________________
251
म्यन्तरो विद्युन्मालिनामा महर्द्धिकः ॥ ११ ॥ स च हासाप्रहासाभ्या, खदेषीभ्या युतोऽन्यदा । प्रजन् शक्राज्ञया मन्दी - वरे प्राच्योष्ट वर्त्मनि ॥ १२ ॥ ततश्विन्तातुरे तस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कश्चिद्यो नौ पतिर्भवेत् ॥ १३ ॥ इति ताभ्यां भ्रमन्तीभ्यां चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥ १४ ॥ ततो योग्योऽयमस्माकं नूनमित्यवधार्य ते ॥ तस्यादर्शयतां दिव्यं स्वरूपं विश्वकार्मणम् ॥ १५ ॥ मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् १ ॥ सविलासं विलासिन्यौ, ततस्ते इत्यवोचताम् ॥ १६ ॥ आव हासाप्रहासा, देव्यौ विद्धि महर्द्धिके ॥ चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यं द्वीपमापतेः ॥ १७ ॥ उक्त्वेति विद्युखाव - द्राक् तिरोहितयोस्तयोः ॥ दिशं तामेव स प्रेक्षा- मास शून्यमनाश्विरम् ॥ १८ ॥ दध्यौ च योपितामासां, पञ्चशत्याऽपि किं मम ॥ विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ॥ १९ ॥ तद्रूपं वीक्ष्य रलाभ - मासु काचमणीविव ॥ को नाम रमते तस्मात्तदर्थं प्रयते द्रुतम् ॥ २० ॥ ध्यात्वेति गत्वा भूपाल - कुले दत्वा धनं धनम् ॥ डिण्डिमं बादयन्नुच्चैः, पूर्यामेवमघोषयत् ॥ २१ ॥ कुमारनन्दिनं पञ्च - शैले नयति यो द्रुतम् ॥ तस्मै नाविकवर्याय, द्रव्यकोटिं ददाति सः ॥ २२ ॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनिःस्पृहः ॥ विधाप्य पोतं पाथेय - पाथोमुख्यैरपूरयत् ॥ २३ ॥ निजानामङ्गजानां च वित्तकोटिं वितीर्य ताम् ॥ कुमारनन्दिना साक-मारोहद्वहनं स तत् ॥ २४ ॥ दिनैः कियद्भिस्तस्मिंश्च पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि किं किञ्चि-दित्यूचे नन्दिनं जरी ॥ २५ ॥ श्यामं किमपि श्यामी - त्युक्ते तेन जगौ जरन् ॥ चटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः ॥ २६ ॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः ॥ ततस्तूर्ण त्वमुत्प्लुत्या - मूढोऽस्मिन्विलगेस्तरौ ॥ २७ ॥ वसन्ति वसैतावस्मिन् गिरौ भारण्डप - क्षिणः ॥ ते च प्रातः पञ्चशैलं व्रजन्ति चुणिहेतवे ॥ २८ ॥ अंहयः स्युस्त्रयस्तेषां ततस्त्वं मध्यमे क्रमे ॥ पटेन स्वं निबभीयाः, तस्य सुप्तस्य कस्यचित् ॥ २९ ॥ ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु प्रवैया, प्रहीतुं न हि तं वटम् ॥ ३० ॥ वटात्पुरो महावर्त्ते, पोतस्त्वेष पतिष्यति ॥ तत्रैव च मया सार्द्ध, विनाशमुपयास्यति ! ॥ ३१ ॥ अथ त्वमपि चेद्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त्त, गते पोते मरिष्यसि ! ॥ ३२ ॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ ॥ विलग्नः सोऽपि तत्र द्राक्, पञ्चशैलमगात्ततः ॥ ३३ ॥ तं चायातं भोक्तुमुकं, ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं न नौ भोगाय कल्पसे ! ॥ ३४ ॥ कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः ॥ सोढदाहादिकष्टं च, स्वर्णमप्यभुते मणीन् ! ॥ ३५ ॥ तद्गत्वा स्वगृहं दत्वा, दीनादीनां निजं धनम् ॥ कृत्वा बहिप्रवेशादि - कष्टं त्वमपि सत्वरम् ॥ ३६ ॥ द्वीपस्यास्य श्रियामासा - मावयोश्च पतिर्भव ॥ भूरिलाभाय दक्षैर्हि, किञ्चिकष्टमपीष्यते ! ॥ ३७ ॥ [ युग्मम् ] अथ तत्र कथं यामी त्युक्ते रक्तेन तेन ते । चम्पापुर्या निन्यतुस्तं कलादं विकलं स्मरात् ! ॥ ३८ ॥ कथमागाः किञ्च चित्रं १, तत्रेत्युक्तोऽथ नागरैः ॥ हा ! क हासाप्रहासे ते, इत्येव स्माह
"
उत्तराध्ययन
१ रात्रौ ॥ २ चरितुम् ॥ ३ वृद्धः ॥
सोऽसकृत् ॥ ३९ ॥ इङ्गिनीमृत्युना मर्नु-मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥ ४० ॥ भो ! मित्राऽमात्रधीपात्र !, नैतत्कापुरुषोचितम् ॥ युज्यते भवतः कर्त्तुं सिंहस्येव तृणाशनम् ॥ ४१ ॥ किञ्चातितुच्छभोगार्थ, दुर्लभं मानुषं भवम् ॥ मा हार्षीर्युसदां रन - मिव काचकृते कृतिन् ! ॥ ४२ ॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि ॥ धर्ममेवाचराभीष्ट - दायिनं सुरशाखिवत् ॥ ४३ ॥ मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य सः ॥ आपादादाशिरोदेह - माच्छाद्य छागगोमयैः ॥ ४४ ॥ चिरं दारुवदङ्घ्रिभ्यां, प्रदत्तेनाग्निना ज्वलन् ॥ देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥ ४५ ॥ [ युग्मम् ] तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ॥ अहो ! विमूढा भोगार्थ, क्लिश्यन्त इति चिन्तयन् ॥ ४६ ॥ प्रत्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते ॥ ददर्शा - नातंच, वयस्यं पूर्वजन्मनः ॥ ४७ ॥ [ युग्मम् ] उपस्थितेऽन्यदा नन्दी - वरयात्रामहोत्सवे ॥ नश्यतोऽपि गले विद्यु- न्मालिनः पटहोऽपतत् ॥ ४८ ॥ अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे १ ॥ इति हासाग्रहासाभ्यां प्रोचे स व्यन्तरस्तदा ॥ ४९ ॥ ततस्तं वादयन् शक्र - पुरो नन्दीश्वरे गतः ॥ तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ॥ ५० ॥ ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ॥ तत्तेजोऽसहमानोऽसौ पलायत तथा तथा ॥ ५१ ॥ खतेजः सोऽथ संहत्य, मां जानासीति तं जगौ ॥ सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् १ ॥ ५२ ॥ ततः प्राग्भवरूपं स्वं, प्रदश्यैत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥ ५३ ॥ मृतं कुमृत्युना प्रेक्ष्य, तदा