________________
245 उत्तराध्ययन ददौ कन्याशतं नृपः ॥ पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः !॥ ६३ ॥ क्रीडंस्ताभिः समं नायं, न्यस्मरम्मदनावलीम् ॥ भृङ्गो लवंगीभोगेऽपि, किं विस्मरति पभिनीम् ? ॥ ६४ ॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा इतः॥ प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ? ॥ ६५ ॥ साप्यूचे शूर ! हरण-कारणं शृणु मा कुपः ! ॥ वैताप पर्वते सूरो-दयं नामास्ति सत्पुरम् ॥ ६६ ॥ तत्र चेन्द्रधनुःसंज्ञो, विद्यते खचरेबरः ॥ श्रीकान्ता तवधूः पुत्री, जयचन्द्रा तयोः शुभा ॥ ६७ ॥ पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकरो हि दक्षाणां, स्त्रीणां हीनः पतिर्भशम् ॥ ६८ ॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥ ६९ ॥ पटे मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् ॥ तस्याश्चित्तमयस्कान्त-मणिर्लाहमिवापत् । ॥ ७० ॥ चेदयं दयितो न स्यात् , तदाहमनलं श्रये ॥ इति प्रत्यशृणोत्साऽथ, मत्वा त्यां खलु दुर्लभम् । ॥७१॥ तस्यास्तस्यां प्रतिज्ञायांज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्या, हष्टाभ्यां प्रहितास्म्यहम् ॥ ७२ ॥ तमानये न चंत्तहि, बहावहाय याम्यहम् ॥ तामाश्वासयितुं कन्या-मित्युक्त्वेहागमं ततः ॥ ७३ ॥ तां पनीनी मोदयितुं, नये त्वां च प्रमाकरम् ॥ तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४ ॥ साऽथ तं तदनुज्ञाता, निन्ये मूरोदयं पुरम् ॥ विभाते भास्करमिव, तं चेन्द्रधनुरार्चयत् ॥ ७५ ॥ विदधे येन धात्राऽसौ, तस्य स्थामनृणा कथम् ? ॥ घ्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः॥ ७६ ॥ तस्याश्च मातुलसुती, गङ्गाधरमहीधरौ ॥ विद्याधरौ महाविद्यौ, तहि. वाहाभिलापिणौ ॥ ७७ ॥ पद्मन परिणीतां तां, निशम्य समरोद्यतौ ॥ सूरोदयपुरेसर्वा-ऽभिसारेण समीयतुः॥७८॥ [युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः॥ तत्सैन्येन समं योद्धं, प्रावर्तत महाभुजः॥ ७९ ॥ रथी सादी निषादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युद्धमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥ ८०॥ नैऋतेनानिलेनाब्दमिव पझेन सर्वतः ॥ खसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥ ८१॥ तत उत्पन्नचक्रादि-रत्नो ज्वालाजो बली ॥ पट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥ ८२ ॥ स्त्रीरत्नवर्जी स प्राप, सकलां चक्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥ ८३ ॥ ततः स क्रीडयाऽन्येयु-र्गतस्तं तापसाश्रमम् ॥ सचक्रे तापसैश्चारुफलपुष्पादिदायिभिः॥८४॥ जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्री, मुदितो मदनाव लीम् ॥ ८५ ॥ ततश्चक्रिरमा पूर्णी, कलयन् खपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टी ननाम सः ॥ ८६ ॥ आकर्ण्य कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् ॥ लक्ष्मी च तादृशीं वीक्ष्य, पितरावत्यहृष्यताम् ॥ ८७ ॥ तदा च सुब्रताचार्याः, शिष्याः श्रीसुव्रताहतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥ ८८ ॥ तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः ॥ देशनां चाणोन्मोह-हिमापोहरविप्रभाम् ॥ ८९ ॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय-मथेत्यूचे नृपो गुरून् ॥९०॥ विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ॥ ९१॥ आकार्य मंत्रीसामंत-मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं, पनोत्तरनृपोऽवदत् ॥ ९२ ॥ श्रुत्वा श्रीसुव्रताचार्या-संसारासारतामहम् ॥ मन्ये खं वंचितं काल-मियन्तं व्रतमन्तरा ! ॥ ९३ ॥ अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके ॥ राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥ ९४ ॥ विष्णुर्जगो विभो ! भोगैः, किं किम्पाकफलोपमैः १॥ मोघीकर्तुमघं दीक्षा-मादास्येहं त्वया सह ! ॥९५ ॥राज्यमादत्व वत्सेद-मित्याहूयाथ साग्रहम् ॥ पमं पद्मोत्तरोऽवादी-ततः सोऽप्येवमब्रवीत् ॥९६ ॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ॥ श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ॥ ९७ ॥ भूपःप्रोचेयमुकोऽपि, राज्यं नादित्सते कृतिन् ! ॥ आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ॥९८ ॥ कृतमौनं ततः पड़, राज्ये न्यस्योत्सयैर्नृपः ॥ सुव्रताचार्यपादान्ते, प्रात्राजीद्विष्णुना समम् ॥ ९९ ॥ पनचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥रयमनमयजैन, जनन्या जनयन्मुदम् ॥ १०० ॥ चक्रे खवंशवजैन-शासनस्योन्नतिं च सः॥ मेजिरे बहवो भव्या-स्ततः शासनमाहत
१०१॥ उचैश्चैत्यानि जैनानि. प्रामाकरपरादिषु । कोटिशः कारयामास, स चक्री । ॥१०२॥ केवलं प्राप्य कैवल्यं, प्राप पनोत्तरोऽन्यदा ॥ लेभे विष्णुकुमारस्तु, लब्धीका महातपाः ॥ १०३ ॥ खर्णशैल इवोत्तुंगो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥१०४ ॥ इत्याधनेकावस्था. वान् , भवितुं प्रबभूव सः॥ नन्वभूलब्धिभोगो हि, विना हेतुं न योगिनाम् । ॥१०५॥ तेऽन्येयुः सुध्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ॥१०६ ॥ ज्ञात्वा तान्नमुचिः प्राज्य-वैरशुद्धिविधित्सया॥