________________
252
उतराध्ययन
of भोगकाम्यया ॥ विरक्तः प्रात्रजमहं, ततः प्रापमिमां रमाम् ॥ ५४ ॥ निषिद्धोऽपि मया बाल-मृत्युना मृतोऽसि यत् ॥ प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ॥ ५५ ॥ अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः ॥ महूसदा त्वमप्येवं, स्वर्लक्ष्मीमवरिष्यथाः ॥ ५६ ॥ प्रबुद्धः स ततोऽवादी- त्किं गतस्यानुशोचनैः १ ॥ अथ किञ्चित्तदायाहि, येनाऽमुत्र शुभं लभे ॥ ५७ ॥ ऊचे श्राद्धसुरो वीर - जिनस्य प्रतिमां कुरु ॥ सुलभं बोधिरनं स्याद्यथा तव भषान्तरे ॥ ५८ ॥ दौःस्थ्यदुर्गतिदुःखादि, नाऽर्हदर्याकृतां भवेत् ॥ धर्मश्व जायते स्वर्गापवर्गसुखदायकः 1 ॥ ५९ ॥ ततः क्षत्रियकुण्डाख्य-प्रामे गत्वा स निर्जरः ॥ सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ॥ ६० ॥ गार्हस्थ्येऽपि कृतोत्सर्ग, भावसाधुत्वसाधनात् ॥ श्रीवर्द्धमानतीर्थेशं ददर्श प्रणनाम च । ॥ ६१ ॥ [ युग्मम् ] द्राग् महाहिमवत्यौ, ततो गत्वा स दैवतः ॥ गोशीर्षचन्दनं विश्वा - नन्दनामोदमाददे ॥ ६२ ॥ प्रतिरूपं प्रभोस्तत्र यथादृष्टं विधाय सः ॥ सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् ॥ ६३ ॥ षण्मासीं यावदुत्पाता - दब्धो भ्राम्यदितस्ततः ॥ सोऽय मोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकत्रजम् ॥ ६४ ॥ ततो हत्वा तदुत्पातं, प्रत्यक्षीभूय स स्वयम् ॥ सांयात्रिकेभ्यो दत्वा त-हारुसम्पुटमित्यवक् ॥ ६५ ॥ इह देवाधिदेवस, मूर्त्तिर्न्यस्तास्ति चान्दनी ॥ तदादाय सदाह्नानं, भेदनीयमिदं मुदा ॥ ६६ ॥ युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः ॥ कार्य पाण्मासिकोत्पात - हर्तुः कार्यमियन्मम ॥ ६७ ॥ सन्मुदा प्रतिपन्नेषु तेषु देवस्तिरोदधे ॥ पारीवारस्य पारं च, वणिजस्तेऽपि लेभिरे ॥ ६८ ॥ पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुटम् ॥ राज्ञस्तापसभक्तस्यो - दायनस्योपनिन्यिरे ॥ ६९ ॥ तां च गीर्वाणवाणीं ते, विज्ञा राज्ञे व्यजिज्ञपन् ॥ श्रुत्वा तद्बहवो विप्र-सरैजस्कादयोऽमिलन् ॥ ७० ॥ तेष्वेकेऽवादिषुर्वेद - वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ॥ ७१ ॥ इत्युक्त्वाऽऽख्याय तस्याख्यां तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ॥ ७२ ॥ अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे || हन्ति दैत्यांश्च विश्वारीन्, सहि विष्णुः सुरोत्तमः ७३ ॥ इत्यादाय तदाह्नानं, परशुर्वाहितोऽपि तैः ॥ जगाम मोघतामोघे, शैवैलिन्या इवानलः ॥७४॥ प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विश्वयोनिरयोनिजः ॥७५॥ अभिधामभिधायेति, तस्य तैः पर्शुणा हतम् ॥ तन्नाभिद्यत पारीन्द्र- पुच्छेनेव गिरेस्तटम् ॥ ७६ ॥ ततस्तेषु विहस्तेषु, विमृशत्सु भृशं मिथः ॥ तदाकर्ण्याययौ तत्र, महादेवी प्रभावती ॥ ७७ ॥ विधाय विधिवत्पूजां तस्य काष्ठपुटस्य सा ॥ उज्ज गार सुधोद्वारो-पम रम्यामिमां गिरम् ॥ ७८ ॥ गतरागद्वेषमोहः, प्रातिहार्यैर्युतोऽष्टभिः ॥ देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ॥ ७९ ॥ इत्युदीर्य तथा स्पृष्ट- मात्रमप्याशु पर्शुना ॥ तहारु व्यकसद्भानु-- भानुना नलिनं यथा ॥ ॥ ८० ॥ अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः ॥ मूर्त्तिराविरभूद्वीर - विभोर्लक्ष्मीरिवार्णवात् ॥ ८१ ॥ तां प्रेक्ष्य वचना
१ समुद्रस्य || २ योगी ॥ ३ शैवलिन्या ओघे नद्याः प्रवाहे ॥ ४ व्याकुलेषु ||
सीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्ववैः ॥ ८२ ॥ जज्ञे प्रभावना जैन - शाशनस्य• ततो भृशम् ॥ आनुकूल्यं दधौ किञ्चि नृपोऽपि जिनशासने ॥ ८३ ॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ तत्र न्यवीविशत्सार्व - प्रतिमां तां महामहैः ॥ ८४ ॥ त्रिसन्ध्यं पूजयामास विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां नृपो वीणामवादयत् ॥ ८५ ॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा । ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥ ८६ ॥ किं मया दुष्टु नृत्तं १ य - द्वीणावादनमत्यजः ॥ सकोपमिति राज्ञ्याऽथ, पृष्टो मौनं दधौ नृपः ॥ ८७ ॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्वा, महादेवीत्युवाच सा ॥ ८८ ॥ सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः ! ॥ तन्निमित्तादितोऽल्पायुः - सूचकात्किमु खिद्यसे १ ॥ ८९ ॥ तयाऽय नाता देहि, वासांसीत्युदिताऽन्यदा । आनिन्ये तानि रक्तानि काचिबेटी ससम्भ्रमा ॥ ९० ॥ जिनं पूजयितुं चैत्यं प्रविशन्त्या ममाऽधुना ॥ ददासि दासि ! वासांसि किं रक्तानीति वादिनी ॥ ९१ ॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्न, सा भुजिष्या व्यपद्यत ॥ ९२ ॥ [ युग्मम् ] सानुतापा ततो राज्ञी, दध्यौ धिक् किं कृतं मया ॥ खंडितं हि मतं घाता - दस्या दास्या निरागसः ! ॥ ९३ ॥ विधायानशनं तस्मादेनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् १ ॥ ९४ ॥ विमृश्येति खमाकूतं राज्ञी राजे व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं नेदं त्वद्वशजीवितः ॥ ९५ ॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥