________________
241
उत्तराध्ययन
चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणो तैनीरैः, रुपयामास स प्रभुम् ॥ गन्धमाल्य विभूषाभिः पूजयित्वाऽस्तवीच तम् ॥४४८॥ अथादायजिनं शक्रो - ऽचिरादेव्यन्तिकेऽमुचत् ॥ द्रागवखापिनीमई - त्प्रतिरूपं जहार च ॥४४९ ॥ विनोदाम विभोरूर्द्ध, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वज्री, क्षीम कुण्डलयामले ||४५० ॥ जिने जिनजनन्यां च यो दुर्यास्यति दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मअरी ! ॥ ४५१ ॥ इत्युद्घोष्य सुरैरिन्द्रः, स्वर्णरलादिवर्षणम् ॥ श्रीदेन कारयित्वा च द्वीपे नन्दीश्वरे ययौ ॥ ४५२ ॥ [ युग्मम् ] तत्र शाश्वतचैत्येषु, शक्रोऽन्येऽपि च बासवाः ॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥ ४५३ ॥ वर्धापितोऽथ दासीभि - भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ॥ ४५४ ॥ गर्भस्थेऽस्मिन् सुते शान्ति- रशिवानामभूद्भुवि ॥ इति क्षितिपतिः शान्ति - रिति तस्याभिधां व्यधात् ॥ ४५५ ॥ निहितं हरिणाङ्गुष्टे, पिवन् पीयूपमन्वहम् ॥ अद्वैतरूपतेजः श्री - ववृधेऽथ जगत्पतिः ॥ ४५६ ॥ पश्यतोरालिङ्गतोच, मौलावाजिघतोश्च तम् ॥ पित्रोः सुखमभूद्रा - मनयोरिव निस्तुलम् ।। ४५७ ॥ निशम्य मन्मनालापां - स्तस्येष्टान् घुसदामपि ॥ पितरौ पीतपीयूषा - विवात्यर्थम तुष्यताम् ॥ ४५८ ॥ भूपगेहाङ्गणं खामी, क्रमचङ्क्रमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिवजङ्गमः ॥ ४५९ ॥ शिशुभूतैः समं देवै - श्वलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्यां शैशवे शोभते सदः ॥ ४६० ॥ क्रमाच स्वत
१ चलोsस्थिरः चूलाया मस्तकमध्यशिखाया अञ्चलः प्रान्तभागो यस्य स तथा ॥
पुर्योगा - यौवनं भूपयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत् ! ॥ ४६१ ॥ पित्रोराज्ञेत्युपायंस्त जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं - मन्यास्तादृग्धवासितः ॥ ४६२ ॥ यातेष्वन्दसहस्रेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्ति, निजं कार्यमसाधयत् ॥ ४६३ ॥ जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं श्व- मेवापैति निकाचितम् ॥ ४६४ ॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ खमे चक्रं प्रदर्शयन् ॥ ४६५ ॥ पृष्टस्तयाऽथ खन्नार्थ, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥ ४६६ ॥ पूर्णे च समये पुत्रं, सुपुवे सा सुलक्षणम् ॥ खामिखनानुसारात्तं चक्रे चक्रायुधाभिधम् ॥ ४६७ ॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ वह्नीनृपतिपुत्रीश्च पर्यणैषीत् स्वयंवराः ॥ ४६८ ॥ नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ । गतेषु शस्त्रशालायां चक्रं प्रादुरभूत् प्रभोः ॥ ४६९ ॥ चक्रपूजां कारयित्वा ततस्तदनुगो विभुः ॥ लीलया साधयामास, पट्खण्डमपि भारतम् ॥ ४७० ॥ द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥ कृतारिशान्तिः श्रीशान्ति - र्हस्तिनापुरमाययौ ॥ ४७१ ॥ ततो देवैर्नृदेवैश्व खामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥ ४७२ ॥ अथान्तः पुरकान्ताव - चक्रवर्त्तिश्रियं प्रभुः ॥ भुआनो व्यत्यगादन्द-सहसान्पञ्चविंशतिम् ॥ ४७३ ॥ तीर्थ प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान - माब्दिकं जगदीश्वरः ॥ ४७४ ॥ राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिविकां श्रितः ॥ सुरासुरनराधीश - कृतनिष्क्रमणोत्सवः ॥ ४७५ ॥ गत्वा सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच जिनेश्वरः ॥ ४७६ ॥ [ युग्मम् ] लेमे मनःपर्ययाहूं, तुर्यज्ञानं प्रभुस्तदा । विजहार च भूपीठे ऽप्रतिबद्धः समीरवत् ॥ ४७७ ॥ वर्षान्ते च पुनः प्राप्तः सहस्रात्रवर्ण विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ॥ ४७८ ॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं, प्राकारत्रयमञ्जलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारेमे, सिंहासनस्थितः ॥ ४८० ॥ तदा च व्यन्तरैः खामि- प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन् पूर्व॥ ४८१ ॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ खामिनः केवलोत्पत्तिं, चक्रायुधमहीभुजे ॥४८२ ॥ ततस्तेभ्यः प्रीतिदानं दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा ऽश्रौषीद्धर्मं समाहितः ॥ ४८३ ॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ॥ ४८४ ॥ अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेनाऽनुगृहाण द्रुतं विभो ! ॥४८५ ॥ स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्रात्राजीज्जिनसन्निधौ ॥ ४८६ ॥ तांश्च पत्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥ ४८७ ॥ नरा नार्यश्च बहवोऽपरेऽपि प्रात्रजंस्तदा ॥ श्राद्धाः केप्यभश्चेति, तीर्थ तीर्थङ्करोऽकरोत् ॥ ४८८ ॥ ध्वंसयन् दुर्मतध्वान्तं, भव्यात्नानि प्रबोधयन् ॥ व्योद्धि भाखानिय १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, पत्रिंशयावश्यकादिबहुब्रन्धाभिप्रायेण, तदत्र तस्वं केवलिनो विदन्तीति ध्येयम् ॥