________________
248
उचराध्ययन
लंबे न तु मर्यादां, स गम्भीरोऽम्बुराशिषत् ॥ ४ ॥ [ इतश्च ] वराटविषये धान्य- पुरे धान्यमरैर्भुते ॥ महसरः श्रिवा कोsपि महत्तरसुतोऽभवत् ॥ ५ ॥ कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते । सान्यासिकेन केनाऽपि समं खच्छदमारमत् ॥ ६ ॥ पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः ॥ रामावेषं दधद्रम्यं, मनसैंको नटो युवा ॥ ७ ॥ दम्भैविज्ञा विज्ञाय, कथंचित्तं च पुरुषम् ॥ तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मधर्षिणी ॥ ८ ॥ प्रतिबन्धो हि वेन्धक्या, वात्याया इव न कचित् ॥ यो युवा दृढदेहश्व, तस्याः स्यात्स तु बल्लभः ! ॥ ९ ॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच हियं हित्या, कामान्धानां हि का त्रपा १ ॥ १० ॥ एनमेन दधद्वेषं, रमते चेन्मया समम् ॥ सदा ददामि वः सारं, वस्त्रं किंचिन्मनोरमम् ॥ ११ ॥ नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः खीभिरर्थिताः ! ॥ १२ ॥ संप्रत्यायात्ययं किन्तु, तव वेश्म क्व विद्यते १ ॥ इत्युक्ताऽथ नटेशेन, सा खसौधमदर्शयत् ॥ १३ ॥ गृहं गत्वा नटकते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि तत्रागा -नटेशषितो नटः ॥ १४ ॥ आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा ॥ स्थालमस्थापयद्यावत् प्राज्यखण्डाज्यपायसम् ॥ १५ ॥ तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् ॥ शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥ १६ ॥ अर्लि स्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥ १७ ॥ तयाऽथो
"
१ असती ॥ २ असत्याः ॥
घाटिते द्वारे, स रजस्कोन्तराऽऽगतः ॥ किमिदं पायसापूर्ण, स्थालमस्तीत्युवाच ताम् ॥ १८ ॥ क्षुधितास्मीति भोक्ष्येऽह - मित्युक्ते मायया तया ॥ सोऽवादीदयि । तिष्ठ त्व- महं मोक्ष्ये बुभुक्षितः ॥ १९ ॥ इत्युदित्वा जलाद्यानजारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ॥ २० ॥ क्क यामीति ततः पृष्टा, जारेण कुलटाद्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ॥ २१ ॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः ॥ त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥ २२ ॥ ओमित्युक्त्वा ततः सोऽपि तत्रापवरकेऽविशत् ॥ भूयस्तमिन्नमिश्रुत्वा -- तमिस्रा दिवाऽपि हि ॥ २३ ॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी ॥ विवेश वेश्मनि ततो, गृहेशः सरलाशयः ॥ २४ ॥ क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यत्रवीच ताम् ॥ उवाच पुंश्चली भुक्तिं कुर्वेऽहमशनायिता ॥ २५ ॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोवेऽद्याष्टमी तस्मा दलातो भोक्ष्यसे कथम् १ ॥ २६ ॥ सोऽशंसत्खात एवाहं, लातायां त्वयि वल्लभे । साऽलपन्न सौ धर्मो ऽस्माकं तदिति मा कृथाः ॥ २७ ॥ वयं हि शैवास्तेषां च, न प्सानं स्नानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं बलाद्भोक्तुं प्रचक्रमे ॥ २८ ॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ॥ नटः कराभ्यां संघृष्य, फूचकार तिलान्मुहुः ॥ २९ ॥ सांन्यासी कस्ततोऽध्यासी- दसौ फूत्कुरुते फणी ॥ तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥ ३० ॥ इति ध्यात्वाऽपवरका - न्निर्गत्य द्राग् ननाश सः ॥ समयोऽयमिति ध्यायं खतोऽनेशन्नटोऽपि सः ॥ ३१ ॥ महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियौ ॥ कावेतावित्यपृच्छत्तां, स्वच्छः खच्छन्दचारिणीम् ॥ ३२ ॥ तत उत्पन्नधीः प्रोचे, कुलटा कुटिलाशया ॥ अस्त्रातो मा त्वमश्रीया, इत्युक्तं प्राग्मया हि ते ॥ ३३ ॥ अस्मदावस्थेऽजल - सेवया वासितो मया ॥ इमावुमाहरौ नष्टा-वस्मादत्रानभोजनातू ! ॥ ३४ ॥ तदाकर्ण्य मया दुष्टु, कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा बित्यूचे तां गृहाधिपः ॥ ३५ ॥ गच्छत्यसौ विदेशे -द्रमे खैरमहं तदा ॥ ध्यायन्तीति ततोऽवोच- त्खैरिणी पतिवैरिणी ॥ ३६ ॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः । चेदर्थयसि चण्डीशौ, प्रत्यायातस्तदा हि तौ ॥ ३७ ॥ तत्प्रपद्य दशार्णेषु, महत्तरसुतो ययौ ॥ छेकोऽपि वच्यते धर्म-छाना किं पुनः परः १ ॥ ३८ ॥ क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् ॥ दश aur कान्खर्ण, तथापमिति नाऽतुषत् ॥ ३९ ॥ तथापि स प्रति गृहं, निवृत्तः खप्रियां स्मरन् ॥ मध्याड़े कापि कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहतो वक्र - शिक्षिताश्वेन पर्यटन् ॥ दशार्ण भद्रभूपाल - स्वत्रागच्छत्तृषातुरः ॥ ४१॥ आतिथ्यार्हो महात्माय - मित्यन्तश्चिन्तयंस्ततः ॥ महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं इयं व्यधात् ॥ क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥ ४३ ॥ खवृत्तान्तेऽय तेनोके, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥ ४४ ॥ परं धार्मिकतामस्य, पीक्ष्य चित्रीयते मनः । चिकीर्षति खदेवार्था-मद्विशमुपार्ज्य यः ॥ ४५ ॥ विदोपि सदपि द्रव्यं व्ययन्ते व्यसनादिभिः ॥
१ अविद्यमानम् ॥