________________
उत्तराध्ययन
246 देहि मे तं वरं खामि-निति पमं व्यजिज्ञपत् ॥ १०७ ॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच सः ॥ यज्ञं यक्ष्यामि तद्राज्यं, तत्प्रान्तावधि देहि मे ॥१०८॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् ॥ शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ॥ १०९ ॥ ततः पुरावहिर्गत्वा, नमुचिर्यज्ञपाटके ॥मायया दीक्षितो जज्ञे, बैंकोट इव कूटधीः! ॥ ११० ॥ राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिलाः प्रजाः ॥ लिङ्गिनश्चाखिला जैन-मुनिवर्जाः समाययुः ॥१११॥ सर्वेप्यागुलिगिनो मां, न पुनः श्वेतभिक्षवः ॥ प्रवदन्निति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ॥ ११२॥ आकार्य सुव्रताचार्या-ननार्यो व्याहरच सः ॥ राजा यः स्थायदा सोऽभि-गम्यते लिङ्गिभिस्तदा ॥ ११३ ॥ तपोवनानि हि माप-रक्ष्याणीति तपखिनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥ ११४ ॥ स्तब्धा यूयं तु मर्यादा-विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः॥ ११५॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति यः को हि, लोकराजविरोधिनः ॥ ११६ ॥ सूरिरूचे न नः कल्प, इति नोपागता वयम् ॥ तवाऽभिषेके न पुन-निन्दामः कश्चिदप्यहो! ॥ ११७॥ कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्त बहुभाषितैः ॥ सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ॥ ११८ ॥ ततः स्वस्थानमागत्य, मुनीनाहूय सूरयः ॥ अथ किं कार्यमित्यूचुस्तेष्वेकः साधुरित्यवक् ॥ ११९ ॥ सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः ॥ स हि विष्णुकुमारर्षि-मेरौ सम्प्रति वर्त्तते
१ अन्तःपुरमध्ये ॥ २ बकः॥ ॥ १२० ॥ पद्माग्रजः स इति त-द्गिराऽसौ शान्तिमष्येति ॥ यातु कोऽपि तमानेतुं, तद्विद्यालब्धिमान्मुनिः ॥१२१॥ ऊचेऽथान्यो यतियॊना, गन्तुं तत्रास्म्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्य मयास्ति वः ॥ १२२ ॥ विष्णुरेव समानता, स्वामित्युक्तेऽथ सूरिभिः ॥ उत्पल नभसा विष्णु-मुपागात्स मुनिःक्षणात् ॥ १२३ ॥ तं चायान्तं वीक्ष्य दध्या-विति विष्णुमहामुनिः ॥ सङ्घकार्य महन्नून-मस्ति किञ्चिदुपस्थितम् ॥ १२४ ॥ इहागच्छेदसौ साधुयासु कथमन्यथा ? ॥ ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ॥ १२५ ॥ तेनागमनहेतौ च, प्रोक्ते विष्णुमुनिद्रुतम् ॥ तं गृहीत्वा गजपुरे, गत्वा च प्राणमद्गुरून् ॥ १२६ ॥ अगाच नमुचेः पार्थे, बहुभिर्मुनिभिः समम् ॥ विना नमुचिमु/शा-दिभिः सर्वैरनामि सः ॥ १२७ ॥ ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् ॥ वर्षाकालं यावदत्र, वसन्तु मुनयः पुरे ॥ १२८ ॥ खतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं ॥ वर्षासु तु भुवो भूरिजन्तुत्वाद्विहरन्ति न ॥१२९॥महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ॥ अस्माक्षैः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ॥ १३० ॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः ॥ कुरुषे न तथा त्वं चे-निर्वासयसि तान् कुतः ? ॥ १३१ ॥ श्रुत्वेति नमुचिः क्रुद्धो-ऽवादीकिं पुनरुक्तिभिः १ ॥ निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ! ॥ १३२ ॥ विष्णुर्जगी पुरोद्याने, वसन्त्वेते महर्षयः ॥ ततः क्रुधाऽभ्यधान्मंत्री, वाक्यैः कर्करकर्कशैः ॥ १३३॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा ॥ पाखण्डिपाशेः पापाशे-ने स्थय श्वेतभिक्षुभिः। ॥ १३४ ॥ तन्म मुञ्चत राज्यं द्राग् , यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽङ्गि-त्रयस्थानं तु देहि नः ! ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं, मया वत्रिपदीपदम् ॥ किन्तु तस्मादहियों वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावर्त्तत ततः कोपा-विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः, पबिचापकृपाणभृत् ॥ १३७ ॥ स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपवनोपमान् ॥ काश्यपी कम्पयन्पाद-दर्दरैर्निखिलामपि ॥ १३८ ॥ उल्लालयन्पयोराशीन् , शैलशृङ्गाणि पातयन् ॥ धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥ १३९ ॥ क्षोभयन्विविधै रूपै-देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४०॥ [त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः॥ पादौ विन्यस्तवान् विष्णु-रलम्भूप्णुर्जगजये ॥ १४१ ॥ त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ॥ १४२॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः खपरदाहकः ॥ खार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ॥ १४३॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ॥ १४४ ॥ महापद्मोऽपि तत्रागात् , शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ॥१४५॥ श्रीसंघाशातनां मंत्रि-पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-यज्ञासिषमहं न हि ॥ १४६ ॥ कृतखान्योपतापस्य, पापस्याऽमुष्य मन्तुना ॥ प्राणसन्देहमारूढं, त्रायख भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनि विविधैर्वाक्यैः, सान्त्वयामासुरुच्चकैः॥१४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुर्व्यचि