________________
अपराण्ययन
242 खामी, विजहार चिरं भुवि ॥ ४८९ ॥ श्रमणानां सहस्राणि, द्वापष्टिरभयन् विभोः ॥ एकपष्टिः सहस्राणि, साध्वीना षट् शतानि च ॥ ४९० ॥ लक्षद्वयं च नयति-सहस्रात्यमुपासका॥ लक्षत्रयं त्रिनयति-सहस्राप्रमुपासिकाः ॥५९१॥ संघो गुणोदधिरिति, प्रभोर्जज्ञे चतुर्विधः ॥ धर्म प्रभावयन्नुबै-चतुर्मेदं चतुर्दिशम् ॥ ४९२ ॥ दीक्षादिनात् प्रभृत्यद-सहस्रान्पंचविंशतिम् ॥ विहृत्य भुवि संमेत-पर्यतं भगवानगात् ॥ ४९३ ॥ तत्र चानशनं साई, साधूनां नवमिः शतैः॥प्रभुः प्रपद्य मासेन, सिद्धिसौधमभूषयत् ॥ ४९४ ॥ कौमारे मण्डलीवे च, चक्रित्वे संयमेऽपि तुर्याश इत्यब्द-लक्षायुरभवद्विभोः ॥ ४९५ ॥ शान्तत्रिलोकजिनस्य जिनस्य शान्ते-चक्रे विमुक्तिमहिमाथ सुरासुरेशैः॥ चक्रायुधोऽपि भगवान् वृतकेवलश्री-भेंजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ॥ ४९६ ॥ इति शान्तिनाथचरितलेशः ॥ ३८॥ मूलम्-इक्खागरायवसभो, कुंथू नाम नराहियो। विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥ ३९ ॥ व्याख्या-स्पष्टं, कथालेशस्त्वेवम्
अत्रैव जम्बूद्वीपे प्राग-विदेहेषु पुराऽभवत् ॥ आवर्तविजये खगि-पुर्या सिंहावहो नृपः॥१॥ सोऽन्यदा व्रतमादत्त, संवराचार्यसन्निधौ ॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥२॥ चिरं पवित्रं चारित्रं, प्रपाल्यानशनं श्रितः ॥ आयुःक्षयेण सर्वार्थ-सिद्धे सोऽभूत्सुधाशनः ॥ ३॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ भूपो बभूव सूरातः, श्रीसंज्ञा तस्य च प्रिया ॥ ४ ॥ सिंहावहस्य जीवोऽथ, व्युत्वा सर्वार्थसिद्धतः ॥ कुक्षौ चतुर्दशस्वप्ना-ऽऽवे. दितोऽवातरत् श्रियः ॥५॥ क्रमाञ्च साऽसूत सुतं, छागाईं काञ्चनच्छविम् ॥ दिकुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽऽ. गताः॥ ६ ॥ जन्माभिषेकं मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः॥ तुष्टोऽन्वतिष्ठद्भूपोऽपि, पुत्रजन्ममहामहः॥७॥गर्मस्थेऽस्मिन् कुंथुभावं, भेजिरे निखिला द्विपः॥ खप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥ ८॥ तत्कुंथुरिति तस्याख्या-मुत्सबैर्निर्ममे नृपः ॥ विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः ॥९॥ यौवने राजकन्या राट्, समं तेनोदवाहयत् ॥ तस्मै वितीय राज्यं चा-ऽन्यदा पर्यव्रजत्खयम् ॥१०॥ श्रीकुंथुखानिनःप्राज्यं, राज्यं पालयतस्ततः॥चक्रमायुधशालाया-मन्येधुरुदपद्यत ॥ ११॥ ततश्चक्रानुगः सर्वे, विजिग्ये भरतं प्रभुः॥ वक्रिश्रियं च स्त्रीरन-मिवोपबुभुजे चिरम् ॥ १२ ॥ अथ लौकान्तिकैर्देवैः, खयम्बुद्धः स बोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥१३॥ ततोनरेन्द्रैरिन्दैश्च, कृतनिष्क्रमणोत्सवः ॥ आरुह्य शिविकां खामी, सहस्राम्रवणं गतः ॥ १४ ॥ महीपतिसहस्रेण, सह प्रतमुपाददे ॥ मनः पर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसदत् ॥१५॥ [युग्मम् ] विभुर्भारुण्डपक्षीवा-ऽप्रमत्तो विहरन् भुवि ॥ आगात् पोडशभिवः, सहस्राम्रवणं पुनः ॥ १६ ॥ तत्र च खामिनाऽवासे, केवले हरयोऽखिलाः ॥ आगत्य चक्रुः समय-सरणं शरणं श्रियाम् ॥ १७ ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत्गुणाढ्यया ॥ गिरा दिदेश तत्रेशो) धर्म सिंहासने स्थितः ॥ १८ ॥ तं निशम्य प्रभोः पार्थे, प्रात्रजन् बहवो जनाः ॥ तेषु चास्थापयत्पञ्च-त्रिंशतं गणिनो जिनः ॥ १९॥ पष्टिः सहस्रा प्रतिनां, साध्वीनां ते सपशताः॥ एकोनाशीत्या सहस्र-युक्तं लक्षमुपासका ॥ २०॥ एकाशीतिसहस्राग्रं, लक्षत्रयमुपासिकाः॥ एवं चतुर्विधस्संघः, प्रमोर्विहरतोऽभवत् ॥ २१॥ [युग्मम् ] कौमारराज्यचक्रित्व-चारित्रेषु समांशकम् ॥ जीवितं पश्चनवति-सहस्राब्दान्यभूद्विभोः॥२२॥ समं सहस्रेण मुनीधराणां, संमेतशैलेऽनशनं प्रपन्नः ॥ मासेन सोऽर्हन् शिवमाससाद, सुरेश्वरैतन्महिमा च चक्रे ॥ २३॥ इति श्रीकुंथुनाथकथा ॥ ३९॥ मूलम् -सागरंतं चइत्ता णं, भरहं नरवरीसरो। अरोवि अरयंपत्तो, पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-व्यक्तं नवरं 'अरयंपत्तोत्ति' रजसः कर्मणोऽभावोऽरजस्तत्प्राप्तः,प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वेवम्
जम्बूद्वीपप्राविदेहे, वत्साहविजयेऽभवत् ॥ निःसीमविक्रमः सीमा-पुर्यां धनपतिर्नृपः ॥ १॥ संवराहमुने पाः, प्रायजत् सोन्यदा मुदा ॥ स्थानरहक्तिमुख्यै-राईयजिननाम च ॥ २॥ चिरं तत्वा तपस्तीत्रं, प्रपाल्य प्रतमुत्तमम् ॥ प्रायं प्रपद्य स सुरो, जज्ञे प्रैवेयकेऽन्तिमे ॥३॥ इतच भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् ॥ राजा सुद र्शनो लोक-दर्शनानन्दिदर्शनः ॥ ४ ॥ देवीसंज्ञाऽभवहेवी, तस देवीव सुन्दरा ॥ जीवो धनपतेश्श्युत्वा, तस्याः कुक्षापवातरत् ॥ ५॥ चतुर्दश महाखमां-स्तदा राजी ददर्श सा ॥ ज्ञानत्रयधरतस्या, गर्मोऽपि वधे सुखम् ॥६॥
१त्रिंशद्गुणधरान् जिनः ॥ इति '' संशक पुस्तके चतुर्थपादः।।