________________
247
उत्तराध्ययन
तयत् ॥ संघोऽसौ भगवान् भीता-धामी पद्मसुरादयः ॥ १४९ ॥ कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः || मान्यः संघोऽनुकम्प्याश्च पद्मदेवादयोऽपि मे ॥ १५० ॥ [ युग्मम् ] ध्यात्वेति वृद्धिं संहत्य, पूर्वावस्थोऽजनिष्ट सः ॥ ततस्त्रिविक्रम इति ख्यातिं च प्राप सर्वगाम् ॥ १५१ ॥ मुमोच नमुचिं विष्णु- मुनिः संघोपरोधतः ॥ तं घीसखाधमं पद्म - चक्री तु निरवासयत् ॥ १५२ ॥ संघकार्य विधायेति, शान्तो विष्णुर्महामुनिः ॥ आलोचितप्रतिक्रान्ततीव्रं तप्त्वा तपश्चिरम् ॥ १५३ ॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ॥ चक्रिपद्यां च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥ १५४ ॥ [ युग्मम् ] सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः ॥ स दशाब्दसहस्राणि तीव्रं व्रतमपालयत् ॥ १५५ ॥ त्रिंशद्वर्षसहस्रायु - श्वापान्विंशतिमुन्नतः ॥ महामहा महापद्म - महाराजो बभूव सः ॥ १५६ ॥ सीत्रैस्तपोभिर्घनघातिघातं निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापीं, श्रेयःसुधायाः श्रयतिस्म सिद्धिं ॥ १५७ ॥ इति श्रीमहापद्मचत्रिकथा ॥ ४१ ॥
मूलम् — एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥ ४२ ॥
व्याख्या -- एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वीं प्रसाध्य वशीकृत्येति सम्बन्धः । 'माणनिसूरणोत्ति' हमारातिदर्पदलनः, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वयम्
अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि ॥ महाहरिरभूद्भूमा - न्मेराह्नाना च तत्प्रिया ॥ १ ॥ हरिषेणस्तयोर्विश्वामन्दनो नन्दनोऽभवत् ॥ चतुर्द्दशमहास्वप्न - सूचितोऽस्वप्नजिन्महाः ॥ २ ॥ कलाकलापमापन्नो, वर्द्धमानः शशीव सः ॥ चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥ ३ ॥ राज्यं प्राज्यं पितुः प्राप्य तस्य पालयतः सतः ॥ रत्नान्युत्पेदिरेऽन्येद्यु- वक्रादीनि चतुर्द्दश ॥ ४ ॥ ततः स साधयामास, पट्खंडमपि भारतम् ॥ जातचक्रित्वाभिषेको, भोगांच बुभुजे चिरम् ॥ ५ ॥ भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा ॥ सोऽप्यासीदित्यसौ सम्पत्, प्राक्पुण्यैः सङ्गतास्ति मे ॥ ६ ॥ पुण्यार्जनाय भूयोऽपि प्रयलं विदधे ततः ॥ विनार्जनां हि क्षपिते, मूले स्वादुःस्थता भृशम् ! ॥ ७ ॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे ॥ कर्मकक्षमधाक्षीच, सत्तपोजातवेदसा ॥ ८ ॥ समासहस्राणि दशातिवास, सर्वायुषा श्रीहरिषेणचक्री ॥ घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्त्तिम् ॥ ९ ॥ इति श्रीहरिषेणचक्रिकथा || ४२ ॥
मूलम् - अनिओ रायसहस्सेहिं, सुपरिच्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥
व्याख्या - अन्वितो युक्तो राजसहस्रैः, सुष्ठु शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमं जिना - ख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम्
अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभूत्समुद्रविजयो नृपः ॥ १ ॥ पुण्य लावण्यतारुण्या, शीलालङ्कारशालिनी ॥ वप्रः शालिगुणालीनां वत्रा तस्य प्रियाऽभवत् ॥ २ ॥ द्विः सप्तभिर्महाखनैः, सूचितोऽभूत्सुतस्तयोः ॥ जयाह्वयो जयन्तस्य, जयन् रूपं वपुः श्रिया ॥ ३ ॥ कलिन्दिकासुधाः पीत्वा क्रमाद्यौवनमाश्रितः ॥ स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥ ४ ॥ जातचक्रादिरनथ, जितषट्खण्डभारतः ॥ बुभुजे रमणीरद-मिन चरिमां चिरम् ॥ ५ ॥ स चान्यदा भवोद्विद्मः, संविग्नस्यान्तिके गुरोः ॥ राज्ये निधाय तनयं सनयं प्राव्रजत्स्वयम् ॥६॥ सर्वायुषा श्रीनतिगम्य सम्यक्, समासहस्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ॥ ७ ॥ इति श्रीजयचक्रिकथा ॥ ४३ ॥
मूलम् —दसण्णरजं मुइअं, चइत्ता णं मुणी चरे । दसण्णभहो निक्खंतो, सक्खं सक्केण चोइओ ४४
व्याख्या - दशार्णो देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'णं' वाक्यालङ्कारे, मुनिश्वरेत् अचारीत् अप्रतिबद्धतया व्यहार्षीदित्यर्थः । दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति । तत्कथा त्वेवम्
श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ॥ १ ॥ स राजहंसः शुद्धात्मा, चित्ताप्यवसत्सताम् ॥ उवास तस्य चित्रे तु धर्म एव जिनोदितः ॥ २ ॥ जज्ञिरे तस्य शुद्धान्ते, राज्यः पञ्चशतानि ताः ॥ यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः १ ॥ ३॥ पार्देर्बारव तस्यासी-क्षमाव्यासिशमाचमूः ॥
१ सप्तशतानि - इति तु 'घ' संशकपुस्तके ॥