________________
240 उत्तराप्ययन महासत्व-ममुं मेरुमिन स्थिरम् ॥ शक्तावालयितुं नैव, सेन्द्रा अपि सुरासुराः ॥४०८ ॥ तन्महिष्यी सुरूपाति-रूपे तां तस्य वर्णनाम् ॥ असहिष्णू तदा तत्रा-ऽऽगातां तरक्षोमहेतये ॥४०९॥ कामपादपकुल्याभाः, कामिनीते विष ऋतुः ॥ अनुकूलोप
कलोपसर्गास्ता. ति प्रारमिरे ततः ॥४१॥ कटाक्षविशिः काचि-दक्षा लक्षीय ध्रुविभ्रमान् सुनु-विदधे पिदधे अपाम् ॥ ४११॥ पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नती ॥ कापि प्राकाशयस्केश-पाशोद्वन्धनकैतवात् ॥ ४१२ ॥ त्रिवलीललितं मध्यं, सुमभ्या काप्यदर्शयत् ॥ कापि वापीसनाभि च, नामि प्राकटयन्मुहुः ॥ ४१३ ॥ अस्मिन्नरपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ॥४१४॥हले!लिना किं दष्टाह-मिहेति व्यपदेशतः ॥ उत्क्षिप्य कापि संध्यान-मूर्वोर्मूलमदीशत् ॥ ४१५॥ शृङ्गारशाखिपुष्पामं, काचिदस्मेरयत् स्थितम् ॥ काचिजगौ च गीतानि, विकाराकुरवारिदान् ॥ ४१६ ॥ कथामकयपत् कापि, प्रिययोगवियोगयोः ॥ खानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥ ४१७ ॥ देहि प्रियं वचः सौम्यरष्ट्या वीक्षख नः प्रभो! ॥ कण्ठे निधेहि च भुजी, तमित्यूचुश्च काश्चन ॥ ४१८ ॥ क्षोभायेति कृतास्तामिः, कुचेष्टा निखिला निशाम् ॥ प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥ ४१९ ॥ मेरी वात्या इवोर्वीशे, मोपास्ता वि. कृताः स्त्रियः ॥ ततः संहत्य ते देख्यो, नत्वा तं दिवमीयतुः ॥ ४२० ॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः ॥
१ शातकुम्भकुम्भौ वर्णपटौ ॥ २ सुष्ठु मध्यं कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ॥ ३ संव्यानं वस्नमुत्क्षितप्य ऊर्वोङ्योर्मूलमदीदृशत् ॥ प्रतिमां पारयित्वागा-खधामाऽप्रतिमक्षमः ॥ ४२१ ॥ तत्राथ समवासार्षी-जिनो धनरथोऽन्यदा ॥ तं चायात निशम्यागा-सानुजो बन्दितुं नृपः ॥ ४२२ ॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः ॥ राज्यमेतद्गहाणेति राजाऽवरजमहवीत् ॥ ४२३ ॥ त्वामनुप्राजियामि, कृतं राज्येन तन्मम ॥ तेनेत्युक्तोऽय पृथ्वीशो, राज्येऽस्थापयदात्मजम् ॥ ४२४ ॥ साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहल्या च, गत्वा तीर्थकरान्तिकम् ॥ ४२५ ॥ स्वीचकार परिव्रज्या, श्रीमेघरथपार्थिवः ॥ अधीत्यैकादशाङ्गानि, विजहार च भूतले ॥४२६॥[युग्मम्] विंशत्या स्थानकैरह-सिद्धसेवादिभिः शुभैः ॥ तीर्थकृनाम सत्कर्म, सोऽर्जयामास सार्जवः ॥ ४२७ ॥ सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः॥ पूर्वलक्षं यावदुर्ग, पालयित्वा च संयमम् ॥ ४२८ ॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः।। आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ॥ ४२९ ॥ तद्वान्धवोऽपि समये, कियत्यपि गते सति ॥ प्रावं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः॥ ४३० ॥ . अथास्यत्रैव भरते, भरितं विपुलर्दिभिः ॥ पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥ ४३१ ॥ विश्वसेनो महासेनसेनाजित्वरसैनिकः ॥ तत्रासीद्भूमिसुत्रामा-ऽलकायामिव यक्षराट् ॥ ४३२ ॥ खाहा खाहाप्रियस्यैदा-ऽचिरा तस्त्र महिष्यभूत् ॥ रूपनिर्जितपौलोमी, शीलालङ्कारशालिनी ॥ ४३३ ॥ जीवो मेघरथस्थाऽथ, च्युत्वा सर्वार्थसिद्धतः ॥
१ अनशनम् ॥ २ इन्द्रः ॥ ३ अमेः ॥ ४ इन्द्राणी ।। आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ॥ ४३४ ॥ चतुर्दश महाखमान् , सुखसुप्ता तदा च सा ॥ मुखे प्रवि शतोऽपश्य-प्रशस्याकारधारिणः ॥ ४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः खमार्थमित्यवछ ॥ सार्यो वा सार्वभौमो पा, भावी तव सुतः प्रिये ! ॥ ४३६ ॥ प्राग्जातं शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावादशिवं, शशाम कुरुमण्डले ॥ ४३७ ॥ गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् ॥ सुषुवे सासुतं राज्ञी, वर्णवर्ण मृगध्वजम् ॥४३८॥ प्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः !॥ ४३९॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् ॥ षट्पञ्चाशहिकुमार्यः, सूतिकर्माणि चक्रिरे ॥ ४४०॥ अथासनास्थैर्यदत्ता-5षधिज्ञानोपयोगतः ॥ ज्ञात्वाऽर्हजन्म शक्रोऽपि, तत्रागात्सपरिच्छदः ॥४४१॥ नत्वा जिनं जिनाम्बां च, ज्ञापगित्याऽभिधां निजाम् । दत्त्वाऽवखापिनी देव्याः, प्रमो रूपान्तरं न्यधात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽथ, तेनैकेन जिनेश्वरम् ॥द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुहहन् ॥४४३॥ एकेन च पुरो बज-मुत्क्षिपन् मघवा क्षणात् ।। जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ॥ ४४४ ॥ [ युग्मम् ] अहन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं हरिः ॥ अन्येऽपि पासवाः सर्वे, तत्रैयुश्चलितासनाः ॥ ४४५॥ ततस्तीर्थोदकैस्तीर्थ-करं प्रागच्युताधिपः ॥ अभ्यपि बत्तदनु 'च, क्रमादन्येऽपि कासवाः ॥ ४५६ ॥ अशानप्रमोरहे, जिनं विन्यस्य वनभृत् ॥प्रमोश्चतुर्यु पार्थेषु, विचके
१ भईन् सर्वज्ञः तीर्थकर इति यावत् ॥ २ पकी ॥ ३ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन मशान्तमित्यर्थः ।