________________
उत्तराध्ययन
244 ॥ २२॥ निन्धमानो जनैः सबै-विलक्षो नमुचिस्ततः ॥ देण्या मुक्तो ययौ लज्जा-विहस्तो हस्तिनापुरम् ॥ २३ ॥ सोऽथ तत्र महापा-युवराजेन सङ्गतः ॥ तदमात्यपदं प्राप, पापोऽपि प्रायपुण्यतः । ॥ २४ ॥
इतवासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहबलः सिंहः, इव प्रपलविक्रमः ॥ २५ ॥ स च प्रदायावस्कन्दं, परदेशे मुहुर्मुहुः ॥ खदुर्ग प्राविशत्तं च, प्रहीतुं कोऽपि नाशकत् ॥ २६ ॥ धतुं सिंहनलं जाना-स्युपाय कंचिदित्यथ ।। पृष्टो रुप्टेन पमेन, वेनीति नमुचिर्जगौ ॥ २७ ॥ ततो मुदा महापमे-नादिष्टः स गतो द्रुतम् ॥ भक्त्वा दुर्ग सिंहबलं, बलाबला समाययौ ॥ २८ ॥ ततो परं घृणीष्वेति, प्रोक्तः पमेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो! ॥ २९ ॥ तत्प्रपद्य चिरं पमो, यौवराज्यमपालयत् ॥ ज्वालादेव्याऽष तन्मात्राकारि जैनरथोऽन्यदा ॥ ३०॥ मिथ्याष्टिस्तत्सपत्नी. लक्ष्मीब्रह्मरथं तदा ॥विधाप्योचे नृपं ब्रह्म-रथः प्राग भ्रम्यता पुरे ॥ ३१ ॥ ततो ज्वालाऽलपद्भपं, न चेज्जैनरथोऽग्रतः॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ॥ ३२ ॥ इयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः ॥ मातुर्दुःखेन तेनाथ, पद्मोऽभूद्भशमातुरः ! ॥ ३३ ॥ दध्यौ चेति स्पृहा मातुः, माइशेऽपि सुते सति ॥ व्यलीयत मनस्येव, कदर्यश्रीरिवावनी ! ॥३४॥ सुपुत्रत्वाभिमानं हि, कथंकार करो. तु सः १ ॥ शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् । ॥ ३५ ॥ कृतः पित्रापि मन्मातु-बिशेषः कोऽपि न महो । ॥ तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा! ॥ ३६ ॥ ध्यात्वेति सुप्ते लोके सः, निर्गत्य खपुरा. निशि ॥ भ्रमन् खैरमरण्यान्त-स्तापसाश्रममासदत् ॥ ३७॥ वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रषवृते स्थातुं, महापमः खसमवत् ॥ ३८॥
इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः ॥ स च कालेन राज्ञाऽऽजौ, पराभूतः पलायत ! ॥ ३९ ॥ ततः पुरे भज्यमाने, नेर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः!॥४०॥ तदा चम्पापतेः पत्नी, नष्टा नागवती द्रुतम् ॥ खपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥४१॥ तदा च पममदना-बल्योरन्योन्यदर्शनात् ॥ क्षणादाविरभूद्रागो, मन्दाक्षं मन्दतां नयन् ॥ ४२ ॥ तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् ॥ पुरुषे यत्रतत्रापि, सुते ! किमनुरज्यसे? ॥४३॥ भाविनी चक्रिणो मुख्य-पत्नी त्वमिति भाषितम् ॥ज्ञानिनो वि. स्मृतं किं ते ?, यद्भवस्येवमुत्सुका ! ॥ ४४ ॥ मिथोरक्ताविमौ काष्टी, विप्लवं मेति चिन्तयन् ॥ स्थानं यथेष्टं याहीति, पनं कुलपतिर्जगी ॥४५॥ तदाकर्ण्य ततः पो, निर्ययो विमना मनाक् ॥ अभीष्टानां वियोगो हि, महतामपि दुःसहः॥४६॥ नूनमेपा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरतं, परिणेष्याम्यमूकदा ? ॥४७॥ विधाप्यारीतचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयिष्ये कदा मातू, रथयात्रामनोरथम् १॥४८॥ इत्थं मनोरथरथा-ऽधीरुढो भूपभूस्ततः ॥ श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ॥ ४९ ॥ [ त्रिभिर्विशेषकम् ] ॥
१ लज्जाम् । २ उपद्रवम् ॥ तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितुः ॥ ५० ॥ स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः॥ अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥ ५१॥ [युग्मम् ] ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः॥ पूच्चकुरिति यो खत्र, वीरोऽस्मान्पातु पातु सः! ॥५२॥ ताथ पूत्कुवंतीः प्रेक्ष्य, पमो व्यालं ततर्जतम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥५३॥ तमायान्तं स्खलयितं. पर्ट पोऽन्तराऽक्षिपत् ॥ मर्योऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी! ॥ ५४ ॥ कोलाहलैस्तदा चोप्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः॥ ५५॥ क्रुद्धाकालादिव व्याला-दस्मादपसराशु भोः।। महापड़ महासेन, इत्युदाहुस्तदाऽवदत् ॥५६॥पमः स्याह महाराज 1, पश्य खच्छमना क्षणम् ॥ मत्वं मतगजम, वशीकुर्वे वशामिव ! ॥ ५७ ॥ इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यगमुखो गजः ॥ यावन्मुक्त्वा पटी. वेधं, तं प्रहीतुं समुत्थितः ॥ ५८॥ तावत्स विधुदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोङ्कुशैः ॥ ५९ ॥ तं च व्यालं कलभवत् , क्रीडयन्तं समीक्ष्य तम् ॥ विस्मयं भेजिरे पौरा, नृपतिश्च पचोऽतिगम्। ॥६०॥ दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् ॥ भूधरादिव पारिन्द्रः, पमस्तस्मादवातरत् ॥ ६१ ॥ धामा स्थामा च तं श्रेष्ठ-कुलभूरिति भूपतिः ॥ निश्चिकाय निजं धाम, निनाय च सगौरवम् ॥ ६२ ॥ तस्मै कृतोपचाराब,
१ सिंहः ॥
----
-