________________
249
उत्तराध्ययन
मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ॥ ४६ ॥ तद्धार्मिकस्य पुंसोऽस्य कुर्वे कां प्रत्युपक्रियाम् ॥ तस्येति ध्यायतः सैन्य- मागादश्वपदानुगम् ॥ ४७ ॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सच भोजनादिना ॥ ४८ ॥ तदा चायुक्तपुरुष-रिति व्यज्ञपि भूपतिः ॥ पुरोधानेऽद्य समय - सुतोऽस्ति चरमो जिनः ॥ ४९ ॥ तत्कर्णामृतमाकण्य-दञ्चद्रोमाञ्चक शुकः ॥ नृपोऽनमज्जिनं मौलि - स्पृष्टभूस्त्यक्तविष्टरः ॥ ५० ॥ दत्वा दानं जीविकाई - मर्हदागमवादिनाम् || भूभ्रन्मणी सहृदय - प्रामणीरित्यचिन्तयत् ॥ ५१ ॥ ताविवेकविकलो -Sप्यसौ वैदेशिको नरः । पुपूजयिषति खीय- देवांश्चेत्सर्वसम्पदा ॥ ५२ ॥ तदा समग्र सामग्री - मतामस्मादशां विशाम् ॥ विवेकिनां विशेषेण कर्त्तुमर्होऽर्हणाऽर्हतः ॥ ५३ ॥ ध्यात्वेत्यादिशदुर्घीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ॥ ५४ ॥ विभाते वन्दितुं सार्व, सामन्तामात्यनागराः ॥ श्रेष्ठां कुर्वन्तु सामग्री - मिति वाघोषयत् पुरे ॥ ५५ ॥ तृणगोमय भस्मादि- सम्मार्जनपवित्रितम् ॥ संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ॥ ५६ ॥ हृद्यं वन्दनमालाभिः, सद्दोलाभिरिव श्रियाम् ॥ घृतानंङ्कानेकचन्द्र-मिव कुम्भैश्च राजतैः ॥ ५७ ॥ उदिसाब्दमिवाकाण्डे, धूपधूमैर्निरन्तरैः ॥ धृतचक्रधनुर्लक्ष - मिव माणिक्यतोरणैः ॥ ५८ ॥ अभितः शोभितं श्रेयो - हेतुभिः केतुकोटिभिः || विमानवद्राजमानै-रचितं चारुमञ्चकैः ॥ ५९ ॥ प्रारब्धस्वस्वकर्त्तव्यं, जलमल्लनटादिभिः ॥ स्वपुरं
१ अनक्का अङ्करहिताः कलङ्करहिता इत्यर्थः ॥
खरिवाऽध्यक्षं, क्ष्मापोऽध्यक्षैरचीकरत् ॥ ६० ॥ [ पञ्चभिः कुलकम् ] प्रातश्च विधिना स्नात्वा, चन्दनालितभूघनः ॥ अदूष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥ ६१ ॥ आतपत्रेण पूर्णेन्दु- पवित्रेण विराजितः ॥ चतुर्भिश्चामरैवज्य- मानो डिण्डिरपाण्डुरैः ॥ ६२ ॥ केनाप्यवन्दि न यथा, वन्दे जिनसह तथा ॥ ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ॥ ६३ ॥ [ त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा - बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवनुस्तं शक्रं सामानिका इव ॥ ६४ ॥ पादाभ्यां प्रेरितो राज-कुअरेणाऽथ कुअरः ॥ शनैः प्रववृते गन्तुं भूमिभङ्गभयादिव ! ॥ ६५ ॥ सहस्रशस्तदाऽन्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु- र्मणिमण्डनमण्डिताः ॥ ६६ ॥ सहोदराः सप्तसप्तिसप्तीनां तत्र सैप्तयः ॥ लक्षशः पुपुपुर्लक्ष्मीं, भूरिभूरिविभूषणाः ॥ ६७ ॥ आयुक्तहरयो हारि - श्रियस्तत्र सहस्रशः ॥ रथादिद्युतिरे तिग्म-धुतिस्यन्दनसोदराः ॥ ६८ ॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः ॥ शिश्रियुः सुषमां बीरकोटीरास्तत्र कोटिशः ॥ ६९ ॥ अध्यासितानि राज्ञीनां, पर्श्वशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥ ७० ॥ प्रक्कणत्किङ्किणीकाण - मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥ ७१ ॥ आतोद्यैर्लक्षशो भम्भा - मेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥ ७२ ॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः ॥ श्रवः सुधाश्रवागीति-रगायन् गायनास्तदा ॥ ७३ ॥ वारवध्वोऽप्सरः कल्पा, गायन्त्यो भगवगु
१ सूर्याश्वानाम् ॥ २ अश्वाः ॥ ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ॥ ४ शिविका - पालखी - इति भाषा ॥
णान् ॥ नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ॥ ७४ ॥ इत्थं महर्द्धिभिर्भव्य - जीवानां मोदयन्मनः ॥ सिञ्चन् सावपीयूपैः, सुकृतक्षोर्णिजन्मनः ॥ ७५ ॥ कल्पद्रुम इवात्यर्थ, ददानो दानमर्थिनाम् ॥ आत्मानं मानयन्माना-पदमु त्कृष्टसम्पदाम् ॥ ७६ ॥ परिच्छदेन पौरैश्च, महत्तरसुतेन च ॥ समं समवसरण - समीपं प्राप पार्थिवः ॥ ७७ ॥ [ त्रिभिर्विशेषकम् ] उत्तीर्याथ गजाद्राज - ककुदानि विमुच्य सः ॥ जिनं प्रदक्षिणीकृत्य, सतंत्रो विधिनाऽनमत् ॥ ७८ ॥ जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा ॥ स्तोत्रैर्महार्थैः स्तुत्वा च यथास्थानमुपाविशत् ॥ ७९ ॥ तदा चावधिना ज्ञात्वा, राज्ञस्तादृशमाशयम् ॥ इति दध्यौ हरिभक्ति - रहो राज्ञोऽस्य भूयसी ! ॥ ८० ॥ परमत्राभिमानस्तु, कर्नु नामुष्य युज्यते ॥ भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाईताम् ! ॥ ८१ ॥ ध्यात्वेति हर्त्तुं तन्मानं, सम्पदुत्कर्षसम्भवम् ॥ प्रतिबोधयितुं तं च, समादिष्टो बिडौजसा ॥ ८२ ॥ चतुःषष्टिसहस्राणि द्विपानैरावणामरः । सितत्वोचत्वविजित - कैलासान् व्यकरोन्मुदा ॥ ८३ ॥ [ युग्मम् ] प्रत्येकं द्वादशयुतां तेषु पञ्चशतीं मुखान् ॥ मुखं मुखं प्रति रदा - नष्टाष्टौ च निर्ममे ॥ ८४ ॥ प्रतिदन्तं पुष्करिणी-रष्टावष्टी मनोरमाः ॥ तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् व्यधात् ॥ ८५ ॥ दलेषु तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् ॥ प्रत्यनकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ॥ ८६ ॥ पश्यन्नृत्यानि तान्युबै - महिषीभिर्युतोऽष्टभिः ॥ अभ्यास्त तांश्च प्रासादा- न्सर्वानपि सुपर्वराट् ॥ ८७ ॥ "एवंच-"
१ जनान् ॥