥ १२८ ॥ इत्युदीर्य ततोऽवन्ती - मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर - प्रतिमां व व्यधापयत् ॥ १२९ ॥ [ युग्मम् ] ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ॥ १३० ॥ दन्तिनं तं वहिर्मुक्त्वा, तासमुद्वहन्मुदा ॥ अपाकृत्य भियं तत्रा - ऽविशत्का कामिन हि भीः १ ॥ १३१ ॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां दासीं देवदत्ताहां, हत्वा स खपुरीमगात ॥ १३२ ॥ तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् ॥ तद्गन्धेन च तत्रत्या, गजाः सर्वे मदं जहुः ॥ १३३ ॥ गन्धः स च यतोऽभ्यागात्तां दिशं ते मुहुर्मुहुः ॥ उत्तब्धगुण्डा व्यात्तास्याः, स्तब्धकर्णा व्यलोकयन् ॥ १३४ ॥ अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे ॥ अतिमात्रं महामात्राः, सम्भ्रान्तखान्ततां दधुः ॥ १३५ ॥ विमदास्ते द्विपा सर्वे - saन्तिमार्गदिशं विभो ! ॥ मुडुर्विलोकयन्तीति तेऽथ राज्ञे व्यजिज्ञपन् ॥ १३६ ॥ भूसुत्रामा ततस्तत्र, न्यर्यु