________________
237 उत्तराध्ययन ॥ २८१॥ तदा च भो ! विष्णुरयं, बलश्चायं निषेव्यताम् ॥ वदन्त इति तन्मौली, पुष्पवृष्टिं व्यधुः सुराः ॥२८२॥ ततो नतैः खेचरैन्द्र-व्रतो विष्णुः सहाग्रजः॥ गच्छन् खपूर्या कनक-गिरि पर्वतमैक्षत ॥ २८३ ॥ इहाद्रौ सन्ति चैत्यानि, तानि नत्वा ब्रज प्रभो ! ॥ तदेति खेचरैरुक्त-स्तरीत्यानि ननाम सः॥ २८४ ॥ तत्र कीर्तिधरं साधु, तदैयोत्पन्नकेवलम् ॥ वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरिच्छदः ॥ २८५ ॥ बन्धूनां विरहस्तात-घातश्चाभूत्कुतो मम ? ॥ अथेति पृष्टः कनक-श्रिया मुनिरदोऽवदत् ॥ २८६ ॥ धातकीपण्डभरते, शङ्खग्रामेऽभवद्वशा॥श्रीदत्ताहा:तीवदुःस्था, परौकःकृत्यजीविका ॥ २८७ ॥ श्रीपर्वते गता सत्य-यशसं मुनिमन्यदा ॥ वीक्ष्यावन्दत सा दत्ता-शिर्ष तं चैवमब्रवीत् ॥ २८८ ॥ अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद ॥अत्रामुत्र च बेनाहं, भवामि र ॥ २८९ ॥ साधुस्तस्यै ततो धर्म-चक्रवालं तपोऽवदत् ॥ प्रारेभे तत्तपः सापि, तं प्रणम्य गृहं गता ॥ २९० ॥ तन्महिम्ना शुभं भोज्यं, प्राप पारणकेषु सा ॥ खगेहभित्तिदेशाच, पतितात्काञ्चनादिकम् ॥ २९१ ॥ उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः ।। मासोपवासिनेऽन्नादि, ददौ सुव्रतसाधये ॥ २९२ ॥ कृताहारात्ततः साधोः, श्राद्धधर्म च साददे ॥ दध्यो चान्येधुरित्यस्मा-धर्मादावि फलं न वा ? ॥ २९३॥ विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा
१॥ अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते भष्टमं १ इति धर्मचक्रवालं तपः ॥ अथवा प्रथमं षष्ठं १ तत एकान्तरोपवासाः ६० इति । प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वा ८२ । द्वितीयप्रकारे १२३ ॥ ततः ॥ दमितारेमत्सुतस्य, तनया त्यमभूः शुभे !॥२९४॥ तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् ॥ खल्पोऽपि खलु धर्मस्य, कलंको भूरिदुःखदः ॥ २९५ ॥ श्रुत्येति जातवैराग्या, कनकश्रीर्जगी हरिम् ॥ महाभागाऽनुजानीहि, भवाद्भीतां व्रताय माम् ॥ २९६ ॥ ततः स विस्मितः स्याह, शुभामेहि शुभाशये ॥ खयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवः ॥ २९७ ॥ इत्युक्त्वा तां सहादाय, सबलः सबलानुजः ॥ मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम ॥ २९८ ॥ तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः ॥ भ्रातुपुत्रं युद्ध्यमानं, वीक्ष्याऽधावद्वलो बली ॥२९९॥ सीरं भ्रमयतस्तस्मा-भीताः सद्यो दिशोदिशम् ॥ दमितारिभटा मेशु-र्गरुडादिव भोगिनः ॥ ३० ॥ गृहं गतोऽर्द्धचक्रित्वे-5थाऽभ्यपिञ्चि हरिनृपः ॥ स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ॥ ३०१॥ तं च श्रुत्वाऽऽगतं गत्वा, दमितारिमुतायुतः॥ साग्रजः प्राणमद्विष्णु-स्ततोऽश्रीपीच देशनाम ॥ ३०२॥ ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः॥ जिनान्तिके प्रवत्राज, क्रमान्मुक्तिमबाप च ॥३०॥ सीरिशाङ्गधरौ तौ च, पुष्पदन्ताविवापरौ ॥चिरं राज्यमभुआतां, सम्यक्त्वोद्योतशालिनौ ॥ ३०४ ॥ पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः ॥ प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥ ३०५॥ द्विचत्वारिंशत्सहस्र-चर्पायुष्कस्य तस्य च ॥ दुस्सहा जज्ञिरे तत्र, वेदना छेदनादिभिः ॥ ३०६ ॥ वकमणां फलमिति, क्षममाणस्य तस्य ताः॥ तत्रैत्य प्राग्भवपिता-ऽशमयश्चमराधिपः ॥ ३०७॥राज्ये निवेश्य तनयं,
१ शुभां नगरीम् । वलोऽपि भ्रातृशोकतः ॥ भूमीभुजां पोडशभिः, सहस्रैः परिवारितः ॥ ३०८ ॥ परिव्रज्यां जयधर-गणाधीशान्तिकेड
तत्त्वाऽऽयु:-प्रान्तेऽभूद्वासवोऽच्युते ॥३०९॥ [युग्मम् ] जीवोऽथानन्तवीर्यस्य, निरयान्निर्गतस्ततः॥ वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ॥३१० ॥ खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् ॥ मेघनादाभिधः प्राप्त-यौवनो राज्यमाप्य च ॥ ३११॥ साधयामास वैताट्य-श्रेण्यौ द्वे अपि स क्रमात् ॥ विभज्य च ददौ देशानशेपानङ्गजन्मनाम् ॥ ३१२॥ नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा ॥ तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा ॥ ३१३॥ नाम्नामरगुरुस्तत्र, चारणपिस्तदाऽऽययौ ॥ प्रात्राजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ ॥३१४ ॥ स व्रतं पालयंस्तीनं, सहमानः परिपहान् ॥ विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् ॥ ३१५ ॥
इतश्च जम्बूद्वीपेऽस्ति, प्रागविदेहविभूपणे ॥ विजये मङ्गलावयां, नगरी रत्नसञ्चया ॥३१६ ॥ तत्र क्षेमङ्कराहोऽभूद्विश्वक्षेमङ्करो नृपः॥रत्नमालेति तस्यासी-न्महिपी गुणमालिनी ॥ ३१७॥ द्वाविंशतिसमुद्रायुः, प्रपूर्य प्रच्युतोऽच्युतात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ॥३१८ ॥ तदा च सुखसुप्ता सा, महाखप्नांश्चतुर्दश ॥ वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥ ३१९ ॥ सोऽपि स्माह सुतो भावी, चक्रवर्ती तव प्रिये ! ॥ तन्निशम्य दधौ गर्भ, राज्ञी मुदितमानसा ॥ ३२॥क्रमाच सुपुवे पुत्रं, जगत्रयमनोहरम् ॥ खप्नानुसारात्तं भूपो, व्यधाइज्रायुधाऽभिधम् ॥ ३२१ ॥ स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः ॥ लक्ष्मीवतीं नृपसुता-मुदुवाह महामहैः ॥ ३२२॥