________________
235
उतराध्ययन
अस्मिन्नपि त्वया साधो !, वर्त्तित्तव्यं खपुत्रवत् ॥ तमित्युक्त्वाऽचलखामि - समीपे सोग्रहीतम् ॥ १९७ ॥ प्रणम्याच पर्षि श्री - विजयाऽमिततेजसा । अन्येऽपि च प्रमुदिताः स्थानं निजं निजं ययुः ॥ १९८ ॥ श्राद्धधर्म पालयन्ती, धौतयन्तौ च शासनम् ॥ कालं खेचरमत्त्वेंशी, तौ प्राज्यमतिनिन्यतुः ॥ १९९ ॥
अथाऽन्यदा श्रीविजयो- ऽमिततेजाच सङ्गतौ ॥ गतौ मेरुमवन्देता - मनश्वरजिनेश्वरान् ॥ २०० ॥ तत्र चानमत स्वर्ण-शिलास्थौ चारणौ मुनी ॥ ध्यानस्थौ विपुलमति - महामत्याहयौ मुदा ॥ २०१ ॥ तयोम देशनां सर्व-भाषानित्यत्वशंसिनीम् । श्रुत्वा तौ कियदायुन, शेषमस्तीत्यपृच्छताम् ॥ २०२ ॥ तावाख्यतां शेषमायुः, पत्रिंशतिरहानि बाम् ॥ ततस्तौ धर्मकृत्योत्को, खं खं धाम समेयतुः ॥ २०३ ॥ अष्टाहिकोत्सवं कृत्वा, तत्र चाईतवेश्मसु ॥ दानं दत्वा च दीनादेः पुत्रौ विन्यस्य राज्ययोः ॥ २०४ ॥ प्रव्रज्य चाभिनन्दन - जगनंदनसन्निधौ ॥ तौ पादपोपगमनानशनं चक्रतुर्मुदा ॥ २०५ ॥ [ युग्मम् ] खतो महर्द्धिकं तातं, तदा श्रीविजयोऽसरत् ॥ भूयासं पितृतुल्योऽहूं, निदानमिति चाकरोत् ॥ २०६ ॥ विपद्याऽमिततेजाः श्री - विजयश्च बभूवतुः ॥ गीर्वाणी प्राणतखर्गे, विंशत्यर्णषजीवितौ ॥ २०७ ॥
इतश्च जंबुद्वीपप्राग्-विदेहापनिमण्डने || विजये रमणीयाहे, शुभाख्याऽभूत् पुरी शुभा ॥ २०८ ॥ तत्राऽऽसीणरत्नाढ्यो, राजा स्तिमितसागरः ॥ वसुंधरानुद्धराहे, पत्यौ तस्य च बन्धुरे ॥ २०९ ॥ प्रच्युत्य प्राणतस्वर्गा-ज्जीवोs - थामिततेजसः ॥ कुक्षौ वसुंधरादेव्याः, पुत्रत्वेनोदपद्यत ॥ २१० ॥ वदने विशतो दंति-वृषेन्दुकम लोकरान् ॥ सुखसुप्ता तदापश्य-त्खप्ने सा कमलानना ॥ २११ ॥ तया खमफलं पृष्ट- चैवं स्वाह महीपतिः ॥ खन्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ॥ २१२ ॥ तदाकर्ण्य प्रमुदिता, राज्ञी गर्भ बभार सा ॥ क्रमाचाजीजनत्पुत्रं, श्वेतवर्ण सुलक्षणम् ॥ २१३ ॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः ॥ मितम्पच इव द्रव्यं तं चालालयदन्वहम् ॥ २१४ ॥ जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः ॥ उदरेऽनुद्धरादेव्याः समवातरदन्यदा ॥ २१५ ॥ सिंहलक्ष्मी माँनु कुम्भाम्भोधिरैलोच्चयानलान् ॥ मुखे प्रविशतः खने- द्राक्षीद्राज्ञी तदा च सा ॥ २१६ ॥ खप्तार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भाषी तवाऽनघे । ॥ २१७ ॥ कालेऽसूत सुतं सापि, श्यामवर्ण मनोहरम् ॥ तस्योसवैर्नृपो नामा - ऽनन्तवीर्य इति व्यधात् ॥ २१८ ॥ भ्रातरौ वर्द्धमानौ तौ, रममाणौ मिथोऽनिशम् ॥ कलाकलापं सकलं, गुरोर्जगृहतुर्हुतम् ॥ २१९ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भूपोऽन्यदा वाहकेल्यां गतः स्तिमितसागरः ॥ स्वयम्प्रभाऽभिधं साधु- मुद्यानस्थमवन्दत ॥२२१॥ देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् ॥ राज्ये न्यस्यानन्तवीर्य, प्रात्राजीत्तस्य सन्निधौ ॥ २२२ ॥ स चारुधरितोऽप्यन्ते, किञ्चिद्दीक्षां व्यराधयत् ॥ कालं कृत्वा च चमरा - ऽभिधोऽभूदसुराधिपः ॥ २२३ ॥ साग्रजोऽनन्त
१ सभ्रातानन्तवीर्योपि । इति 'घ' संज्ञक पुस्तके ॥
वीर्योऽपि वर्यवीर्यविराजितः ॥ आखण्डल इवाखण्ड - शासनो बुभुजे भुवम् ॥ २२४ ॥ खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः, सर्वा बैताढ्यमीयिवान् ॥ २२५ ॥ 'किराती' 'बर्बरी' संज्ञे, वाभूतां चेटिके तयोः ॥ हरन्त्यौ जगतश्चित्तं, गीतनाट्यादिकौशलात् ॥ २२६ ॥ पुरोऽन्यदा सोदरयो - रास्थानस्थितयोस्तयोः ॥ प्रारब्धे नाटके ताभ्यां तत्रोपेयाय नारदः ॥ २२७ ॥ संगीताक्षिप्तचित्ताभ्यां ताभ्यां चाकृतगौरवः ॥ अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरि-तत्र विद्याधराधिपः । द्रागऽभ्युत्थाय तं सिंहविष्टरेण न्यमन्त्रयत् ॥ २२९ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् ॥ त्वया हि भ्रमता खैरं ब्रूहि दृष्टं किमद्रुतम् ॥ २३० ॥ ततः प्रमुदितोऽवादी - नारदोऽचैव भूपते ! ॥ शुभापुर्यां गतोऽनन्त - वीर्यस्योर्वापतेः पुरः ॥२३१॥ किरातीबर्बरीसंज्ञ - चेटिकारन्धनाटकम् || अहमद्भुतमद्राक्षं, दुरापं घुसदामपि । ॥ २३२ ॥ [ युग्मम् ] तद्विना राज्यमप्येतत् फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा- नारदर्षिः कलिप्रियः ॥ २३३॥ दूतोऽथा नन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरीं नत्वा, साम्रजं तमदोऽवदत् ॥ २३४ ॥ विजयार्द्धेऽत्र यत्सारं, दमितारेस्तदर्हति ॥ चेख्यौ नय्याविमे राज्य - सारे तस्मै प्रदेहि तत् ! ॥ २३५ ॥ उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् ॥ त्वरितं प्रेषविष्यामि, किञ्चिदालोच्य चेटिके ॥ २३६ ॥ ततः प्रयाते दूते तौ, भ्रातराविति दध्यतुः ॥ अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७ ॥ तत्साधयामो विद्याता, यास्तेन सुहृदार्पिताः ॥ अविहस्तौ रहस्तौ द्वौ यावयसृश