________________
243 उत्तराध्ययन क्रमाच्च नन्दनं नन्द्या-वर्तात काञ्चनद्युतिम् ॥ असूत सा महादेवी, महासेनमिवाद्रिजा ॥७॥ सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ॥ ८॥ स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्म महोत्सवम् ॥ ९॥ क्रमाच कलयन् वृद्धिं, त्रिंशचापोचभूघनः॥ पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणैषीत्स यौवने ॥ १० ॥ अन्येयुः पितुरादेशात् , दधौ राज्यधुरं जिनः ॥ जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ॥ ११ ॥ चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् ॥ लोकांतिकेवोधितश्चा दाहानमाब्दिकम् ॥ १२ ॥ राज्यं नियोज्य पुत्रे च, शिविकासंस्थितोविभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ॥ १३ ॥ सह राजसहस्रेण, प्राणाजीत्तत्र तीर्थकृत् ॥ तदा मनःपर्ययाहं, तुर्यज्ञानमवाप च ॥ १४ ॥ ईभारातिरिवाभीतः, पृथिव्यां विहरन् बिभुः ॥ भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैत्रिभिः ॥ १५॥ तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे ॥ समे समेत्य समव-सरणं वासवा व्यधुः ॥ १६ ॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया ॥ पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगौ जिनः ॥ १७॥ तं चाकर्ण्य जिनाभ्यणे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, खामिना तेषु चक्रिरे ॥ १८॥ श्रमणानां प्रभोः पंचा-शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः षष्टि-सहस्राणि महात्मनाम् ॥ १९॥ लक्षं चतुरशीत्या च, सहस्रैर्युक्तमास्तिकाः ॥ द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः
१ कार्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान् , तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ॥ ॥ २०॥ अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः ॥ सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ॥ २१ ॥ समभागं कुमारत्वा-दिके स्थानचतुष्टये ॥ आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ॥ २२ ॥ निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते ॥ सह साधुसहस्रेणा-ऽनशनं विदधेऽधिपः ॥ २३॥ एकेन मासेन स सार्वसार्व-भीमो महानन्दपदं ततोऽगात् ॥ निर्वाणकाले च समेत्य तस्य, सर्वैर्वितेने महिमा सुरेशैः ॥ २४ ॥ इति श्रीअरनाथकथा ॥४०॥ मूलम्-चइत्ता भारहं वासं, चकवही महिड्डीओ। चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥४१॥
व्याख्या-सुगमं । तच्चरितं त्वेवम्__अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् ॥ इक्ष्वाकुवंशकासार-पमं पद्मोत्तरं नृपः ॥१॥ तस्य ज्वाल बभूव परमार्हता ॥ तस्याश्चैकः सुतो विष्णुः, सिंहखनेन सूचितः ॥ २॥ पद्मासनमहापद्म-नामान्यश्च सुतोऽजनि ॥ तस्याश्चतुर्दशस्खन-सूचितो निचितो गुणैः ॥३॥ कलाकलापं सकलं, कलाचार्यादधीत्य तौ ॥ द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्ययः ॥४॥ तत्र पनं जिगीपुत्वा-धौवराज्ये न्यधात्पिता ॥ विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेपु हि शस्यते ॥५॥ _ इतश्चोजयिनीपुर्या, श्रीवासीन्महीपतिः ॥ मत्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ॥ ६ ॥ तस्यां नगमिन्येधु-विहरन् समवासरत् ॥ मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराष्ट्र ॥७॥ तं नन्तुं व्रजतो वीक्ष्य, पौरान् सौधोपरिस्थितः ॥ अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नृपः ॥ ८॥देवाद्योपवने केपि, श्रमणाः सन्त्युपागताः॥ तान्नन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ॥९॥ तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् ॥ यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ॥ १० ॥ पाखण्डिनोऽखिलान्यादे, खामिन् ! जेप्यामि तानहम् ॥ ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ॥ ११ ॥ धर्म चेद्वित्थ तद्रूते-त्यूचे च नमुचिर्मुनीन् ॥ क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ॥ १२ ॥ ततः स शासनं जैनं, निन्दनुद्दिश्य सद्गुरून् ॥ गौरयं किमु वेत्तीति, व्यब्रवीत्सचिवब्रुवः ॥ १३ ॥ मुखं कण्डूयते ते चेत्, तत्किंचिद्रूमहे वयम् ॥ अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ ॥ १४ ॥ अनेन सह धृष्टेन, वक्तुं युक्तं न यः खयम् ॥ विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्ययम् ॥ १५॥ क्रुद्धः सोऽथावदद्वेद-बाह्याः शौचविवर्जिताः ॥ देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ॥ १६ ॥ प्रत्यूचे क्षुल्लको वारि, कुम्भश्शुली प्रमार्जनी ॥ कण्डणी पेपणीत्युक्ताः, पञ्च शूनाः श्रुतिष्वहो! ॥ १७॥ ये हि शूना भजन्त्येता, वेदवायाः त एव हि ॥ तद्वर्जितानामस्माकं, तत्कथं वेदवासता १ ॥१८॥ अशौचं तु रेतं तस्य, सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मा-त्कस्मादशुचयो वयम् ॥ १९ ॥ निरुत्तरीकृत इति, क्षुलकेन स धीसखः॥ वैरं महद्वहन् साधुप्यगाद्नेहं नृपान्वितः ॥ २०॥ निशायां च मुनीन् हन्तुं, क्रोधान्धः स वने गतः ॥ धावनिहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥ २१ ॥ प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः ॥ नृपश्च धर्म सूरिभ्यो, निशम्योपशमं ययुः १ प्राणिवधस्थानानि । “पञ्च शूना गृहस्थस्य, चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च, बध्यते यास्तु वायन् ॥"[मनुः] २ कामम् ॥